p. 281
प्रकाशयन्नितरपेटकेभ्य तं व्यावर्तयति, तथेदमपि बीजं स्ववाचकतयेतरवर्णेभ्य निरतिशयमहिम्ना भेदयतीति भावः । ।ॐ ह्रींकारपेटकमणये नमः । ।ह्रींकारादर्शबिम्बिता ।अस्य बीजस्य इतरप्रमाणानपेक्षवेदान्तर्गततया निर्दोषत्वादादशसाम्यम् ।तस्मिन् बिम्बिताप्रतिबिम्बिता, मायाप्रतिबिम्बचैतन्यस्यैव जगत्कारणतया सर्वत्र दर्पणे मुखमिव प्रतिफलतीति तात्पर्यार्थः ॥ॐहींकारादर्शविम्बितायै नमः ॥ह्रींकारकोशासिलता ।ह्रींकार एव कोश तस्यासिलता अतिदीर्घखड्गमित्यर्थः ।सर्ववैर्यादिजन्यदुखविवर्तकत्वमसिलताया इव परदेवताया अपि ।तथात्वेन बहिः प्रकटनायोग्यतामादृश्येन आच्छादकापेक्षया ह्रींकारस्य वाचकशब्दतया अर्थावारकत्वौपम्यादसिकोशतुल्यता ।तथा च ह्रींकारकाशे विद्यमाना असिलतेव दुखनिवारकत्वे सति भक्ताभयकरीति भावः ।सर्वेषामायुधविशेषाणाम् असिपदमुपलक्षणम् ।'महद्भयं वनमुद्यतम् ' ' भीषास्माद्वात पवते' इत्यादिश्रुतेः ॥ॐ ह्रींकारकोशासिलतायै नमः ।ह्रींकारास्थाननर्तकी ।ह्रींकार एव आस्थान सभामण्डप सर्वाश्रयत्वात् ।तस्य नर्तकी नटनसबन्धभूसयोगचरणवि
In plain words
She who is reflected within the mirror of hrīṃ, the flashing sword-blade in the scabbard of hrīṃ, and the graceful dancer in the grand assembly hall of hrīṃ.
Close to the Sanskrit
Being reflected in the mirror of the syllable hrīṃ, the sword-creeper of the sheath of the syllable hrīṃ, and the dancer in the assembly hall of the syllable hrīṃ.