The works of Ādi Śaṅkarācārya

Chāndogyopaniṣadbhāṣyam

Bhashya

Bhashya

यथा अयं दृष्टान्तो वाय्वादीनामाकाशादिसाम्यगमनवद्-विद्यया संसारावस्थायां शरीरसाम्यमापन्नः अहममुष्य पुत्रोजातो जीर्णो मरिष्ये-इत्येवंप्रकारं प्रजापतिनेव मघवान् यथो-क्तेन क्रमेण नासि त्वं देहेन्द्रियादिधर्मा तत्त्वमसीति प्रति-बोधितः सन् स एष संप्रसादो जीवोऽस्माच्छरीरादाकाशा-दिव वाय्वादयः समुत्थाय देहादिविलक्षणमात्मनो रूपम-वगम्य देहात्मभावनां हित्वेत्येतत्, स्वेन रूपेण सदात्मनै-वाभिनिष्पद्यत इति व्याख्यातं पुरस्तात् ।स येन स्वेनरूपेण संप्रसादोऽभिनिष्पद्यते-प्राक्प्रतिबोधात् तद्भ्रान्तिनि-मित्तात्सर्पो भवति यथा रज्जुः, पश्चात्कृतप्रकाशा रज्ज्वात्म-ना स्वेन रूपेणाभिनिष्पद्यते, एवं च स उत्तमपुरुषः उत्तम-श्चासौ पुरुषश्चेत्युत्तमपुरुषः स एव उत्तमपुरुषः ।अक्षिस्वप्नपु-रुषौ व्यक्तौ अव्यक्तश्च सुषुप्तः समस्तः संप्रसन्नः अशरीरश्चस्वेन रूपेणेति ।एषामेव स्वेन रूपेणावस्थितः क्षराक्षरौ व्याकृ-ताव्याकृतावपेक्ष्य उत्तमपुरुषः ; कृतनिर्वचनो हि अयं गीतासु ।सः संप्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया सर्वात्मभूतःपर्येति कचिदिन्द्राद्यात्मना जक्षत् हसन् भक्षयन् वा भक्ष्यान्उच्चावचान् ईप्सितान् कचिन्मनोमात्रैः संकल्पादेव समुत्थितै-र्ब्राह्मलौकिकैर्वा क्रीडन् स्त्रीयादिभिः रममाणश्च मनसैव, नो-पजनम्, स्त्रीपुंसयोरन्योन्योपगमेन जायत इत्युपजनम् आ-त्मभावेन वा आत्मसामीप्येन जायत इत्युपजनमिदं शरीरम्,तन्न स्मरन् ।तत्स्मरणे हि दुःखमेव स्यात्, दुःखात्मकत्वात्तस्य ।नन्वनुभूतं चेत् न स्मरेत् असर्वज्ञत्वं मुक्तस्य ; नैषदोषः ।येन मिथ्याज्ञानादिना जनितम् तच्च मिथ्याज्ञानादिविद्यया उच्छेिदितम्, अतस्तन्नानुभूतमेवेति न तदस्मरणे सर्व-ज्ञत्वहानिः ।न हि उन्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मा-दाद्यपगमेऽपि स्मर्तव्यं स्यात् ; तथैहापि संसारिभिरविद्या-दोषवद्भिः यदनुभूयते तत्सर्वात्मानमशरीरं न स्पृशति, अवि-द्यानिमित्ताभावात् ।ये तु उच्छिन्नदोषैर्मृदितकषायैः मानसाःसत्याः कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्ग्य-त्वात्, त एव मुक्तेन सर्वात्मभूतेन संबध्यन्त इति आत्मज्ञान-स्तुतये निर्दिश्यन्ते ; अतः साध्वेतद्विशिनष्टि—' य एते ब्रह्म-लोके' इति ।यत्र क्वचन भवन्तोऽपि ब्रह्मण्येव हि ते लोकेभवन्तीति सर्वात्मत्वाद्वह्मण उच्यन्ते ॥

In plain words

Just as the wind and other elements emerge from all-pervading space, so this serene spirit—having awakened through the teaching 'That thou art' and having risen above the body and all non-self elements—shines forth in its own true, eternal nature, established solely in the self. As the illusory snake seen on a rope vanishes when the rope is revealed by light, so the individual soul is recognized in its intrinsic reality.

Close to the Sanskrit

Just as this example of wind and others having the nature of movement into space, having attained bodily sameness in the state of saṃsāra through knowledge... [Explanation continues through the prose commentary analyzing the nature of liberation, illusion, and the supreme person.]