Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Elephant at the Gate
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
कृष्णश्च
रामश्च
कृतशौचौ
परंतप
।
मल्लदुन्दुभिनिर्घोषं
श्रुत्वा
द्रष्टुमुपेयतुः
2
▾
Meaning
Keep
रङ्गद्वारं
समासाद्य
तस्मिन्
नागमवस्थितम्
।
अपश्यत्कुवलयापीडं
कृष्णोऽम्बष्ठप्रचोदितम्
3
▾
Meaning
Keep
बद्ध्वा
परिकरं
शौरिः
समुह्य
कुटिलालकान्
।
उवाच
हस्तिपं
वाचा
मेघनादगभीरया
4
▾
Meaning
Keep
अम्बष्ठाम्बष्ठ
मार्गं
नौ
देह्यपक्रम
मा
चिरम्
।
नो
चेत्सकुञ्जरं
त्वाद्य
नयामि
यमसादनम्
5
▾
Meaning
Keep
एवं
निर्भर्त्सितोऽम्बष्ठः
कुपितः
कोपितं
गजम्
।
चोदयामास
कृष्णाय
कालान्तकयमोपमम्
6
▾
Meaning
Keep
करीन्द्रस्तमभिद्रुत्य
करेण
तरसाग्रहीत्
।
कराद्विगलितः
सोऽमुं
निहत्याङ्घ्रिष्वलीयत
7
▾
Meaning
Keep
संक्रुद्धस्तमचक्षाणो
घ्राणदृष्टिः
स
केशवम्
।
परामृशत्
पुष्करेण
स
प्रसह्य
विनिर्गतः
8
▾
Meaning
Keep
पुच्छे
प्रगृह्यातिबलं
धनुषः
पञ्चविंशतिम्
।
विचकर्ष
यथा
नागं
सुपर्ण
इव
लीलया
9
▾
Meaning
Keep
स
पर्यावर्तमानेन
सव्यदक्षिणतोऽच्युतः
।
बभ्राम
भ्राम्यमाणेन
गोवत्सेनेव
बालकः
10
▾
Meaning
Keep
ततोऽभिमुखमभ्येत्य
पाणिनाऽऽहत्य
वारणम्
।
प्राद्रवन्
पातयामास
स्पृश्यमानः
पदे
पदे
11
▾
Meaning
Keep
स
धावन्
क्रीडया
भूमौ
पतित्वा
सहसोत्थितः
।
तं
मत्वा
पतितं
क्रुद्धो
दन्ताभ्यां
सोऽहनत्क्षितिम्
12
▾
Meaning
Keep
स्वविक्रमे
प्रतिहते
कुञ्जरेन्द्रोऽत्यमर्षितः
।
चोद्यमानो
महामात्रैः
कृष्णमभ्यद्रवद्रुषा
13
▾
Meaning
Keep
तमापतन्तमासाद्य
भगवान्मधुसूदनः
।
निगृह्य
पाणिना
हस्तं
पातयामास
भूतले
14
▾
Meaning
Keep
पतितस्य
पदाऽऽक्रम्य
मृगेन्द्र
इव
लीलया
।
दन्तमुत्पाट्य
तेनेभं
हस्तिपांश्चाहनद्धरिः
15
▾
Meaning
Keep
मृतकं
द्विपमुत्सृज्य
दन्तपाणिः
समाविशत्
।
अंसन्यस्तविषाणोऽसृङ्मदबिन्दुभिरङ्कितः
।
विरूढस्वेदकणिकावदनाम्बुरुहो
बभौ
16
▾
Meaning
Keep
वृतौ
गोपैः
कतिपयैर्बलदेवजनार्दनौ
।
रङ्गं
विविशतू
राजन्
गजदन्तवरायुधौ
17
▾
Meaning
Keep
मल्लानामशनिर्नृणां
नरवरः
स्त्रीणां
स्मरो
मूर्तिमान्
गोपानां
स्वजनोऽसतां
क्षितिभुजां
शास्ता
स्वपित्रोः
शिशुः
।
मृत्युर्भोजपतेर्विराडविदुषां
तत्त्वं
परं
योगिनां
वृष्णीनां
परदेवतेति
विदितो
रङ्गं
गतः
साग्रजः
18
▾
Meaning
Keep
हतं
कुवलयापीडं
दृष्ट्वा
तावपि
दुर्जयौ
।
कंसो
मनस्यपि
तदा
भृशमुद्विविजे
नृप
19
▾
Meaning
Keep
तौ
रेजतू
रङ्गगतौ
महाभुजौ
विचित्रवेषाभरणस्रगम्बरौ
।
यथा
नटावुत्तमवेषधारिणौ
मनः
क्षिपन्तौ
प्रभया
निरीक्षताम्
20
▾
Meaning
Keep
निरीक्ष्य
