Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Akrura Goes to Vrndavana
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अक्रूरोऽपि
च
तां
रात्रिं
मधुपुर्यां
महामतिः
।
उषित्वा
रथमास्थाय
प्रययौ
नन्दगोकुलम्
2
▾
Meaning
Keep
गच्छन्
पथि
महाभागो
भगवत्यम्बुजेक्षणे
।
भक्तिं
परामुपगत
एवमेतदचिन्तयत्
3
▾
Meaning
Keep
किं
मयाऽऽचरितं
भद्रं
किं
तप्तं
परमं
तपः
।
किं
वाथाप्यर्हते
दत्तं
यद्द्रक्ष्याम्यद्य
केशवम्
4
▾
Meaning
Keep
ममैतद्दुर्लभं
मन्य
उत्तमश्लोकदर्शनम्
।
विषयात्मनो
यथा
ब्रह्मकीर्तनं
शूद्रजन्मनः
5
▾
Meaning
Keep
मैवं
ममाधमस्यापि
स्यादेवाच्युतदर्शनम्
।
ह्रियमाणः
कालनद्या
क्वचित्तरति
कश्चन
6
▾
Meaning
Keep
ममाद्यामङ्गलं
नष्टं
फलवांश्चैव
मे
भवः
।
यन्नमस्ये
भगवतो
योगिध्येयाङ्घ्रिपङ्कजम्
7
▾
Meaning
Keep
कंसो
बताद्याकृत
मेऽत्यनुग्रहं
द्रक्ष्येऽङ्घ्रिपद्मं
प्रहितोऽमुना
हरेः
।
कृतावतारस्य
दुरत्ययं
तमः
पूर्वेऽतरन्
यन्नखमण्डलत्विषा
8
▾
Meaning
Keep
यदर्चितं
ब्रह्मभवादिभिः
सुरैः
श्रिया
च
देव्या
मुनिभिः
ससात्वतैः
।
गोचारणायानुचरैश्चरद्वने
यद्
गोपिकानां
कुचकुङ्कुमाङ्कितम्
9
▾
Meaning
Keep
द्रक्ष्यामि
नूनं
सुकपोलनासिकं
स्मितावलोकारुणकञ्जलोचनम्
।
मुखं
मुकुन्दस्य
गुडालकावृतं
प्रदक्षिणं
मे
प्रचरन्ति
वै
मृगाः
10
▾
Meaning
Keep
अप्यद्य
विष्णोर्मनुजत्वमीयुषो
भारावताराय
भुवो
निजेच्छया
।
लावण्यधाम्नो
भवितोपलम्भनं
मह्यं
न
न
स्यात्फलमञ्जसा
दृशः
11
▾
Meaning
Keep
य
ईक्षिताहंरहितोऽप्यसत्सतोः
स्वतेजसापास्ततमोभिदाभ्रमः
।
स्वमाययाऽऽत्मन्
रचितैस्तदीक्षया
प्राणाक्षधीभिः
सदनेष्वभीयते
12
▾
Meaning
Keep
यस्याखिलामीवहभिः
सुमङ्गलैर्वाचो
विमिश्रा
गुणकर्मजन्मभिः
।
प्राणन्ति
शुम्भन्ति
पुनन्ति
वै
जगद्
यास्तद्विरक्ताः
शवशोभना
मताः
13
▾
Meaning
Keep
स
चावतीर्णः
किल
सात्वतान्वये
स्वसेतुपालामरवर्यशर्मकृत्
।
यशो
वितन्वन्
व्रज
आस्त
ईश्वरो
गायन्ति
देवा
यदशेषमङ्गलम्
14
▾
Meaning
Keep
तं
त्वद्य
नूनं
महतां
गतिं
गुरुं
त्रैलोक्यकान्तं
दृशिमन्महोत्सवम्
।
रूपं
दधानं
