The works of Ādi Śaṅkarācārya

Sanatsujātīyam

p. 222

p. 222

बले बलवतामिव, यथा बलवतो राज्ञः बलवन्तं राजानं दृष्ट्वा अहमस्मादपि बलवत्तां संपादयैनं जित्वा अस्मादपि सुखी भूयासमिति संघर्षो वर्तते तद्वत् ।ते फलसङ्गसहिताः ब्राह्मणा यज्ञाधिकारिण इतः प्रेत्य धूमादिमार्गेण गत्वा स्वर्गे नक्षत्रादिरूपेण यान्ति प्राप्नुवन्ति प्रकाशताम् ।श्रूयते च—‘अथ य इमे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति’ इत्यारभ्य ‘एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति यावस्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते’ इति ।येषां विषयानाकृष्टचेतसामनित्यफलसाधनज्योतिष्टोमादौ धर्मे न च स्पर्धा संघर्षो न वर्तते तेषां फलनिरपेक्षमीश्वरार्थं कर्मानुतिष्ठतां तत् यज्ञादिकं कर्म शुद्धिद्वारेण ज्ञानसाधनम् ।वक्ष्यति च स्वयमेव भगवान् शुद्धिद्वारेणैव ज्ञानसाधनत्वम्—‘पुण्येन पापं विनिहत्य पश्चात्स जायते ज्ञानविदीपितात्मा’ इति ।ये यज्ञादिभिः विशुद्धसत्त्वाः परमात्मानमात्मत्वेनावगच्छन्ति, ते ब्राह्मणा इतः अस्मात्कार्यकारणलक्षणाल्लोकात्प्रेत्य मुक्ताः स्वर्गं सुखलक्षणं पूर्णानन्दं ब्रह्म यान्ति प्राप्नुवन्ति ।इतरस्मात्स्वर्गादस्य वैलक्षण्यमाह—त्रिविष्टपमिति ।त्रिभिराध्यात्मिकादितापैः, सत्त्वादिभिर्वा, जाग्रदादिभिर्वा विमुक्तं स्वरूपाविष्टं पातीति त्रिविष्टपम् ।अथवा, त्रैविष्टपमधिकारिणं पातीति त्रिविष्टपम् ॥

In plain words

Just as two powerful monarchs look upon one another with competitive ambition, each striving to surpass the other in might and happiness, so too do ritualistic seekers compete for heavenly rewards. Bound by attachment to the fruits of their actions, these performers of sacrifice depart this life via the southern path of smoke, reaching the celestial spheres to shine as stars...

Close to the Sanskrit

Like in strength among the powerful, just as seeing a powerful king, a rivalry exists thinking 'May I attain greater power than this one, and conquering him, may I be even happier than this'—similarly [with ritualists]. Those brahmins accompanied by attachment to fruits, being qualified for sacrifices, departing from here and going by the path of smoke, reach heaven and attain luminosity...