Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Song of the Cowherd Women
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
गोप्यः
कृष्णे
वनं
याते
तमनुद्रुतचेतसः
।
कृष्णलीलाः
प्रगायन्त्यो
निन्युर्दुःखेन
वासरान्
2
▾
Meaning
Keep
वामबाहुकृतवामकपोलो
वल्गितभ्रुरधरार्पितवेणुम्
।
कोमलाङ्गुलिभिराश्रितमार्गं
गोप्य
ईरयति
यत्र
मुकुन्दः
3
▾
Meaning
Keep
व्योमयानवनिताः
सहसिद्धै-
र्विस्मितास्तदुपधार्य
सलज्जाः
।
काममार्गणसमर्पितचित्ताः
कश्मलं
ययुरपस्मृतनीव्यः
4
▾
Meaning
Keep
हन्त
चित्रमबलाः
शृणुतेदं
हारहास
उरसि
स्थिरविद्युत्
।
नन्दसूनुरयमार्तजनानां
नर्मदो
यर्हि
कूजितवेणुः
5
▾
Meaning
Keep
वृन्दशो
व्रजवृषा
मृगगावो
वेणुवाद्यहृतचेतस
आरात्
।
दन्तदष्टकवला
धृतकर्णा
निद्रिता
लिखितचित्रमिवासन्
6
▾
Meaning
Keep
बर्हिणस्तबकधातुपलाशै-
र्बद्धमल्लपरिबर्हविडम्बः
।
कर्हिचित्सबल
आलि
सगोपै-
र्गाः
समाह्वयति
यत्र
मुकुन्दः
7
▾
Meaning
Keep
तर्हि
भग्नगतयः
सरितो
वै
तत्पदाम्बुजरजोऽनिलनीतम्
।
स्पृहयतीर्वयमिवाबहुपुण्याः
प्रेमवेपितभुजाः
स्तिमितापः
8
▾
Meaning
Keep
अनुचरैः
समनुवर्णितवीर्य
आदिपूरुष
इवाचलभूतिः
।
वनचरो
गिरितटेषु
चरन्ती-
र्वेणुनाऽऽह्वयति
गाः
स
यदा
हि
9
▾
Meaning
Keep
वनलतास्तरव
आत्मनि
विष्णुं
व्यञ्जयन्त्य
इव
पुष्पफलाढ्याः
।
प्रणतभारविटपा
मधुधाराः
प्रेमहृष्टतनवः
ससृजुः
स्म
10
▾
Meaning
Keep
दर्शनीयतिलको
वनमालादिव्यगन्धतुलसीमधुमत्तैः
।
अलिकुलैरलघुगीतामभीष्टमाद्रियन्
यर्हि
सन्धितवेणुः
11
▾
Meaning
Keep
सरसि
सारसहंसविहङ्गाश्चारुगीताहृतचेतस
एत्य
।
हरिमुपासत
ते
यतचित्ता
हन्त
मीलितदृशो
धृतमौनाः
12
▾
Meaning
Keep
सहबलः
स्रगवतंसविलासः
सानुषु
क्षितिभृतो
व्रजदेव्यः
।
हर्षयन्
यर्हि
वेणुरवेण
जातहर्ष
उपरम्भति
विश्वम्
13
▾
Meaning
Keep
महदतिक्रमणशङ्कितचेता
मन्दमन्दमनुगर्जति
मेघः
।
सुहृदमभ्यवर्षत्सुमनोभि-
श्छायया
च
विदधत्प्रतपत्रम्
14
▾
Meaning
Keep
विविधगोपचरणेषु
विदग्धो
वेणुवाद्य
उरुधा
निजशिक्षाः
।
तव
सुतः
सति
यदाधरबिम्बे
दत्तवेणुरनयत्स्वरजातीः
15
▾
Meaning
Keep
सवनशस्तदुपधार्य
सुरेशाः
शक्रशर्वपरमेष्ठिपुरोगाः
।
कवय
आनतकन्धरचित्ताः
कश्मलं
ययुरनिश्चिततत्त्वाः
16
▾
Meaning
Keep
निजपदाब्जदलैर्ध्वजवज्र-
नीरजाङ्कुशविचित्रललामैः
।
व्रजभुवः
शमयन्
खुरतोदं
वर्ष्मधुर्यगतिरीडितवेणुः
17
▾
Meaning
Keep
व्रजति
तेन
वयं
सविलास-
वीक्षणार्पितमनोभववेगाः
।
कुजगतिं
गमिता
न
विदामः
कश्मलेन
कवरं
वसनं
वा
18
▾
Meaning
Keep
मणिधरः
क्वचिदागणयन्
गा
मालया
दयित
गन्धतुलस्याः
।
प्रणयिनोऽनुचरस्य
कदांसे
प्रक्षिपन्
भुजमगायत
यत्र
19
▾
Meaning
Keep
क्वणितवेणुरववञ्चितचित्ताः
कृष्णमन्वसत
कृष्णगृहिण्यः
।
गुणगणार्णमनुगत्य
हरिण्यो
गोपिका
इव
विमुक्तगृहाशाः
20
▾
Meaning
Keep
कुन्ददामकृतकौतुकवेषो
गोपगोधनवृतो
यमुनायाम्
।
नन्दसूनुरनघे
तव
वत्सो
नर्मदः
प्रणयिणां
विजहार
21
▾
Meaning
Keep
मन्दवायुरुपवात्यनकूलं
मानयन्
मलयजस्पर्शेन
।
वन्दिनस्तमुपदेवगणा
ये
वाद्यगीतबलिभिः
परिवव्रुः
22
▾
Meaning
Keep
वत्सलो
व्रजगवां
यदगध्रो
वन्द्यमानचरणः
पथि
वृद्धैः
।
कृत्स्नगोधनमुपोह्य
दिनान्ते
गीतवेणुरनुगेडितकीर्तिः
23
▾
Meaning
Keep
उत्सवं
श्रमरुचापि
दृशीना-
मुन्नयन्
खुररजश्छुरितस्रक्
।
दित्सयैति
सुहृदाशिष
एष
देवकीजठरभूरुडुराजः
24
▾
Meaning
Keep
मदविघूर्णितलोचन
ईष-
न्मानदः
स्वसुहृदां
वनमाली
।
बदरपाण्डुवदनो
मृदुगण्डं
मण्डयन्
कनककुण्डललक्ष्म्या
25
▾
Meaning
Keep
यदुपतिर्द्विरदराजविहारो
यामिनीपतिरिवैष
दिनान्ते
।
मुदितवक्त्र
उपयाति
दुरन्तं
मोचयन्
व्रजगवां
दिनतापम्
26
▾
Meaning
Keep
एवं
व्रजस्त्रियो
राजन्
कृष्णलीला
नु
गायतीः
।
रेमिरेऽहःसु
तच्चित्तास्तन्मनस्का
महोदयाः
Previous
←
Sudarsana Freed and Sankhacuda Killed
Next
Arista, and the Sending of Akrura
→