Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · What This Book Has Told
Śrīmad Bhāgavatam
›
Canto 12
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
नमो
धर्माय
महते
नमः
कृष्णाय
वेधसे
।
ब्रह्मणेभ्यो
नमस्कृत्य
धर्मान्
वक्ष्ये
सनातनान्
2
▾
Meaning
Keep
एतद्वः
कथितं
विप्रा
विष्णोश्चरितमद्भुतम्
।
भवद्भिर्यदहं
पृष्टो
नराणां
पुरुषोचितम्
3
▾
Meaning
Keep
अत्र
सङ्कीर्तितः
साक्षात्सर्वपापहरो
हरिः
।
नारायणो
हृषीकेशो
भगवान्
सात्वतां
पतिः
4
▾
Meaning
Keep
अत्र
ब्रह्म
परं
गुह्यं
जगतः
प्रभवाप्ययम्
।
ज्ञानं
च
तदुपाख्यानं
प्रोक्तं
विज्ञानसंयुतम्
5
▾
Meaning
Keep
भक्तियोगः
समाख्यातो
वैराग्यं
च
तदाश्रयम्
।
पारीक्षितमुपाख्यानं
नारदाख्यानमेव
च
6
▾
Meaning
Keep
प्रायोपवेशो
राजर्षेर्विप्रशापात्परीक्षितः
।
शुकस्य
ब्रह्मर्षभस्य
संवादश्च
परीक्षितः
7
▾
Meaning
Keep
योगधारणयोत्क्रान्तिः
संवादो
नारदाजयोः
।
अवतारानुगीतं
च
सर्गः
प्राधानिकोऽग्रतः
8
▾
Meaning
Keep
विदुरोद्धवसंवादः
क्षत्तृमैत्रेययोस्ततः
।
पुराणसंहिताप्रश्नो
महापुरुषसंस्थितिः
9
▾
Meaning
Keep
ततः
प्राकृतिकः
सर्गः
सप्त
वैकृतिकाश्च
ये
।
ततो
ब्रह्माण्डसम्भूतिर्वैराजः
पुरुषो
यतः
10
▾
Meaning
Keep
कालस्य
स्थूलसूक्ष्मस्य
गतिः
पद्मसमुद्भवः
।
भुव
उद्धरणेऽम्भोधेर्हिरण्याक्षवधो
यथा
11
▾
Meaning
Keep
ऊर्ध्वतिर्यगवाक्सर्गो
रुद्रसर्गस्तथैव
च
।
अर्धनारीश्वरस्याथ
यतः
स्वायम्भुवो
मनुः
12
▾
Meaning
Keep
शतरूपा
च
या
स्त्रीणामाद्या
प्रकृतिरुत्तमा
।
संतानो
धर्मपत्नीनां
कर्दमस्य
प्रजापतेः
13
▾
Meaning
Keep
अवतारो
भगवतः
कपिलस्य
महात्मनः
।
देवहूत्याश्च
संवादः
कपिलेन
च
धीमता
14
▾
Meaning
Keep
नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम्
।
ध्रुवस्य
चरितं
पश्चात्पृथोः
प्राचीनबर्हिषः
15
▾
Meaning
Keep
नारदस्य
च
संवादस्ततः
प्रैयव्रतं
द्विजाः
।
नाभेस्ततोऽनुचरितमृषभस्य
भरतस्य
च
16
▾
Meaning
Keep
द्वीपवर्षसमुद्राणां
गिरिनद्युपवर्णनम्
।
ज्योतिश्चक्रस्य
संस्थानं
पातालनरकस्थितिः
17
▾
Meaning
Keep
दक्षजन्म
प्रचेतोभ्यस्तत्पुत्रीणां
च
संततिः
।
यतो
देवासुरनरास्तिर्यङ्नगखगादयः
18
▾
Meaning
Keep
त्वाष्ट्रस्य
जन्मनिधनं
पुत्रयोश्च
दितेर्द्विजाः
।
