Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Akrura's Praise
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
नतोऽस्म्यहं
त्वाखिलहेतुहेतुं
नारायणं
पूरुषमाद्यमव्ययम्
।
यन्नाभिजातादरविन्दकोषाद्
ब्रह्माऽऽविरासीद्
यत
एष
लोकः
2
▾
Meaning
Keep
भूस्तोयमग्निः
पवनः
खमादि-
र्महानजादिर्मन
इन्द्रियाणि
।
सर्वेन्द्रियार्था
विबुधाश्च
सर्वे
ये
हेतवस्ते
जगतोऽङ्ग
भूताः
3
▾
Meaning
Keep
नैते
स्वरूपं
विदुरात्मनस्ते
ह्यजादयोऽनात्मतया
गृहीताः
।
अजोऽनुबद्धः
स
गुणैरजाया
गुणात्परं
वेद
न
ते
स्वरूपम्
4
▾
Meaning
Keep
त्वां
योगिनो
यजन्त्यद्धा
महापुरुषमीश्वरम्
।
साध्यात्मं
साधिभूतं
च
साधिदैवं
च
साधवः
5
▾
Meaning
Keep
त्रय्या
च
विद्यया
केचित्त्वां
वै
वैतानिका
द्विजाः
।
यजन्ते
विततैर्यज्ञैर्नानारूपामराख्यया
6
▾
Meaning
Keep
एके
त्वाखिलकर्माणि
संन्यस्योपशमं
गताः
।
ज्ञानिनो
ज्ञानयज्ञेन
यजन्ति
ज्ञानविग्रहम्
7
▾
Meaning
Keep
अन्ये
च
संस्कृतात्मानो
विधिनाभिहितेन
ते
।
यजन्ति
त्वन्मयास्त्वां
वै
बहुमूर्त्येकमूर्तिकम्
8
▾
Meaning
Keep
त्वामेवान्ये
शिवोक्तेन
मार्गेण
शिवरूपिणम्
।
बह्वाचार्यविभेदेन
भगवन्
समुपासते
9
▾
Meaning
Keep
सर्व
एव
यजन्ति
त्वां
सर्वदेवमयेश्वरम्
।
येऽप्यन्यदेवताभक्ता
यद्यप्यन्यधियः
प्रभो
10
▾
Meaning
Keep
यथाद्रिप्रभवा
नद्यः
पर्जन्यापूरिताः
प्रभो
।
विशन्ति
सर्वतः
सिन्धुं
तद्वत्त्वां
गतयोऽन्ततः
11
▾
Meaning
Keep
सत्त्वं
रजस्तम
इति
भवतः
प्रकृतेर्गुणाः
।
तेषु
हि
प्राकृताः
प्रोता
आब्रह्मस्थावरादयः
12
▾
Meaning
Keep
तुभ्यं
नमस्तेऽत्वविषक्तदृष्टये
सर्वात्मने
सर्वधियां
च
साक्षिणे
।
गुणप्रवाहोऽयमविद्यया
कृतः
प्रवर्तते
देवनृतिर्यगात्मसु
13
▾
Meaning
Keep
अग्निर्मुखं
तेऽवनिरङ्घ्रिरीक्षणं
सूर्यो
नभो
नाभिरथो
दिशः
श्रुतिः
।
द्यौः
कं
सुरेन्द्रास्तव
बाहवोऽर्णवाः
कुक्षिर्मरुत्प्राणबलं
प्रकल्पितम्
14
▾
Meaning
Keep
रोमाणि
वृक्षौषधयः
शिरोरुहा
मेघाः
परस्यास्थि
नखानि
तेऽद्रयः
।
निमेषणं
रात्र्यहनी
प्रजापति-
र्मेढ्रस्तु
वृष्टिस्तव
वीर्यमिष्यते
15
▾
Meaning
Keep
त्वय्यव्ययात्मन्
पुरुषे
प्रकल्पिता
लोकाः
सपाला
बहुजीवसङ्कुलाः
।
यथा
जले
सञ्जिहते
जलौकसो-
ऽप्युदुम्बरे
वा
मशका
मनोमये
16
▾
Meaning
Keep
यानि
यानीह
रूपाणि
क्रीडनार्थं
बिभर्षि
हि
।
तैरामृष्टशुचो
लोका
मुदा
गायन्ति
ते
यशः
Hymn
17
▾
Meaning
Keep
नमः
कारणमत्स्याय
प्रलयाब्धिचराय
च
।
हयशीर्ष्णे
नमस्तुभ्यं
मधुकैटभमृत्यवे
18
▾
Meaning
Keep
अकूपाराय
बृहते
नमो
मन्दरधारिणे
।
क्षित्युद्धारविहाराय
नमः
सूकरमूर्तये
19
▾
Meaning
Keep
नमस्तेऽद्भुतसिंहाय
साधुलोकभयापह
।
वामनाय
नमस्तुभ्यं
क्रान्तत्रिभुवनाय
च
20
▾
Meaning
Keep
नमो
भृगूणां
पतये
दृप्तक्षत्रवनच्छिदे
।
नमस्ते
रघुवर्याय
रावणान्तकराय
च
21
▾
Meaning
Keep
नमस्ते
वासुदेवाय
नमः
सङ्कर्षणाय
च
।
प्रद्युम्नायानिरुद्धाय
सात्वतां
पतये
नमः
22
▾
Meaning
Keep
नमो
बुद्धाय
शुद्धाय
दैत्यदानवमोहिने
।
म्लेच्छप्रायक्षत्रहन्त्रे
नमस्ते
कल्किरूपिणे
23
▾
Meaning
Keep
भगवञ्जीवलोकोऽयं
मोहितस्तव
मायया
।
अहंममेत्यसद्ग्राहो
भ्राम्यते
कर्मवर्त्मसु
24
▾
Meaning
Keep
अहं
चात्मात्मजागारदारार्थस्वजनादिषु
।
भ्रमामि
स्वप्नकल्पेषु
मूढः
सत्यधिया
विभो
25
▾
Meaning
Keep
अनित्यानात्मदुःखेषु
विपर्ययमतिर्ह्यहम्
।
द्वन्द्वारामस्तमोविष्टो
न
जाने
त्वाऽऽत्मनः
प्रियम्
26
▾
Meaning
Keep
यथाबुधो
जलं
हित्वा
प्रतिच्छन्नं
तदुद्भवैः
।
अभ्येति
मृगतृष्णां
वै
तद्वत्त्वाहं
पराङ्मुखः
27
▾
Meaning
Keep
नोत्सहेऽहं
कृपणधीः
कामकर्महतं
मनः
।
रोद्धुं
प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्ततः
28
▾
Meaning
Keep
सोऽहं
तवाङ्घ्र्युपगतोऽस्म्यसतां
दुरापं
तच्चाप्यहं
भवदनुग्रह
ईश
मन्ये
।
पुंसो
भवेद्यर्हि
संसरणापवर्ग-
स्त्वय्यब्जनाभ
सदुपासनया
मतिः
स्यात्
29
▾
Meaning
Keep
नमो
विज्ञानमात्राय
सर्वप्रत्ययहेतवे
।
पुरुषेशप्रधानाय
ब्रह्मणेऽनन्तशक्तये
30
▾
Meaning
Keep
नमस्ते
वासुदेवाय
सर्वभूतक्षयाय
च
।
हृषीकेश
नमस्तुभ्यं
प्रपन्नं
पाहि
मां
प्रभो
Previous
←
The Leaving of Vrndavana, and Akrura in the River
Next
Entering Mathura
→