p. 279
ह्रींकारदुग्धाब्धिसुधा ह्रींकारकमलेन्दिरा ।ह्रींकारमणिदीपार्चिह्रींकारतरुशारिका । ।हकारदुग्धाब्धिसुधा ।दोहानिष्पन्नं दुग्धम् ।स्तनगतस्य पयसः स्वीयतापादनहस्तक्रियाविशेषो दोहः ।उपलक्षणं चोषणादीनाम् , तथा च प्रदीपालकार सिद्ध , अनन्तोदकप्रसारितनिम्नभूप्रदेश अब्धिरुच्यते ।आप धीयते अस्मिन्निति तथा ।तस्मिन् सजीवकत्व धर्म ।डिम्भक सजीवने स्तन्यादी दर्शनात् ।ह्रींकारस्यापि हकारयुक्ततया श्वेतवर्णत्वादमृतहेतोश्च तत्सादृश्यम् ।तस्य सुधेव सुधातदभिव्यक्तत्वाविशेषात्तत्सेवकाना नित्यत्वे सति बहुविधमहिमशालितया दर्शनादिति भावः ॥ॐ ह्रींकारदुग्धाब्धिसुधायै नमः ॥हींकारकमलेन्दिरा ।ह्रींकारबीजस्य विचित्रवर्णतया परमप्रीतिविषयतया च कमलोपमा ।तस्य वाच्यार्थतया तदुपरितनत्वेन सर्वपुरुषार्थप्रदातृत्वाच्च कमलशब्देनाभिधीयते ।तस्या पद्मालयत्वात् ह्रींकारकमलस्य इन्दिरा सदधीनब्रह्मविद्यत्यर्थ ॥ॐ ह्रींकारकमलेन्दिरायै नमः । ।ह्रींकारमणिदीपार्चि ।आधिदैविकाद्युपद्रवानभिभूतत्वे
In plain words
She who is the nectar from the milk-ocean of the mantra hrīṃ, the lotus-lakṣmī of hrīṃ, the brilliant jewel-lamp flame of hrīṃ, and the sweet singing parrot upon the wish-fulfilling tree of hrīṃ.
Close to the Sanskrit
Nectar of the milk-ocean of the syllable hrīṃ, lakṣmī of the lotus of the syllable hrīṃ, flame of the jewel-lamp of the syllable hrīṃ, and female parrot of the tree of the syllable hrīṃ.