Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Song of the Cowherd Women
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
Hymn
1
▾
Meaning
Keep
जयति
तेऽधिकं
जन्मना
व्रजः
श्रयत
इन्दिरा
शश्वदत्र
हि
।
दयित
दृश्यतां
दिक्षु
तावका-
स्त्वयि
धृतासवस्त्वां
विचिन्वते
2
▾
Meaning
Keep
शरदुदाशये
साधुजातस-
त्सरसिजोदर
श्रीमुषा
दृशा
।
सुरतनाथ
तेऽशुल्कदासिका
वरद
निघ्नतो
नेह
किं
वधः
3
▾
Meaning
Keep
विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात्
।
वृषमयात्मजाद्विश्वतोभया-
दृषभ
ते
वयं
रक्षिता
मुहुः
4
▾
Meaning
Keep
न
खलु
गोपीकानन्दनो
भवानखिलदेहिनामन्तरात्मदृक्
।
विखनसार्थितो
विश्वगुप्तये
सख
उदेयिवान्
सात्वतां
कुले
5
▾
Meaning
Keep
विरचिताभयं
वृष्णिधूर्य
ते
चरणमीयुषां
संसृतेर्भयात्
।
करसरोरुहं
कान्त
कामदं
शिरसि
धेहि
नः
श्रीकरग्रहम्
6
▾
Meaning
Keep
व्रजजनार्तिहन्
वीरयोषितां
निजजनस्मयध्वंसनस्मित
।
भज
सखे
भवत्किङ्करीः
स्म
नो
जलरुहाननं
चारु
दर्शय
7
▾
Meaning
Keep
प्रणतदेहिनां
पापकर्षणं
तृणचरानुगं
श्रीनिकेतनम्
।
फणिफणार्पितं
ते
पदाम्बुजं
कृणु
कुचेषु
नः
कृन्धि
हृच्छयम्
8
▾
Meaning
Keep
मधुरया
गिरा
वल्गुवाक्यया
बुधमनोज्ञया
पुष्करेक्षण
।
विधिकरीरिमा
वीर
मुह्यती-
रधरसीधुनाऽऽप्याययस्व
नः
9
▾
Meaning
Keep
तव
कथामृतं
तप्तजीवनं
कविभिरीडितं
कल्मषापहम्
।
श्रवणमङ्गलं
श्रीमदाततं
भुवि
गृणन्ति
ये
भूरिदा
जना
10
▾
Meaning
Keep
प्रहसितं
प्रियप्रेमवीक्षणं
विहरणं
च
ते
ध्यानमङ्गलम्
।
रहसि
संविदो
या
हृदिस्पृशः
कुहक
नो
मनः
क्षोभयन्ति
हि
11
▾
Meaning
Keep
चलसि
यद्व्रजाच्चारयन्
पशून्
नलिनसुन्दरं
नाथ
ते
पदम्
।
शिलतृणाङ्कुरैः
सीदतीति
नः
कलिलतां
मनः
कान्त
गच्छति
12
▾
Meaning
Keep
दिनपरिक्षये
नीलकुन्तलै-
र्वनरुहाननं
बिभ्रदावृतम्
।
घनरजस्वलं
दर्शयन्
मुहु-
र्मनसि
नः
स्मरं
वीर
यच्छसि
13
▾
Meaning
Keep
प्रणतकामदं
पद्मजार्चितं
धरणिमण्डनं
ध्येयमापदि
।
चरणपङ्कजं
शन्तमं
च
ते
रमण
नः
स्तनेष्वर्पयाधिहन्
14
▾
Meaning
Keep
सुरतवर्धनं
शोकनाशनं
स्वरितवेणुना
सुष्ठु
चुम्बितम्
।
इतरराग-विस्मारणं
नृणां
वितर
वीर
नस्तेऽधरामृतम्
15
▾
Meaning
Keep
अटति
यद्
भवानह्नि
काननं
त्रुटियुगायते
त्वामपश्यताम्
।
कुटिलकुन्तलं
श्रीमुखं
च
ते
जड
उदीक्षतां
पक्ष्मकृद्
दृशाम्
16
▾
Meaning
Keep
पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य
तेऽन्त्यच्युतागताः
।
गतिविदस्तवोद्गीतमोहिताः
कितव
योषितः
कस्त्यजेन्निशि
17
▾
Meaning
Keep
रहसि
संविदं
हृच्छयोदयं
प्रहसिताननं
प्रेमवीक्षणम्
।
बृहदुरः
श्रियो
वीक्ष्य
धाम
ते
मुहुरति
स्पृहा
मुह्यते
मनः
18
▾
Meaning
Keep
व्रजवनौकसां
व्यक्तिरङ्ग
ते
वृजिनहन्त्र्यलं
विश्वमङ्गलम्
।
त्यज
मनाक्
च
नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां
यन्निषूदनम्
19
▾
Meaning
Keep
यत्ते
सुजात
चरणाम्बुरुहं
स्तनेषु
भीताः
शनैः
प्रिय
दधीमहि
कर्कशेषु
।
तेनाटवीमटसि
तद्व्यथते
न
किंस्वित्
कूर्पादिभिर्भ्रमति
धीर्भवदायुषां
नः
Previous
←
Looking for Him in the Wood
Next
Why He Hid Himself
→