p. 273
न्द्रियादौ सुखप्रकाशाव्याप्तौ मनःस्थैर्याभावेन रजसः प्रवर्तकस्य विक्षेपकस्य तमसश्चावरणप्रधानस्य विवेकज्ञानप्रतिबन्धकस्य निद्रालस्यादिसमुद्भवस्य कार्येण जामित्वादिरूपेण श्रेयोमार्गसाधनानुष्ठाने गुरुवेदयोः श्रद्धाक्षये बाह्यविषयसंपादनव्यग्रे मनसि लाभालाहेतुकहर्षशोकजन्यरागद्वेषपरतन्त्रे अनात्मज्ञासुरसंपत्तिमता चित्ते न भातीत्याशयःप्रत्युत जननमरणप्रवाहरूपसंसारमेवानुभवन्ति,'तानहं द्विषतः क्रूरान्' इति भगवद्वचनात् ।अतो निरभिमानपुरुषेण स्वाभीष्टलाभाय चित्त सदा चिन्तनीयेत्यर्थः ।'यतयः शुद्धसत्त्वा' इत्यादिप्रमाणेभ्य इति द्रष्टव्यम् ॥ॐ लब्धाहंकारदुर्गमायै नमः ॥लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नति ।लब्धवृद्धिर्लब्धलीला लब्धयौवनलिनी । ।लब्धशक्ति ।लब्धा शक्तिः सकलसामर्थ्यहेतुभूता मायात्मिका यया सा तथा,'ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्' इति श्रुतेः ॥ॐ लब्धशक्त्यै नमः ॥लब्धदेहा ।लब्धो देहो विग्रहो यया सा तथा ।स्वे
In plain words
Hence the pride-free seeker should ever meditate upon her... She who is endowed with all power, who assumes a divine form, who reaches the pinnacle of majesty, who is ever expansive, who sports in cosmic play, and who possesses eternal vitality.
Close to the Sanskrit
Therefore by a person devoid of pride... She who has attained power, who has attained a body, who has attained the height of majesty, who has attained growth, who has attained divine play, who has attained eternal youth.