दैत्येश्वरस्य
चरितं
प्रह्रादस्य
महात्मनः
19
▾
Meaning
Keep
मन्वन्तरानुकथनं
गजेन्द्रस्य
विमोक्षणम्
।
मन्वन्तरावताराश्च
विष्णोर्हयशिरादयः
20
▾
Meaning
Keep
कौर्मं
धान्वन्तरं
मात्स्यं
वामनं
च
जगत्पतेः
।
क्षीरोदमथनं
तद्वदमृतार्थे
दिवौकसाम्
21
▾
Meaning
Keep
देवासुरमहायुद्धं
राजवंशानुकीर्तनम्
।
इक्ष्वाकुजन्म
तद्वंशः
सुद्युम्नस्य
महात्मनः
22
▾
Meaning
Keep
इलोपाख्यानमत्रोक्तं
तारोपाख्यानमेव
च
।
सूर्यवंशानुकथनं
शशादाद्या
नृगादयः
23
▾
Meaning
Keep
सौकन्यं
चाथ
शर्यातेः
ककुत्स्थस्य
च
धीमतः
।
खट्वाङ्गस्य
च
मान्धातुः
सौभरेः
सगरस्य
च
24
▾
Meaning
Keep
रामस्य
कोशलेन्द्रस्य
चरितं
किल्बिषापहम्
।
निमेरङ्गपरित्यागो
जनकानां
च
सम्भवः
25
▾
Meaning
Keep
रामस्य
भार्गवेन्द्रस्य
निःक्षत्रकरणं
भुवः
।
ऐलस्य
सोमवंशस्य
ययातेर्नहुषस्य
च
26
▾
Meaning
Keep
दौष्मन्तेर्भरतस्यापि
शान्तनोस्तत्सुतस्य
च
।
ययातेर्ज्येष्ठपुत्रस्य
यदोर्वंशोऽनुकीर्तितः
27
▾
Meaning
Keep
यत्रावतीर्णो
भगवान्
कृष्णाख्यो
जगदीश्वरः
।
वसुदेवगृहे
जन्म
ततो
वृद्धिश्च
गोकुले
28
▾
Meaning
Keep
तस्य
कर्माण्यपाराणि
कीर्तितान्यसुरद्विषः
।
पूतनासुपयःपानं
शकटोच्चाटनं
शिशोः
29
▾
Meaning
Keep
तृणावर्तस्य
निष्पेषस्तथैव
बकवत्सयोः
।
धेनुकस्य
सहभ्रातुः
प्रलम्बस्य
च
संक्षयः
30
▾
Meaning
Keep
गोपानां
च
परित्राणं
दावाग्नेः
परिसर्पतः
31
▾
Meaning
Keep
दमनं
कालियस्याहेर्महाहेर्नन्दमोक्षणम्
।
व्रतचर्या
तु
कन्यानां
यत्र
तुष्टोऽच्युतो
व्रतैः
32
▾
Meaning
Keep
प्रसादो
यज्ञपत्नीभ्यो
विप्राणां
चानुतापनम्
।
गोवर्धनोद्धारणं
च
शक्रस्य
सुरभेरथ
33
▾
Meaning
Keep
यज्ञाभिषेकः
कृष्णस्य
स्त्रीभिः
क्रीडा
च
रात्रिषु
।
शङ्खचूडस्य
दुर्बुद्धेर्वधोऽरिष्टस्य
केशिनः
34
▾
Meaning
Keep
अक्रूरागमनं
पश्चात्प्रस्थानं
रामकृष्णयोः
।
व्रजस्त्रीणां
विलापश्च
मथुरालोकनं
ततः
35
▾
Meaning
Keep
गजमुष्टिकचाणूरकंसादीनां
च
यो
वधः
।
मृतस्यानयनं
सूनोः
पुनः
सान्दीपनेर्गुरोः
36
▾
Meaning
Keep
मथुरायां
निवसता
यदुचक्रस्य
यत्प्रियम्
।
कृतमुद्धवरामाभ्यां
युतेन
हरिणा
द्विजाः
37
▾
Meaning
Keep
जरासन्धसमानीतसैन्यस्य
बहुशो
वधः
।
घातनं
यवनेन्द्रस्य
कुशस्थल्या
निवेशनम्
38
▾
Meaning
Keep
आदानं
पारिजातस्य
सुधर्मायाः
