Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Sudarsana Freed and Sankhacuda Killed
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एकदा
देवयात्रायां
गोपाला
जातकौतुकाः
।
अनोभिरनडुद्युक्तैः
प्रययुस्तेऽम्बिकावनम्
2
▾
Meaning
Keep
तत्र
स्नात्वा
सरस्वत्यां
देवं
पशुपतिं
विभुम्
।
आनर्चुरर्हणैर्भक्त्या
देवीं
च
नृपतेऽम्बिकाम्
3
▾
Meaning
Keep
गावो
हिरण्यं
वासांसि
मधु
मध्वन्नमादृताः
।
ब्राह्मणेभ्यो
ददुः
सर्वे
देवो
नः
प्रीयतामिति
4
▾
Meaning
Keep
ऊषुः
सरस्वतीतीरे
जलं
प्राश्य
यतव्रताः
।
रजनीं
तां
महाभागा
नन्दसुनन्दकादयः
5
▾
Meaning
Keep
कश्चिन्महानहिस्तस्मिन्
विपिनेऽतिबुभुक्षितः
।
यदृच्छयाऽऽगतो
नन्दं
शयानमुरगोऽग्रसीत्
6
▾
Meaning
Keep
स
चुक्रोशाहिना
ग्रस्तः
कृष्ण
कृष्ण
महानयम्
।
सर्पो
मां
ग्रसते
तात
प्रपन्नं
परिमोचय
7
▾
Meaning
Keep
तस्य
चाक्रन्दितं
श्रुत्वा
गोपालाः
सहसोत्थिताः
।
ग्रस्तं
च
दृष्ट्वा
विभ्रान्ताः
सर्पं
विव्यधुरुल्मुकैः
8
▾
Meaning
Keep
अलातैर्दह्यमानोऽपि
नामुञ्चत्तमुरङ्गमः
।
तमस्पृशत्पदाभ्येत्य
भगवान्
सात्वतां
पतिः
9
▾
Meaning
Keep
स
वै
भगवतः
श्रीमत्पादस्पर्शहताशुभः
।
भेजे
सर्पवपुर्हित्वा
रूपं
विद्याधरार्चितम्
10
▾
Meaning
Keep
तमपृच्छद्
धृषीकेशः
प्रणतं
समवस्थितम्
।
दीप्यमानेन
वपुषा
पुरुषं
हेममालिनम्
11
▾
Meaning
Keep
को
भवान्
परया
लक्ष्म्या
रोचतेऽद्भुतदर्शनः
।
कथं
जुगुप्सितामेतां
गतिं
वा
प्रापितोऽवशः
12
▾
Meaning
Keep
अहं
विद्याधरः
कश्चित्
सुदर्शन
इति
श्रुतः
।
श्रिया
स्वरूपसम्पत्त्या
विमानेनाचरं
दिशः
13
▾
Meaning
Keep
ऋषीन्
विरूपानङ्गिरसः
प्राहसं
रूपदर्पितः
।
तैरिमां
प्रापितो
योनिं
प्रलब्धैः
स्वेन
पाप्मना
14
▾
Meaning
Keep
शापो
मेऽनुग्रहायैव
कृतस्तैः
करुणात्मभिः
।
यदहं
लोकगुरुणा
पदा
स्पृष्टो
हताशुभः
15
▾
Meaning
Keep
तं
त्वाहं
भवभीतानां
प्रपन्नानां
भयापहम्
।
आपृच्छे
शापनिर्मुक्तः
पादस्पर्शादमीवहन्
16
▾
Meaning
Keep
प्रपन्नोऽस्मि
महायोगिन्
महापुरुष
सत्पते
।
अनुजानीहि
मां
देव
सर्वलोकेश्वरेश्वर
17
▾
Meaning
Keep
