The works of Ādi Śaṅkarācārya

Lalitātriśatībhāṣyam

p. 171

p. 171

करुणया दयया हेतुना अमृताय प्राप्तः सागरः समुद्रो ययासा भागीरथी, करुणामृतसागरा ॥ॐ करुणामृतसागरायै नमः ॥कदम्बकाननावासा ।कदम्बनामककल्पवृक्षयुक्तं यत्काननं वनं तत्रावासो गृहं यस्याः सा तथा ॥ॐकदम्बकाननावासायै नमः ॥कदम्बकुसुमप्रिया ।कदम्बानां कुसुमानि कदम्बकुसुमानितेषु प्रिया प्रीतिमतीति यावत् ।यद्यपि प्रियशब्दः प्रीतिविषयवाचकः, तथापि कुसुमजन्यप्रीतेरभावेन तद्विषयतायाः वक्तुमशक्यत्वात् तथोक्तम ॥ॐ कदम्बकुसुमप्रियायै नमः ॥कन्दर्पविद्या कन्दर्पजनकापाङ्गवीक्षणा ।कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥ ३ ॥कन्दर्प विद्या ।कन्दर्पस्य विद्या तन्निष्ठप्रत्यग्ब्रह्मैक्यज्ञानमित्यर्थः ।अथवा विद्याप्रापकत्वात्तदृष्टमूलमन्त्रवर्णसमुदायो विद्येत्युच्यते वेदवाक्येषु उपनिषत्पदवत् ।तद्वाच्यार्थत्वात् तथा देवी सूच्यते ॥ॐ कन्दर्पविद्यायै नमः ॥कन्दर्पजनकापाङ्गवीक्षणा ।अपाङ्गाभ्यां वीक्षणमपाङ्गवीक्षणम्,ईषद्दर्शनमिति यावत् ।कन्दर्पस्य जनकं अपाङ्ग

In plain words

She who flows as the river of grace through supreme mercy and compassion—the very ocean of immortal love—is the divine Mother, resident of the Kadamba forest, lover of its fragrant blossoms, embodiment of supreme wisdom, whose gentle glance awakens all desire and fills the directions with sweetness. Salutation to her.

Close to the Sanskrit

By compassion, mercy, and cause, she through whom the ocean of immortal grace is attained is Bhagirathi, the ocean of the nectar of compassion. Salutation to the ocean of the nectar of compassion! Dwelling in the Kadamba forest, fond of Kadamba flowers, Kandarpa's knowledge, whose side-glance generates Kandarpa, making the quarters billow with the fragrance of camphor betel - salutation to her!