p. 190
शक्तीनामादयो यषां प्राणिकोटीनां ताः एकवीरादयः तासां कदम्बैः संसेव्या संसेवितुं योग्या ।यदा ईश्वरी भक्ताननुगृह्णाति सगुणविग्रहवती स्यात् तदा अनेकपरिवारदेवतापरिसेविता मन्त्रदेवतात्वेनोपासनीयेत्यर्थः ।अथवा, एकवीरा रेणुका, तदादयः शक्तयः श्यामलाप्रमुखाः, ताभिस्तत्कालप्रपञ्चे स्वस्वपीठे स्थिताः सत्यः उपासकानामभीष्टवरप्रदात्र्यो दृश्यन्ते ।ता अस्याः परिसेवकत्वेन स्वयमभीष्टवरकामाः इत्यस्याः प्रकृताया महिमातिशयोक्तिः ॥ॐ एकवीरादिसंसेव्यायै नमः ॥एकप्राभवशालिनी ।प्रभोर्भावः प्राभवं रक्षकत्वम् एकमनितरसाधारणं च तत्प्राभवं च तच्छालत इति तथा ।अथवा, प्राभवस्य सापेक्षकधर्मत्वादेकपदस्य चानन्यगामित्वार्थस्य सामानाधिकरण्येन स्वारस्येन पर्यालोच्यमानेन अयमर्थः सूच्यते ।प्राभवं च नियम्यलोकोद्भवं विना अनुपपद्यमानं तदन्तर्गततत्कार्यमर्थापत्त्या सिध्यति ।तथा च वटबीजवस्त्वन्तर्गतपश्चाद्भाविकार्यवत्कूटस्थचैतन्यमिति भावः ।अथवा, प्राभवं नामेश्वरत्वं तदाक्लृप्तनियम्यजगच्चोपलक्षणविधया यस्यैकस्याखण्डचैतन्यस्य तदेकप्राभवम् ।'पादोऽस्य सर्वा भूतानिएकांशेन स्थितो जगत्' इति श्रुतिस्मृतिभ्यां भूतपूर्व
In plain words
She is worshipped by countless millions of beings led by luminous forces such as Ekavīrā. Alternatively, when supreme deities like Reṇukā and Śyāmalā abide in their sacred abodes, they manifest as granters of boons to seekers, reflecting her supreme majesty. She possesses a singular, peerless sovereignty. Her majesty is the very nature of the Lord—the power of preservation that stands unmatched. Through deep inquiry, this points directly to the unchanging, foundational consciousness, just as a vast banyan tree remains latent within its tiny seed.
Close to the Sanskrit
She who is worthy of being worshipped by groups of powers beginning with Ekavīra, among crores of living beings... Or, Ekavīrā is Reṇukā, and the powers beginning with her... She who possesses singular majesty. The state of the lord is majesty, protection; that which is one and extraordinary, and that majesty, and from possessing that, thus. Or, prābhava being a relative property and the single word having an exclusive meaning, when considered through coreference and natural fluency, this meaning is indicated...