Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Closing Bath, and Duryodhana in the Hall
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अजातशत्रोस्तं
दृष्ट्वा
राजसूयमहोदयम्
।
सर्वे
मुमुदिरे
ब्रह्मन्
नृदेवा
ये
समागताः
2
▾
Meaning
Keep
दुर्योधनं
वर्जयित्वा
राजानः
सर्षयः
सुराः
।
इति
श्रुतं
नो
भगवंस्तत्र
कारणमुच्यताम्
3
▾
Meaning
Keep
पितामहस्य
ते
यज्ञे
राजसूये
महात्मनः
।
बान्धवाः
परिचर्यायां
तस्यासन्
प्रेमबन्धनाः
4
▾
Meaning
Keep
भीमो
महानसाध्यक्षो
धनाध्यक्षः
सुयोधनः
।
सहदेवस्तु
पूजायां
नकुलो
द्रव्यसाधने
5
▾
Meaning
Keep
गुरुशुश्रूषणे
जिष्णुः
कृष्णः
पादावनेजने
।
परिवेषणे
द्रुपदजा
कर्णो
दाने
महामनाः
6
▾
Meaning
Keep
युयुधानो
विकर्णश्च
हार्दिक्यो
विदुरादयः
।
बाह्लीकपुत्रा
भूर्याद्या
ये
च
सन्तर्दनादयः
7
▾
Meaning
Keep
निरूपिता
महायज्ञे
नानाकर्मसु
ते
तदा
।
प्रवर्तन्ते
स्म
राजेन्द्र
राज्ञः
प्रियचिकीर्षवः
8
▾
Meaning
Keep
ऋत्विक्सदस्यबहुवित्सु
सुहृत्तमेषु
स्विष्टेषु
सूनृतसमर्हणदक्षिणाभिः
।
चैद्ये
च
सात्वतपतेश्चरणं
प्रविष्टे
चक्रुस्ततस्त्ववभृथस्नपनं
द्युनद्याम्
9
▾
Meaning
Keep
मृदङ्गशङ्खपणवधुन्धुर्यानकगोमुखाः
।
वादित्राणि
विचित्राणि
नेदुरावभृथोत्सवे
10
▾
Meaning
Keep
नार्तक्यो
ननृतुर्हृष्टा
गायका
यूथशो
जगुः
।
वीणावेणुतलोन्नादस्तेषां
स
दिवमस्पृशत्
11
▾
Meaning
Keep
चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभिः
।
स्वलङ्कृतैर्भटैर्भूपा
निर्ययू
रुक्ममालिनः
12
▾
Meaning
Keep
यदुसृञ्जयकाम्बोजकुरुकेकयकोसलाः
।
कम्पयन्तो
भुवं
सैन्यैर्यजमानपुरःसराः
13
▾
Meaning
Keep
सदस्यर्त्विग्द्विजश्रेष्ठा
ब्रह्मघोषेण
भूयसा
।
देवर्षिपितृगन्धर्वास्तुष्टुवुः
पुष्पवर्षिणः
14
▾
Meaning
Keep
स्वलङकृता
नरा
नार्यो
गन्धस्रग्भूषणाम्बरैः
।
विलिम्पन्त्योऽभिषिञ्चन्त्यो
विजह्रुर्विविधै
रसैः
15
▾
Meaning
Keep
तैलगोरसगन्धोदहरिद्रासान्द्रकुङ्कुमैः
।
पुम्भिर्लिप्ताः
प्रलिम्पन्त्यो
विजह्रुर्वारयोषितः
16
▾
Meaning
Keep
गुप्ता
नृभिर्निरगमन्नुपलब्धुमेत-
द्देव्यो
यथा
दिवि
विमानवरैर्नृदेव्यः
।
ता
मातुलेयसखिभिः
परिषिच्यमानाः
सव्रीडहासविकसद्वदना
विरेजुः
17
▾
Meaning
Keep
ता
देवरानुत
सखीन्
सिषिचुर्दृतीभिः
क्लिन्नाम्बरा
विवृतगात्रकुचोरुमध्याः
।
औत्सुक्यमुक्तकबराच्च्यवमानमाल्याः
क्षोभं
दधुर्मलधियां
रुचिरैर्विहारैः
18
▾
Meaning
Keep
स
सम्राड्
रथमारुढः
सदश्वं
रुक्ममालिनम्
।
व्यरोचत
स्वपत्नीभिः
क्रियाभिः
क्रतुराडिव
19
▾
Meaning
Keep
पत्नीसंयाजावभृथ्यैश्चरित्वा
ते
तमृत्विजः
।
आचान्तं
स्नापयाञ्चक्रुर्गङ्गायां
सह
कृष्णया
20
▾
Meaning
Keep
देवदुन्दुभयो
नेदुर्नरदुन्दुभिभिः
समम्
।
मुमुचुः
पुष्पवर्षाणि
देवर्षिपितृमानवाः
21
▾
Meaning
Keep
सस्नुस्तत्र
ततः
सर्वे