सुरालयात्
।
रुक्मिण्या
हरणं
युद्धे
प्रमथ्य
द्विषतो
हरेः
39
▾
Meaning
Keep
हरस्य
जृम्भणं
युद्धे
बाणस्य
भुजकृन्तनम्
।
प्राग्ज्योतिषपतिं
हत्वा
कन्यानां
हरणं
च
यत्
40
▾
Meaning
Keep
चैद्यपौण्ड्रकशाल्वानां
दन्तवक्रस्य
दुर्मतेः
।
शम्बरो
द्विविदः
पीठो
मुरः
पञ्चजनादयः
41
▾
Meaning
Keep
माहात्म्यं
च
वधस्तेषां
वाराणस्याश्च
दाहनम्
।
भारावतरणं
भूमेर्निमित्तीकृत्य
पाण्डवान्
42
▾
Meaning
Keep
विप्रशापापदेशेन
संहारः
स्वकुलस्य
च
।
उद्धवस्य
च
संवादो
वसुदेवस्य
चाद्भुतः
43
▾
Meaning
Keep
यत्रात्मविद्या
ह्यखिला
प्रोक्ता
धर्मविनिर्णयः
।
ततो
मर्त्यपरित्याग
आत्मयोगानुभावतः
44
▾
Meaning
Keep
युगलक्षणवृत्तिश्च
कलौ
नॄणामुपप्लवः
।
चतुर्विधश्च
प्रलय
उत्पत्तिस्त्रिविधा
तथा
45
▾
Meaning
Keep
देहत्यागश्च
राजर्षेर्विष्णुरातस्य
धीमतः
।
शाखाप्रणयनमृषेर्मार्कण्डेयस्य
सत्कथा
।
महापुरुषविन्यासः
सूर्यस्य
जगदात्मनः
46
▾
Meaning
Keep
इति
चोक्तं
द्विजश्रेष्ठा
यत्पृष्टोऽहमिहास्मि
वः
।
लीलावतारकर्माणि
कीर्तितानीह
सर्वशः
47
▾
Meaning
Keep
पतितः
स्खलितश्चार्तः
क्षुत्त्वा
वा
विवशो
ब्रुवन्
।
हरये
नम
इत्युच्चैर्मुच्यते
सर्वपातकात्
48
▾
Meaning
Keep
संकीर्त्यमानो
भगवाननन्तः
श्रुतानुभावो
व्यसनं
हि
पुंसाम्
।
प्रविश्य
चित्तं
विधुनोत्यशेषं
यथा
तमोऽर्कोऽभ्रमिवातिवातः
49
▾
Meaning
Keep
मृषा
गिरस्ता
ह्यसतीरसत्कथा
न
कथ्यते
यद्भगवानधोक्षजः
।
तदेव
सत्यं
तदु
हैव
मङ्गलं
तदेव
पुण्यं
भगवद्गुणोदयम्
50
▾
Meaning
Keep
तदेव
रम्यं
रुचिरं
नवं
नवं
तदेव
शश्वन्मनसो
महोत्सवम्
।
तदेव
शोकार्णवशोषणं
नृणां
यदुत्तमःश्लोकयशोऽनुगीयते
51
▾
Meaning
Keep
न
तद्वचश्चित्रपदं
हरेर्यशो
जगत्पवित्रं
प्रगृणीत
कर्हिचित्
।
तद्ध्वाङ्क्षतीर्थं
न
तु
हंससेवितं
यत्राच्युतस्तत्र
हि
साधवोऽमलाः
52
▾
Meaning
Keep
स
वाग्विसर्गो
जनताघसम्प्लवो
यस्मिन्
प्रतिश्लोकमबद्धवत्यपि
।
नामान्यनन्तस्य
यशोऽङ्कितानि
य-
च्छृण्वन्ति
गायन्ति
गृणन्ति
साधवः
53
▾
Meaning
Keep
नैष्कर्म्यमप्यच्युतभाववर्जितं
न
शोभते
ज्ञानमलं
निरञ्जनम्
।
कुतः
पुनः
शश्वदभद्रमीश्वरे
न
ह्यर्पितं
कर्म
यदप्यनुत्तमम्
54
▾
Meaning
Keep
यशःश्रियामेव
परिश्रमः
परो
वर्णाश्रमाचारतपःश्रुतादिषु
।
अविस्मृतिः
