Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīdakṣiṇāmūrtyaṣṭakam · Work 1
Script
Tamil
Devanāgarī
Both
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
विश्वं
दर्पणदृश्यमाननगरीतुल्यं
निजान्तर्गतं
पश्यन्नात्मनि
मायया
बहिरिवोद्भूतं
यथा
निद्रया
।
यः
साक्षात्कुरुते
प्रबोधसमये
स्वात्मानमेवाद्वयं
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्रीदक्षिणामूर्तये
॥ १ ॥
2
▾
Meaning
Keep
बीजस्यान्तरिवाङ्कुरो
जगदिदं
प्राङ्निर्विकल्पं
पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम्
।
मायावीव
विजृम्भयत्यपि
महायोगीव
यः
स्वेच्छया
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्रीदक्षिणामूर्तये
॥ २ ॥
3
▾
Meaning
Keep
यस्यैव
स्फुरणं
सदात्मकमसत्कल्पार्थकं
भासते
साक्षात्तत्त्वमसीति
वेदवचसा
यो
बोधयत्याश्रितान्
।
यत्साक्षात्करणाद्भवेन्न
पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्रीदक्षिणामूर्तये
॥ ३ ॥
4
▾
Meaning
Keep
नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं
यस्य
तु
चक्षुरादिकरणद्वारा
बहिः
स्पन्दते
।
जानामीति
तमेव
भान्तमनुभात्येतत्समस्तं
जगत्
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्रीदक्षिणामूर्तये
॥ ४ ॥
5
▾
Meaning
Keep
देहं
प्राणमपीन्द्रियाण्यपि
चलां
बुद्धिं
च
शून्यं
विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति
भ्रान्ता
भृशं
वादिनः
।
मायाशक्तिविलासकल्पितमहा
व्यामोहसंहारिणे
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्रीदक्षिणामूर्तये
॥ ५ ॥
6
▾
Meaning
Keep
राहुग्रस्तदिवाकरेन्दुसदृशो
मायासमाच्छादनात्
सन्मात्रः
करणोपसंहरणतो
योऽभूत्सुषुप्तः
पुमान्
।
प्रागस्वाप्समिति
प्रबोधसमये
यः
प्रत्यभिज्ञायते
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्रीदक्षिणामूर्तये
॥ ६ ॥
7
▾
Meaning
Keep
बाल्यादिष्वपि
जाग्रदादिषु
तथा
सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः
स्फुरन्तं
सदा
।
स्वात्मानं
प्रकटीकरोति
भजतां
यो
मुद्रया
भद्रया
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्रीदक्षिणामूर्तये
॥ ७ ॥
8
▾
Meaning
Keep
विश्वं
पश्यति
कार्यकारणतया
स्वस्वामिसंबन्धतः
शिष्याचार्यतया
तथैव
पितृपुत्राद्यात्मना
भेदतः
।
स्वप्ने
जाग्रति
वा
य
एष
पुरुषो
मायापरिभ्रामितः
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्रीदक्षिणामूर्तये
॥ ८ ॥
9
▾
Meaning
Keep
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो
हिमांशुः
पुमान्
इत्याभाति
चराचरात्मकमिदं
यस्यैव
मूर्त्यष्टकम्
।
नान्यत्किञ्चन
विद्यते
विमृशतां
यस्मात्परस्माद्विभोः
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्रीदक्षिणामूर्तये
॥ ९ ॥
10
▾
Meaning
Keep
सर्वात्मत्वमिति
स्फुटीकृतमिदं
यस्मादमुष्मिन्
स्तवे
तेनास्य
श्रवणात्तदर्थमननाद्ध्यानाच्च
सङ्कीर्तनात्
।
सर्वात्मत्वमहाविभूतिसहितं
स्यादीश्वरत्वं
स्वतः
सिद्ध्येत्तत्पुनरष्टधा
परिणतं
चैश्वर्यमव्याहतम्
॥ १० ॥