तावुत्तमपूरुषौ
जना
मञ्चस्थिता
नागरराष्ट्रका
नृप
।
प्रहर्षवेगोत्कलितेक्षणाननाः
पपुर्न
तृप्ता
नयनैस्तदाननम्
21
▾
Meaning
Keep
पिबन्त
इव
चक्षुर्भ्यां
लिहन्त
इव
जिह्वया
।
जिघ्रन्त
इव
नासाभ्यां
श्लिष्यन्त
इव
बाहुभिः
22
▾
Meaning
Keep
ऊचुः
परस्परं
ते
वै
यथादृष्टं
यथाश्रुतम्
।
तद्रूपगुणमाधुर्यप्रागल्भ्यस्मारिता
इव
23
▾
Meaning
Keep
एतौ
भगवतः
साक्षाद्धरेर्नारायणस्य
हि
।
अवतीर्णाविहांशेन
वसुदेवस्य
वेश्मनि
24
▾
Meaning
Keep
एष
वै
किल
देवक्यां
जातो
नीतश्च
गोकुलम्
।
कालमेतं
वसन्
गूढो
ववृधे
नन्दवेश्मनि
25
▾
Meaning
Keep
पूतनानेन
नीतान्तं
चक्रवातश्च
दानवः
।
अर्जुनौ
गुह्यकः
केशी
धेनुकोऽन्ये
च
तद्विधाः
26
▾
Meaning
Keep
गावः
सपाला
एतेन
दावाग्नेः
परिमोचिताः
।
कालियो
दमितः
सर्प
इन्द्रश्च
विमदः
कृतः
27
▾
Meaning
Keep
सप्ताहमेकहस्तेन
धृतोऽद्रिप्रवरोऽमुना
।
वर्षवाताशनिभ्यश्च
परित्रातं
च
गोकुलम्
28
▾
Meaning
Keep
गोप्योऽस्य
नित्यमुदितहसितप्रेक्षणं
मुखम्
।
पश्यन्त्यो
विविधांस्तापांस्तरन्ति
स्माश्रमं
मुदा
29
▾
Meaning
Keep
वदन्त्यनेन
वंशोऽयं
यदोः
सुबहुविश्रुतः
।
श्रियं
यशो
महत्वं
च
लप्स्यते
परिरक्षितः
30
▾
Meaning
Keep
अयं
चास्याग्रजः
श्रीमान्
रामः
कमललोचनः
।
प्रलम्बो
निहतो
येन
वत्सको
ये
बकादयः
31
▾
Meaning
Keep
जनेष्वेवं
ब्रुवाणेषु
तूर्येषु
निनदत्सु
च
।
कृष्णरामौ
समाभाष्य
चाणूरो
वाक्यमब्रवीत्
32
▾
Meaning
Keep
हे
नन्दसूनो
हे
राम
भवन्तौ
वीरसम्मतौ
।
नियुद्धकुशलौ
श्रुत्वा
राज्ञाहूतौ
दिदृक्षुणा
33
▾
Meaning
Keep
प्रियं
राज्ञः
प्रकुर्वत्यः
श्रेयो
विन्दन्ति
वै
प्रजाः
।
मनसा
कर्मणा
वाचा
विपरीतमतोऽन्यथा
34
▾
Meaning
Keep
नित्यं
प्रमुदिता
गोपा
वत्सपाला
यथा
स्फुटम्
।
वनेषु
मल्लयुद्धेन
क्रीडन्तश्चारयन्ति
गाः
35
▾
Meaning
Keep
तस्माद्राज्ञः
प्रियं
यूयं
वयं
च
करवाम
हे
।
भूतानि
नः
प्रसीदन्ति
सर्वभूतमयो
नृपः
36
▾
Meaning
Keep
तन्निशम्याब्रवीत्कृष्णो
देशकालोचितं
वचः
।
नियुद्धमात्मनोऽभीष्टं
मन्यमानोऽभिनन्द्य
च
37
▾
Meaning
Keep
प्रजा
भोजपतेरस्य
वयं
चापि
वनेचराः
।
करवाम
प्रियं
नित्यं
तन्नः
परमनुग्रहः
38
▾
Meaning
Keep
बाला
वयं
तुल्यबलैः
क्रीडिष्यामो
यथोचितम्
।
भवेन्नियुद्धं
माऽधर्मः
स्पृशेन्मल्लसभासदः
39
▾
Meaning
Keep
न
बालो
न
किशोरस्त्वं
बलश्च
बलिनां
वरः
।
लीलयेभो
हतो
येन
सहस्रद्विपसत्त्वभृत्
40
▾
Meaning
Keep
तस्माद्भवद्भ्यां
बलिभिर्योद्धव्यं
नानयोऽत्र
वै
।
मयि
विक्रम
वार्ष्णेय
बलेन
सह
मुष्टिकः
Previous
←
The Bow, and the Night Before
Next
Kamsa Dragged Along the Ground
→