श्रीधरपादपद्मयोर्गुणानुवादश्रवणादरादिभिर्हरेः
55
▾
Meaning
Keep
अविस्मृतिः
कृष्णपदारविन्दयोः
क्षिणोत्यभद्राणि
शमं
तनोति
च
।
सत्त्वस्य
शुद्धिं
परमात्मभक्तिं
ज्ञानं
च
विज्ञानविरागयुक्तम्
56
▾
Meaning
Keep
यूयं
द्विजाग्र्या
बत
भूरिभागा
यच्छश्वदात्मन्यखिलात्मभूतम्
।
नारायणं
देवमदेवमीशमजस्रभावा
भजताविवेश्य
57
▾
Meaning
Keep
अहं
च
संस्मारित
आत्मतत्त्वं
श्रुतं
पुरा
मे
परमर्षिवक्त्रात्
।
प्रायोपवेशे
नृपतेः
परीक्षितः
सदस्यृषीणां
महतां
च
शृण्वताम्
58
▾
Meaning
Keep
एतद्वः
कथितं
विप्राः
कथनीयोरुकर्मणः
।
माहात्म्यं
वासुदेवस्य
सर्वाशुभविनाशनम्
59
▾
Meaning
Keep
य
एवं
श्रावयेन्नित्यं
यामक्षणमनन्यधीः
।
श्रद्धावान्
योऽनुशृणुयात्पुनात्यात्मानमेव
सः
60
▾
Meaning
Keep
द्वादश्यामेकादश्यां
वा
शृण्वन्नायुष्यवान्
भवेत्
।
पठत्यनश्नन्
प्रयतस्ततो
भवत्यपातकी
61
▾
Meaning
Keep
पुष्करे
मथुरायां
च
द्वारवत्यां
यतात्मवान्
।
उपोष्य
संहितामेतां
पठित्वा
मुच्यते
भयात्
62
▾
Meaning
Keep
देवता
मुनयः
सिद्धाः
पितरो
मनवो
नृपाः
।
यच्छन्ति
कामान्
गृणतः
शृण्वतो
यस्य
कीर्तनात्
63
▾
Meaning
Keep
ऋचो
यजूंषि
सामानि
द्विजोऽधीत्यानुविन्दते
।
मधुकुल्या
घृतकुल्याः
पयःकुल्याश्च
तत्फलम्
64
▾
Meaning
Keep
पुराणसंहितामेतामधीत्य
प्रयतो
द्विजः
।
प्रोक्तं
भगवता
यत्तु
तत्पदं
परमं
व्रजेत्
65
▾
Meaning
Keep
विप्रोऽधीत्याप्नुयात्
प्रज्ञां
राजन्योदधिमेखलाम्
।
वैश्यो
निधिपतित्वं
च
शूद्रः
शुद्धयेत
पातकात्
66
▾
Meaning
Keep
कलिमलसंहतिकालनोऽखिलेशो
हरिरितरत्र
न
गीयते
ह्यभीक्ष्णम्
।
इह
तु
पुनर्भगवानशेषमूर्तिः
परिपठितोऽनुपदं
कथाप्रसङ्गैः
Hymn
67
▾
Meaning
Keep
तमहमजमनन्तमात्मतत्त्वं
जगदुदयस्थितिसंयमात्मशक्तिम्
।
द्युपतिभिरजशक्रशङ्कराद्यै-
र्दुरवसितस्तवमच्युतं
नतोऽस्मि
68
▾
Meaning
Keep
उपचितनवशक्तिभिः
स्व
आत्मन्युपरचितस्थिरजङ्गमालयाय
।
भगवत
उपलब्धिमात्रधाम्ने
सुरऋषभाय
नमः
सनातनाय
69
▾
Meaning
Keep
स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावो-
ऽप्यजितरुचिरलीलाकृष्टसारस्तदीयम्
।
व्यतनुत
कृपया
यस्तत्त्वदीपं
पुराणं
तमखिलवृजिनघ्नं
व्याससूनुं
नतोऽस्मि
Previous
←
The Lord's Emblems, and the Sun's Twelve Companies
Next
The Counts, and the Last Bows
→