वर्णाश्रमयुता
नराः
।
महापातक्यपि
यतः
सद्यो
मुच्येत
किल्बिषात्
22
▾
Meaning
Keep
अथ
राजाहते
क्षौमे
परिधाय
स्वलङ्कृतः
।
ऋत्विक्सदस्यविप्रादीनानर्चाभरणाम्बरैः
23
▾
Meaning
Keep
बन्धुज्ञातिनृपान्
मित्रसुहृदोऽन्यांश्च
सर्वशः
।
अभीक्ष्णं
पूजयामास
नारायणपरो
नृपः
24
▾
Meaning
Keep
सर्वे
जनाः
सुररुचो
मणिकुण्डलस्र-
गुष्णीषकञ्चुकदुकूलमहार्घ्यहाराः
।
नार्यश्च
कुण्डलयुगालकवृन्दजुष्ट-
वक्त्रश्रियः
कनकमेखलया
विरेजुः
25
▾
Meaning
Keep
अथर्त्विजो
महाशीलाः
सदस्या
ब्रह्मवादिनः
।
ब्रह्मक्षत्रियविट्
शूद्रा
राजानो
ये
समागताः
26
▾
Meaning
Keep
देवर्षिपितृभूतानि
लोकपालाः
सहानुगाः
।
पूजितास्तमनुज्ञाप्य
स्वधामानि
ययुर्नृप
27
▾
Meaning
Keep
हरिदासस्य
राजर्षे
राजसूयमहोदयम्
।
नैवातृप्यन्
प्रशंसन्तः
पिबन्
मर्त्योऽमृतं
यथा
28
▾
Meaning
Keep
ततो
युधिष्ठिरो
राजा
सुहृत्सम्बन्धिबान्धवान्
।
प्रेम्णा
निवारयामास
कृष्णं
च
त्यागकातरः
29
▾
Meaning
Keep
भगवानपि
तत्राङ्ग
न्यवात्सीत्तत्प्रियंकरः
।
प्रस्थाप्य
यदुवीरांश्च
साम्बादींश्च
कुशस्थलीम्
30
▾
Meaning
Keep
इत्थं
राजा
धर्मसुतो
मनोरथमहार्णवम्
।
सुदुस्तरं
समुत्तीर्य
कृष्णेनासीद्गतज्वरः
31
▾
Meaning
Keep
एकदान्तःपुरे
तस्य
वीक्ष्य
दुर्योधनः
श्रियम्
।
अतप्यद्राजसूयस्य
महित्वं
चाच्युतात्मनः
32
▾
Meaning
Keep
यस्मिन्
नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्मीर्नाना
विभान्ति
किल
विश्वसृजोपकॢप्ताः
।
ताभिः
पतीन्
द्रुपदराजसुतोपतस्थे
यस्यां
विषक्तहृदयः
कुरुराडतप्यत्
33
▾
Meaning
Keep
यस्मिंस्तदा
मधुपतेर्महिषीसहस्रं
श्रोणीभरेण
शनकैः
क्वणदङ्घ्रिशोभम्
।
मध्ये
सुचारु
कुचकुङ्कुमशोणहारं
श्रीमन्मुखं
प्रचलकुण्डलकुन्तलाढ्यम्
34
▾
Meaning
Keep
सभायां
मयकॢप्तायां
क्वापि
धर्मसुतोऽधिराट्
।
वृतोऽनुगैर्बन्धुभिश्च
कृष्णेनापि
स्वचक्षुषा
35
▾
Meaning
Keep
आसीनः
काञ्चने
साक्षादासने
मघवानिव
।
पारमेष्ठ्यश्रीया
जुष्टः
स्तूयमानश्च
वन्दिभिः
36
▾
Meaning
Keep
तत्र
दुर्योधनो
मानी
परीतो
भ्रातृभिर्नृप
।
किरीटमाली
न्यविशदसिहस्तः
क्षिपन्
रुषा
37
▾
Meaning
Keep
स्थलेऽभ्यगृह्णाद्वस्त्रान्तं
जलं
मत्वा
स्थलेऽपतत्
।
जले
च
स्थलवद्भ्रान्त्या
मयमायाविमोहितः
38
▾
Meaning
Keep
जहास
भीमस्तं
दृष्ट्वा
स्त्रियो
नृपतयोऽपरे
।
निवार्यमाणा
अप्यङ्ग
राज्ञा
कृष्णानुमोदिताः
39
▾
Meaning
Keep
स
व्रीडितोऽवाग्वदनो
रुषाज्वल-
न्निष्क्रम्य
तूष्णीं
प्रययौ
गजाह्वयम्
।
हा
हेति
शब्दः
सुमहानभूत्सता-
मजातशत्रुर्विमना
इवाभवत्
।
बभूव
तूष्णीं
भगवान्
भुवो
भरं
समुज्जिहीर्षुर्भ्रमति
स्म
यद्दृशा
40
▾
Meaning
Keep
एतत्तेऽभिहितं
राजन्
यत्पृष्टोऽहमिह
त्वया
।
सुयोधनस्य
दौरात्म्यं
राजसूये
महाक्रतौ
Previous
←
The Great Sacrifice, and the Death of Sisupala
Next
Salva and the Iron City
→