The works of Ādi Śaṅkarācārya

Lalitātriśatībhāṣyam

p. 280

p. 280

सति चिरकालावस्थायित्व मणिदीपसाहश्यम् ह्रींकारस्य ।तस्य प्रकाश अनितरसाधारणमहातिशयवत्त्वेन अनर्घत्वमावेदयति ।तदुपासकस्य निरवधिकमहत्त्वापादकह्रींकारवाच्यतया तत्प्रकाशकेत्यर्थः ।तथा च निरन्तरतमोऽपाकरणेन स्वेष्टपदार्थापादनेन च सुखयतीति फलितोऽर्थः ॥ह्रींकारमणिदीपार्चिषे नमः ॥ह्रींकारतरुशारिका ।तारयति फलार्थिन स्वारूढान् पतनादे रक्षतीति तरु , तस्य शारिका पिङ्गतुण्डनेत्रचरणा शारिका अभ्यासातिशयेन मनुष्यभाषायामपि भाषते ।भूतभविष्यद्वर्तमानलोकयात्रापरिज्ञात्री सती शुभाशुभफलप्राप्तिं च स्वभाषया वदति ।अस्य बीजस्य वाच्यार्थतयासत्सबन्धिनी सती वेदवाचा सर्वं प्रकाशयतीत्यर्थः ॥ह्रींकारतरुशारिकायै नमः ॥ह्रींकारपेटकमणिर्ह्रींकारादर्शविम्बिता ।ह्रींकारकोशामिलता ह्रींकारास्थाननर्तकी ।ह्रींकारपेटकमणि ।गूहनसाधनतया ह्रींकार पेटफेन दृष्टान्तीक्रियते ।तस्य मणि वैडू मित्यर्थ ।यथा हीरादिमणि पेटकादौ गापितोऽपि स्वकान्त्या बाह्याभ्यन्तर तस्य

In plain words

The enduring nature of the syllable hrīṃ resembles a jewel-lamp. Its brilliant light declares its priceless worth, for it radiates a peerless and extraordinary majesty.

Close to the Sanskrit

Being long-lasting, the similarity of the jewel-lamp belongs to the syllable hrīṃ. Its illumination proclaims pricelessness due to possessing unsurpassed extraordinary greatness.