The works of Ādi Śaṅkarācārya

Bṛhadāraṇyakopaniṣadbhāṣyam

Bhashya

Bhashya

ब्रह्म वा इदमग्र आसीत्—यदग्निं सृष्ट्वा अग्निरूपापन्नंब्रह्म—ब्राह्मणजात्यभिमानात् ब्रह्मेत्यभिधीयते—वै, इदं क्षत्रा-दिजातम्, ब्रह्मैव, अभिन्नमासीत्, एकमेव—न आसीत्क्ष-त्रादिभेदः ।तत् ब्रह्मैकं क्षत्रादिपरिपालयित्रादिशून्यं सत्,न व्यभवत् न विभूतवत् कर्मणे नालमासीदित्यर्थः ।तत-स्तद्ब्रह्म— ब्राह्मणोऽस्मि ममेत्थं कर्तव्यमिति ब्राह्मणजातिनि-मित्तं कर्म चिकीर्षुः आत्मनः कर्मकर्तृत्वविभूतये, श्रेयोरूपंप्रशस्तरूपम्, अति असृजत अतिशयेन असृजत सृष्टवत् ।किं पुनस्तत्, यत्सृष्टम् ? क्षत्रं क्षत्रियजातिः ; तद्व्यक्ति-भेदेन दर्शयति— यान्येतानि प्रसिद्धानि लोके, देवत्रादेवेषु, क्षत्राणीति— जात्याख्यायां पक्षे बहुवचनस्मरणात्व्यक्तिबहुत्वाद्वा भेदोपचारेण—बहुवचनम् ।कानि पुनस्ता-नीत्याह— तत्राभिषिक्ता एव विशेषतो निर्दिश्यन्ते— इन्द्रोदेवानां राजा, वरुणो यादसाम्, सोमो ब्राह्मणानाम्, रुद्रःपशूनाम्, पर्जन्यो विद्युदादीनाम्, यमः पितृणाम्, मृत्युःमपि क्षत्रियः पाप एव क्रूरत्वात्, आत्मप्रसवहिंसया सुत-राम्; यथा लोके श्रेयांसं प्रशस्ततरं हिंसित्वा परिभूयपापतरो भवति, तद्वत् ॥

In plain words

Brahman was indeed this universe in the beginning—undivided and one, yet unable to prosper in its solitary state for lack of protective power. Desiring to act and manifest its majesty, it created the noble warrior power.

Close to the Sanskrit

Brahman indeed was this in the beginning—having created Agni, Brahman having attained the form of Agni is designated as Brahman due to identification with the brāhmaṇa caste... [elaboration of warrior class and rulers follows].