The works of Ādi Śaṅkarācārya

Chāndogyopaniṣadbhāṣyam

Bhashya

Bhashya

स ह उपकोसलः व्याधिना मानसेन दुःखेन अनशितुम्अनशनं कर्तुं दध्रे धृतवान्मनः ।तं तूष्णीमग्न्यागारेऽवस्थि-तम् आचार्यजायोवाच—हे ब्रह्मचारिन् अशान भुङ्क्ष्व, किंनु कस्मान्नु कारणान्नाश्नासि ? इति ।स ह उवाच—बहवःअनेकेऽस्मिन्पुरुषेऽकृतार्थे प्राकृते कामाः इच्छाः कर्तव्यं प्रतिनाना अत्ययः अतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां तेनानात्ययाः व्याधयः कर्तव्यताप्राप्तिनिमित्तानि चित्तदुःखा-गमे च न भवति, तस्मिन्वायुविशेषे लोके रूढः ; अतः युक्तं ब्रह्मत्वं तस्य ; तेन प्रसिद्धपदार्थकत्वाद्विजानाम्यहं यत्प्राणो ब्रह्मेति ।कं च तु खं च न विजानामीति ।ननु कंखंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव, कस्माद्ब्रह्मचारिणोऽज्ञानम् ? नूनम्, सुखस्य कंशब्दवाच्यस्य क्षणप्रध्वंसित्वात् खंशब्दवाच्यस्य च आकाशस्याचेतनस्य कथं ब्रह्मत्वमिति मन्यते ; कथं च भगवतां वाक्यमप्रमाणं स्यादिति ; अतो न विजानामीत्याह ।तम एवमुक्तवन्तं ब्रह्मचारिणं ते ह अग्नय ऊचुः— यद्वाव यदेव वयं कम् अवोचाम, तदेव खम् आकाशम्, इत्येवं खेन विशेष्यमाणं कं विषयेन्द्रियसंयोगजात्सुखान्निवर्तितं स्यात्— नीलेनेव विशेष्यमाणमुत्पलं रक्तादिभ्यः ।यदेव खम् इत्याकाशमवोचाम, तदेव च कं सुखमिति जानीहि ।एवं च सुखेन विशेष्यमाणं खं भौतिकादचेतनात्खान्निवर्तितं स्यात्—नीलोत्पलवदेव ।सुखमाकाशस्थं नेतरल्लौकिकम्, आकाशं च सुखाश्रयं नेतरद्भौतिकमित्यर्थः ।नन्वाकाशं चेत् सुखेन विशेषयितुमिष्टम्, अस्त्वन्यतरदेव विशेषणम्—यद्वाव कं तदेव खम् इति, अतिरिक्तमितरत् ; यदेव खं तदेव कमिति पूर्वविशेषणं वा; ननु सुखाकाशयोरुभयोरपि लौकिकसुखाकाशाभ्यां व्यावृत्तिरिष्टेत्य-

In plain words

Overwhelmed by grief, Upakosala resolved to fast and sat silently in the sanctuary of the sacred fires. The teacher's wife gently asked him, 'Student, eat! Why do you refuse your food?' He answered, 'My heart is crowded with unfulfilled desires and sorrow; I do not know the deeper truth of Brahman.'

Close to the Sanskrit

Upakosala resolved to fast because of mental sorrow and pain. The teacher's wife, seeing him staying silently in the fire-sanctuary, said: 'O student, eat, enjoy; for what reason do you not eat?' He spoke: 'Many are the unfulfilled worldly desires in this person...'