ब्रह्मदण्डाद्विमुक्तोऽहं
सद्यस्तेऽच्युत
दर्शनात्
।
यन्नाम
गृह्णन्नखिलान्
श्रोतॄनात्मानमेव
च
।
सद्यः
पुनाति
किं
भूयस्तस्य
स्पृष्टः
पदा
हि
ते
18
▾
Meaning
Keep
इत्यनुज्ञाप्य
दाशार्हं
परिक्रम्याभिवन्द्य
च
।
सुदर्शनो
दिवं
यातः
कृच्छ्रान्नन्दश्च
मोचितः
19
▾
Meaning
Keep
निशाम्य
कृष्णस्य
तदात्मवैभवं
व्रजौकसो
विस्मितचेतसस्ततः
।
समाप्य
तस्मिन्नियमं
पुनर्व्रजं
नृपाययुस्तत्कथयन्त
आदृताः
20
▾
Meaning
Keep
कदाचिदथ
गोविन्दो
रामश्चाद्भुतविक्रमः
।
विजह्रतुर्वने
रात्र्यां
मध्यगौ
व्रजयोषिताम्
21
▾
Meaning
Keep
उपगीयमानौ
ललितं
स्त्रीजनैर्बद्धसौहृदैः
।
स्वलङ्कृतानुलिप्ताङ्गौ
स्रग्विनौ
विरजोऽम्बरौ
22
▾
Meaning
Keep
निशामुखं
मानयन्तावुदितोडुपतारकम्
।
मल्लिकागन्धमत्तालिजुष्टं
कुमुदवायुना
23
▾
Meaning
Keep
जगतुः
सर्वभूतानां
मनःश्रवणमङ्गलम्
।
तौ
कल्पयन्तौ
युगपत्स्वरमण्डलमूर्च्छितम्
24
▾
Meaning
Keep
गोप्यस्तद्गीतमाकर्ण्य
मूर्च्छिता
नाविदन्
नृप
।
स्रंसद्दुकूलमात्मानं
स्रस्तकेशस्रजं
ततः
25
▾
Meaning
Keep
एवं
विक्रीडतोः
स्वैरं
गायतोः
सम्प्रमत्तवत्
।
शङ्खचूड
इति
ख्यातो
धनदानुचरोऽभ्यगात्
26
▾
Meaning
Keep
तयोर्निरीक्षतो
राजंस्तन्नाथं
प्रमदाजनम्
।
क्रोशन्तं
कालयामास
दिश्युदीच्यामशङ्कितः
27
▾
Meaning
Keep
क्रोशन्तं
कृष्ण
रामेति
विलोक्य
स्वपरिग्रहम्
।
यथा
गा
दस्युना
ग्रस्ता
भ्रातरावन्वधावताम्
28
▾
Meaning
Keep
मा
भैष्टेत्यभयारावौ
शालहस्तौ
तरस्विनौ
।
आसेदतुस्तं
तरसा
त्वरितं
गुह्यकाधमम्
29
▾
Meaning
Keep
स
वीक्ष्य
तावनुप्राप्तौ
कालमृत्यू
इवोद्विजन्
।
विसृज्य
स्त्रीजनं
मूढः
प्राद्रवज्जीवितेच्छया
30
▾
Meaning
Keep
तमन्वधावद्गोविन्दो
यत्र
यत्र
स
धावति
।
जिहीर्षुस्तच्छिरोरत्नं
तस्थौ
रक्षन्
स्त्रियो
बलः
31
▾
Meaning
Keep
अविदूर
इवाभ्येत्य
शिरस्तस्य
दुरात्मनः
।
जहार
मुष्टिनैवाङ्ग
सहचूडमणिं
विभुः
32
▾
Meaning
Keep
शङ्खचूडं
निहत्यैवं
मणिमादाय
भास्वरम्
।
अग्रजायाददात्प्रीत्या
पश्यन्तीनां
च
योषिताम्
Previous
←
The Circle of the Rasa
Next
The Song of the Cowherd Women
→