The works of Ādi Śaṅkarācārya

Lalitātriśatībhāṣyam

p. 240

p. 240

लक्ष्मणाप्रजपूजिता ।अग्रे जायते इत्यग्रजौ रामभरतौलक्ष्मणस्यापि ज्येष्ठभूतरामाचारानुकारित्वेन चतुभिरपि दा-शरथिभि पूजितेत्यर्थ ।रामस्य शिवलिङ्गप्रतिष्ठाता- इतिनामवत्त्वान्यथानुपपत्त्या शिवदपतिपूजकत्वेन तदितरेषा तब्द-शस्त्रीपुरुषाणा तत्सिद्धिरिति ध्वनितोऽर्थ ॥ॐ लक्ष्मणाग्र-जपूजितायै नम ॥लभ्येतरा ।लभ्यानि लब्धव्यानि कर्मोपासनाविशेषाणाफलत्वेन साध्यानि भव्यानीत्यर्थ ।तेभ्य इतरा विलक्षणा ।'तत्सत्य स आत्मा' 'नित्यो नित्याना चेतनचेतनानामेकोबहूना यो विदधाति कामान् ।तमात्मस्थम्' इति 'यत्साक्षादपरोक्षाम' इत्यादिभि श्रुतिभि आत्मन नित्यप्राप्तस्वरूपत्वेन प्राप्तप्राप्तव्यरूपतया मोक्षरूपत्वेन चतुर्विधक्रियाफलत्वा-भावादिति मन्तव्यम् ।अथवा, इतराणि धर्मार्थकामरूपत्रि-वर्गरूपाणि फलानि लब्धव्यानि प्राप्तव्यानि यस्याशादिति सा तथा, उक्तश्रुते ॥ॐ लभ्येतरायै नम । ।लब्धमक्तिसुलभा ।भक्ति सामान्यविशेषाकारेण द्विविधा ।तन्नाद्या आर्तजिन्नास्वार्थार्थिभि थैलब्धा तत्तत्फलोद्देशेन समयविशेषे विच्छिद्य विच्छिद्य प्राप्ता तेषा सुलमातत्तत्प्रारब्धानुसारेण फलदानोन्मुखस्वात्मरूपतया सनिहित

In plain words

The commentary unfolds the divine names of the Goddess: she is adored by Rāma, the elder brother of Lakṣmaṇa; she is completely distinct from the transient fruits of ordinary ritual and meditation; and she is intimately close and easily accessible to those who turn to her in devotion.

Close to the Sanskrit

The commentary explains the names 'Lakṣmaṇāgrapajūjitā', 'Labhyetarā', and 'Labdhabhaktisulabhā' from the Lalitā Triśatī, analyzing how the Goddess is worshipped by Rāma, how she is distinct from ordinary ritual fruits, and how she is easily attained through devotion.