श्रिय
ईप्सितास्पदं
द्रक्ष्ये
ममासन्नुषसः
सुदर्शनाः
15
▾
Meaning
Keep
अथावरूढः
सपदीशयो
रथात्
प्रधानपुंसोश्चरणं
स्वलब्धये
।
धिया
धृतं
योगिभिरप्यहं
ध्रुवं
नमस्य
आभ्यां
च
सखीन्
वनौकसः
16
▾
Meaning
Keep
अप्यङ्घ्रिमूले
पतितस्य
मे
विभुः
शिरस्यधास्यन्निजहस्तपङ्कजम्
।
दत्ताभयं
कालभुजङ्गरंहसा
प्रोद्वेजितानां
शरणैषिणां
नृणाम्
17
▾
Meaning
Keep
समर्हणं
यत्र
निधाय
कौशिक-
स्तथा
बलिश्चाप
जगत्त्रयेन्द्रताम्
।
यद्वा
विहारे
व्रजयोषितां
श्रमं
स्पर्शेन
सौगन्धिकगन्ध्यपानुदत्
18
▾
Meaning
Keep
न
मय्युपैष्यत्यरिबुद्धिमच्युतः
कंसस्य
दूतः
प्रहितोऽपि
विश्वदृक्
।
योऽन्तर्बहिश्चेतस
एतदीहितं
क्षेत्रज्ञ
ईक्षत्यमलेन
चक्षुषा
19
▾
Meaning
Keep
अप्यङ्घ्रिमूलेऽवहितं
कृताञ्जलिं
मामीक्षिता
सस्मितमार्द्रया
दृशा
।
सपद्यपध्वस्तसमस्तकिल्बिषो
वोढा
मुदं
वीतविशङ्क
ऊर्जिताम्
20
▾
Meaning
Keep
सुहृत्तमं
ज्ञातिमनन्यदैवतं
दोर्भ्यां
बृहद्भ्यां
परिरप्स्यतेऽथ
माम्
।
आत्मा
हि
तीर्थीक्रियते
तदैव
मे
बन्धश्च
कर्मात्मक
उच्छ्वसित्यतः
21
▾
Meaning
Keep
लब्ध्वाङ्गसङ्गं
प्रणतं
कृताञ्जलिं
मां
वक्ष्यतेऽक्रूर
ततेत्युरुश्रवाः
।
तदा
वयं
जन्मभृतो
महीयसा
नैवादृतो
यो
धिगमुष्य
जन्म
तत्
22
▾
Meaning
Keep
न
तस्य
कश्चिद्दयितः
सुहृत्तमो
न
चाप्रियो
द्वेष्य
उपेक्ष्य
एव
वा
।
तथापि
भक्तान्
भजते
यथा
तथा
सुरद्रुमो
यद्वदुपाश्रितोऽर्थदः
23
▾
Meaning
Keep
किञ्चाग्रजो
मावनतं
यदूत्तमः
स्मयन्
परिष्वज्य
गृहीतमञ्जलौ
।
गृहं
प्रवेश्याप्तसमस्तसत्कृतं
सम्प्रक्ष्यते
कंसकृतं
स्वबन्धुषु
24
▾
Meaning
Keep
इति
सञ्चिन्तयन्
कृष्णं
श्वफल्कतनयोऽध्वनि
।
रथेन
गोकुलं
प्राप्तः
सूर्यश्चास्तगिरिं
नृप
25
▾
Meaning
Keep
पदानि
तस्याखिललोकपाल-
किरीटजुष्टामलपादरेणोः
।
ददर्श
गोष्ठे
क्षितिकौतुकानि
विलक्षितान्यब्जयवाङ्कुशाद्यैः
26
▾
Meaning
Keep
तद्दर्शनाह्लादविवृद्धसम्भ्रमः
प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः
।
रथादवस्कन्द्य
स
तेष्वचेष्टत
प्रभोरमून्यङ्घ्रिरजांस्यहो
इति
27
▾
Meaning
Keep
देहंभृतामियानर्थो
हित्वा
