Bhashya
तेषां जीवाविष्टानां खलु एषां पक्ष्यादीनां भूतानाम्, एषा-मिति प्रत्यक्षनिर्देशात्, न तु तेजःप्रभृतीनाम्, तेषां त्रिवृ-त्करणस्य वक्ष्यमाणत्वात् ; असति त्रिवृत्करणे प्रत्यक्षनिर्देशा-नुपपत्तिः ।देवताशब्दप्रयोगाच्च तेजःप्रभृतिषु—' इमास्तिस्रोदेवताः ' इति ।तस्मात् तेषां खल्वेषां भूतानां पक्षिपशुस्था-वरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भ-वन्ति ।कानि तानीति, उच्यन्ते—आण्डजम् अण्डज्जात-मण्डजम् अण्डजमेव आण्डजं पक्ष्यादि ।पक्षिसर्पादिभ्योहि पक्षिसर्पादयो जायमाना दृश्यन्ते ।तेन पक्षी पक्षिणांबीजं सर्पः सर्पाणां बीजं तथा अन्यदप्यण्डज्जातं तज्जाती-यानां बीजमित्यर्थः ।ननु अण्डज्जातम् अण्डजमुच्यते,अतोऽण्डमेव बीजमिति युक्तम् ; कथमण्डजं बीजमुच्यते ?सत्यमेवं स्यात्, यदि त्वदिच्छातन्त्रा श्रुतिः स्यात् ; स्वतन्त्रातु श्रुतिः, यत आह अण्डजाद्येव बीजं न अण्डादीति ।दृश्यते च अण्डजाद्यभावे तज्जातीयसंतत्यभावः, न अण्डा-द्यभावे ।अतः अण्डजादीन्येव बीजानि अण्डजादीनाम् ।तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्वादि ।उ-द्भिज्जम् उद्भिनत्तीत्युद्भित् स्थावरं ततो जातमुद्भिज्जम्, धाना वा उद्भित् ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां बीजमित्यर्थः ।स्वेदजसंशोकजयोरण्डजोद्भिज्जयोरेव यथासंभवमन्तर्भावः ।एवं हि अवधारणं त्रीण्येव बीजानीत्युपपन्नं भवति ॥
In plain words
Of those living beings animated by breath, because scripture directly points to them and not to fire or the other subtler elements—since triplication of elements is yet to be explained—there are precisely three origins of birth, and no more.
Close to the Sanskrit
Of those animate beings animated by life, because of direct designation, not of fire and others since triplication is yet to be spoken of... therefore three seeds alone are sources, not extra.