The works of Ādi Śaṅkarācārya

Chāndogyopaniṣadbhāṣyam

Bhashya

Bhashya

अथ या एताः वक्ष्यमाणाः हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य संबन्धिन्यः नाड्यः हृदयमांसपिण्डात्स-र्वतो विनिःसृताः आदित्यमण्डलादिव रश्मयः, ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्य अणिम्नः सूक्ष्मरसस्य रसेन पूर्णाः तदाकारा एव तिष्ठन्ति वर्तन्त इत्यर्थः ।तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्र अध्याहार्यम् ।सौरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेन अल्पेन संपर्कात् पिङ्गलं भवति सौरं तेजः पित्ताख्य-स्वप्नादर्शनमस्तीति सामर्थ्यात् नाडीष्विति सप्तमी तृतीयाया परिणम्यते ।तं सता संपन्नं न कश्चन न कश्चिदपि धर्माधर्मरूपः पाप्मा स्पृशतीति, स्वरूपावस्थितत्वात् तदा आत्मनः ।देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशतीति, न तु सत्संपन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्प्रष्टुमुत्सहते, अविषयत्वात् ।अन्यो हि अन्यस्य विषयो भवति, न त्वन्यत्वं केनचित्कुतश्चिदपि सत्संपन्नस्य ।स्वरूपप्रच्यवनं तु आत्मनो जाग्रत्स्वप्नावस्थां प्रति गमनं बाह्यविषयप्रतिबोधः अविद्याकामकर्मबीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम षष्ठे एव ; तदिहापि प्रत्येतव्यम् ।यदैवं सुप्तः, सौरेण तेजसा हि नाड्यन्तर्गतेन सर्वतः संपन्नः व्याप्तः भवति ।अतः विशेषेण चक्षुरादिनाडीद्वारैर्बाह्यविषयभोगाय अप्रसृतानि करणानि अस्य तदा भवन्ति ।तस्मादयं करणानां निरोधात् स्वात्मन्येवावस्थितः स्वप्नं न विजानातीति युक्तम् ॥

In plain words

Now, the channels of the lotus-like heart—the seat of meditation on Brahman—spread out from the fleshy mass of the heart in all directions like sunbeams from the solar orb. They are filled with a subtle sap of various hues—reddish-brown, white, blue, yellow, and red. Just as the sun takes on these colors, so too these channels are filled with these fluids...

Close to the Sanskrit

Now, those channels of the heart shaped like a lotus, the seat of meditation on Brahman, connected, having gone forth from the fleshy lump of the heart everywhere like rays from the solar orb, and these very ones, filled with the juice of the subtle essence characterized by a specific color of reddish-brown, remain of that very form, and the meaning is so. Similarly, it is to be supplied everywhere that they are filled with the juice of white, blue, yellow, and red. Through contact with a slight amount of phlegm produced by digestion along with solar energy called bile, it becomes reddish-brown...