दम्भं
भियं
शुचम्
।
संदेशाद्
यो
हरेर्लिङ्गदर्शनश्रवणादिभिः
28
▾
Meaning
Keep
ददर्श
कृष्णं
रामं
च
व्रजे
गोदोहनं
गतौ
।
पीतनीलाम्बरधरौ
शरदम्बुरुहेक्षणौ
29
▾
Meaning
Keep
किशोरौ
श्यामलश्वेतौ
श्रीनिकेतौ
बृहद्भुजौ
।
सुमुखौ
सुन्दरवरौ
बलद्विरदविक्रमौ
30
▾
Meaning
Keep
ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम्
।
शोभयन्तौ
महात्मानौ
सानुक्रोशस्मितेक्षणौ
31
▾
Meaning
Keep
उदाररुचिरक्रीडौ
स्रग्विणौ
वनमालिनौ
।
पुण्यगन्धानुलिप्ताङ्गौ
स्नातौ
विरजवाससौ
32
▾
Meaning
Keep
प्रधानपुरुषावाद्यौ
जगद्धेतू
जगत्पती
।
अवतीर्णौ
जगत्यर्थे
स्वांशेन
बलकेशवौ
33
▾
Meaning
Keep
दिशो
वितिमिरा
राजन्
कुर्वाणौ
प्रभया
स्वया
।
यथा
मारकतः
शैलो
रौप्यश्च
कनकाचितौ
34
▾
Meaning
Keep
रथात्तूर्णमवप्लुत्य
सोऽक्रूरः
स्नेहविह्वलः
।
पपात
चरणोपान्ते
दण्डवद्रामकृष्णयोः
35
▾
Meaning
Keep
भगवद्दर्शनाह्लादबाष्पपर्याकुलेक्षणः
।
पुलकचिताङ्ग
औत्कण्ठ्यात्
स्वाख्याने
नाशकन्
नृप
36
▾
Meaning
Keep
भगवांस्तमभिप्रेत्य
रथाङ्गाङ्कितपाणिना
।
परिरेभेऽभ्युपाकृष्य
प्रीतः
प्रणतवत्सलः
37
▾
Meaning
Keep
सङ्कर्षणश्च
प्रणतमुपगुह्य
महामनाः
।
गृहीत्वा
पाणिना
पाणी
अनयत्सानुजो
गृहम्
38
▾
Meaning
Keep
पृष्ट्वाथ
स्वागतं
तस्मै
निवेद्य
च
वरासनम्
।
प्रक्षाल्य
विधिवत्पादौ
मधुपर्कार्हणमाहरत्
39
▾
Meaning
Keep
निवेद्य
गां
चातिथये
संवाह्य
श्रान्तमादृतः
।
अन्नं
बहुगुणं
मेध्यं
श्रद्धयोपाहरद्विभुः
40
▾
Meaning
Keep
तस्मै
भुक्तवते
प्रीत्या
रामः
परमधर्मवित्
।
मखवासैर्गन्धमाल्यैः
परां
प्रीतिं
व्यधात्पुनः
41
▾
Meaning
Keep
पप्रच्छ
सत्कृतं
नन्दः
कथं
स्थ
निरनुग्रहे
।
कंसे
जीवति
दाशार्ह
सौनपाला
इवावयः
42
▾
Meaning
Keep
योऽवधीत्स्वस्वसुस्तोकान्
क्रोशन्त्या
असुतृप्
खलः
।
किं
नु
स्वित्तत्प्रजानां
वः
कुशलं
विमृशामहे
43
▾
Meaning
Keep
इत्थं
सूनृतया
वाचा
नन्देन
सुसभाजितः
।
अक्रूरः
परिपृष्टेन
जहावध्वपरिश्रमम्
Previous
←
Kesi and Vyoma, and Narada's Praise
Next
The Leaving of Vrndavana, and Akrura in the River
→