Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Nanda Taken from the Water
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एकादश्यां
निराहारः
समभ्यर्च्य
जनार्दनम्
।
स्नातुं
नन्दस्तु
कालिन्द्यां
द्वादश्यां
जलमाविशत्
2
▾
Meaning
Keep
तं
गृहीत्वानयद्
भृत्यो
वरुणस्यासुरोऽन्तिकम्
।
अविज्ञायासुरीं
वेलां
प्रविष्टमुदकं
निशि
3
▾
Meaning
Keep
चुक्रुशुस्तमपश्यन्तः
कृष्ण
रामेति
गोपकाः
।
भगवांस्तदुपश्रुत्य
पितरं
वरुणाहृतम्
।
तदन्तिकं
गतो
राजन्
स्वानामभयदो
विभुः
4
▾
Meaning
Keep
प्राप्तं
वीक्ष्य
हृषीकेशं
लोकपालः
सपर्यया
।
महत्या
पूजयित्वाऽऽह
तद्दर्शनमहोत्सवः
5
▾
Meaning
Keep
अद्य
मे
निभृतो
देहोऽद्यैवार्थोऽधिगतः
प्रभो
।
त्वत्पादभाजो
भगवन्नवापुः
पारमध्वनः
6
▾
Meaning
Keep
नमस्तुभ्यं
भगवते
ब्रह्मणे
परमात्मने
।
न
यत्र
श्रूयते
माया
लोकसृष्टिविकल्पना
7
▾
Meaning
Keep
अजानता
मामकेन
मूढेनाकार्यवेदिना
।
आनीतोऽयं
तव
पिता
तद्भवान्
क्षन्तुमर्हति
8
▾
Meaning
Keep
ममाप्यनुग्रहं
कृष्ण
कर्तुमर्हस्यशेषदृक्
।
गोविन्द
नीयतामेष
पिता
ते
पितृवत्सल
9
▾
Meaning
Keep
एवं
प्रसादितः
कृष्णो
भगवानीश्वरेश्वरः
।
आदायागात्स्वपितरं
बन्धूनां
चावहन्
मुदम्
10
▾
Meaning
Keep
नन्दस्त्वतीन्द्रियं
दृष्ट्वा
लोकपालमहोदयम्
।
कृष्णे
च
सन्नतिं
तेषां
ज्ञातिभ्यो
विस्मितोऽब्रवीत्
11
▾
Meaning
Keep
ते
चौत्सुक्यधियो
राजन्
मत्वा
गोपास्तमीश्वरम्
।
अपि
नः
स्वगतिं
सूक्ष्मामुपाधास्यदधीश्वरः
12
▾
Meaning
Keep
इति
स्वानां
स
भगवान्
विज्ञायाखिलदृक्
स्वयम्
।
संकल्पसिद्धये
तेषां
कृपयैतदचिन्तयत्
13
▾
Meaning
Keep
जनो
वै
लोक
एतस्मिन्नविद्याकामकर्मभिः
।
उच्चावचासु
गतिषु
न
वेद
स्वां
गतिं
भ्रमन्
14
▾
Meaning
Keep
इति
सञ्चिन्त्य
भगवान्
महाकारुणिको
हरिः
।
दर्शयामास
लोकं
स्वं
गोपानां
तमसः
परम्
15
▾
Meaning
Keep
सत्यं
ज्ञानमनन्तं
यद्ब्रह्म
ज्योतिः
सनातनम्
।
यद्धि
पश्यन्ति
मुनयो
गुणापाये
समाहिताः
16
▾
Meaning
Keep
ते
तु
ब्रह्मह्रदं
नीता
मग्नाः
कृष्णेन
चोद्धृताः
।
ददृशुर्ब्रह्मणो
लोकं
यत्राक्रूरोऽध्यगात्पुरा
17
▾
Meaning
Keep
नन्दादयस्तु
तं
दृष्ट्वा
परमानन्दनिर्वृताः
।
कृष्णं
च
तत्र
च्छन्दोभिः
स्तूयमानं
सुविस्मिताः
Previous
←
Indra Asks Pardon
Next
The Night of the Flute
→