विश्वम्
vishvam
vishvam vishnurvashatkāro bhūtabhavyabhavatprabhuh | bhūtakridbhūtabhridbhāvo bhūtātmā bhūtabhāvanah || 14 ||
Śaṅkara
विश्वस्य जगतः कारणत्वेन विश्वम् इत्युच्यते ब्रह्म । आदौ तु विश्वमिति कार्यभूतविश्वशब्देन कारणग्रहणं कार्यभूतविरिञ्च्यादिनामभिरपि उपपन्ना स्तुतिर्विष्णोः इति दर्शयितुम् । यद्वा, परस्मात् पुरुषात् न भिन्नमिदं विश्वं परमार्थतः तेन विश्वमित्यभिधीयते ब्रह्म, 'ब्रह्मैवेदं विश्वम्' 'पुरुष एवेदं विश्वम्' 'विश्वमेवेदम्' इत्यादिश्रुतिभ्यः । तद्भिन्नं न किंचित् परमार्थतः सदस्ति । अथवा, विशतीति विश्वं ब्रह्म, 'तत्सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतेः । किंच, संहृतौ विशन्ति विश्वानि भूतानि अस्मिन्निति विश्वं ब्रह्म, 'यत् प्रयन्त्यभिसंविशन्ति' इति श्रुतेः । तथा हि—सकलं जगत्कार्यभूतमेष विशति, अत्र अखिलं विश्वं विशतीत्युभयथापि विश्वं ब्रह्म इति, श्रुतेः । 'अन्यत्र धर्मादन्यत्राधर्मात्' इत्यारभ्य 'सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि । ओमित्येतत् । एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्' इति काठके । 'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः' इत्युपक्रम्य 'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत' इति प्रश्नोपनिषदि । 'ओमिति ब्रह्म । ओमितीदं सर्वम्' इति यजुर्वेदारण्यके । 'तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक् संतृण्णा । ओंकार एवेदं सर्वम् ।' इति छान्दोग्ये । 'ओमित्येतदक्षरम्' इत्युपक्रम्य प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः । अपूर्वोऽनन्तरो बाह्यो न परः प्रणवोऽव्ययः ॥ सर्वस्य प्रणवो ह्यादिः मध्यमन्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ प्रणवं हीश्वरं विन्द्यात्सर्वस्य हृदये स्थितम् । सर्वव्यापिनमोंकारं ज्ञात्वा धीरो न शोचति ॥ अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥ इति । 'ओं तद्ब्रह्म । ओं तद्वायुः । ओं तदात्मा । ओं तत्सत्यम्' इत्यादिभ्यः श्रुतिभ्यः । ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ....................गिरामस्म्येकमक्षरम् ॥ आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता । एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ॥ ओंकारः स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत । विकथां चान्यां कृत्वा एवं लौकिक्या वाचा व्यावर्तेत ब्रह्म' । 'प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः । वाङ्मयं प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत्' इत्यादिस्मृतिभ्यश्च विश्वशब्देन ओंकारोऽभिधीयते । वाच्यवाचकयोरत्यन्तभेदाभावात् विश्वमित्योंकार एव ब्रह्मेत्यर्थः । 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' इति । एतदुक्तं भवति—यस्मात्सर्वमिदं विकारजातं ब्रह्म तज्जत्वात् तल्लत्वात् तदनत्वाच्च । न च सर्वस्यैकात्मत्वे रागादयः संभवन्ति । 'तस्माच्छान्त उपासीत' इति श्रुतेः; श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ निर्गुणः परमात्मात्र देहे व्याप्य व्यवस्थितः । तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ॥ यद्यागमैर्न विन्देयं तमहं भूतभावनम् । क्रमेयं त्वां गिरिं चेमं हनुमानिव सागरम् ॥ बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः । शोच्यान्यहोऽतिमोहेन व्याप्तानीति मनीषिणाम् । एते भिन्नदृशां दैत्या विकल्पाः कथिता मया ॥ कृत्वाभ्युपगमं तत्र संक्षेपः श्रूयतां मम । विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् ॥ द्रष्टव्यमात्मवत्तस्मादभेदेन विचक्षणैः । समुत्सृज्यासुरं भावं तस्माद्यूयं तथा वयम् ॥ तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् । सर्वत्र दैत्याः समतामुपेताः समत्वमाराधनमच्युतस्य ॥ न मन्त्रादिकृतस्तात न च नैसर्गिको मम । प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ॥ अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा । तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥ कर्मणा मनसा वाचा परपीडां करोति यः । तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥ सोऽहं न पापमिच्छामि न करोमि वदामि वा । चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ॥ शारीरं मानसं वाग्जं दैवं भूतभवं तथा । सर्वत्र समचित्तस्य तस्य मे जायते कुतः ॥ एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥ साम चोपप्रदानं च भेददण्डौ तथापरौ । उपायाः कथिता ह्येते मित्रादीनां च साधने ॥ तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुधः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥ सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥ जडानामविवेकानामशूराणामपि प्रभो । भाग्यभोग्यानि राज्यानि सन्त्यनीतिमतामपि ॥ तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् । यतितव्यं समत्वेन निर्वाणमपि चेच्छता ॥ देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः । रूपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम् ॥ एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् । द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं विश्वरूपधृक् ॥ एवं ज्ञाते स भगवाननादिः परमेश्वरः । प्रसीदत्यच्युतो यस्मिन्प्रसन्ने क्लेशसंक्षयः ॥ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ इत्यादिवचनैश्च हिंसादिरहितेन स्तुतिनमस्कारादि कर्तव्यमिति दर्शयितुं विश्वशब्देन ब्रह्माभिधीयत इति वा ॥ मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ इति । न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिदुच्चैः सितमनसं तमवेहि विष्णुभक्तम् ॥ विमलमतिरमत्सरः प्रशान्तः शुभचरितोऽखिलसत्त्वमित्रभूतः । प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ वसति हृदि सनातने च तस्मिन्भवति पुमाञ्जगतोऽस्य सौम्यरूपः । क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव सालपोतः ॥ सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरः स एकः । इति मतिरचला भवत्यनन्ते हृदयगते व्रज तान्विहाय दूरात् ॥ यमनियमविधूतकल्मषाणामनुदिनमच्युतसक्तमानसानाम् । अपगतमदमानमत्सराणां व्रज भट दूरतरेण मानवानाम् ॥ इत्यादिवचनैर्वैष्णवलक्षणस्य एवंप्रकारत्वाच्च हिंसादिरहितेन विष्णोः स्तुतिनमस्कारादि कर्तव्यमिति । 'श्रद्धया देयम् अश्रद्धयादेयम्' 'श्रद्धयाग्निः समिध्यते' इति श्रुतेः, मश्रोत्रियं श्राद्धमधीतमव्रतमदक्षिणं यज्ञमनृत्विजा हुतम् । अश्रद्धया दत्तमसंस्कृतं हविर्भागाः षडेते तव दैत्यसत्तम ॥ पुण्यं मद्द्वेषिणां यच्च मद्भक्तद्वेषिणां तथा । क्रयविक्रयसक्तानां पुण्यं यच्चाग्निहोत्रिणाम् ॥ अश्रद्धया च यद्दानं यजतां ददतां तथा । तत्सर्वं तव दैत्येन्द्र मत्प्रसादाद्भविष्यति ॥ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ इत्यादिस्मृतिभ्यश्च श्रद्धया स्तुतिनमस्कारादि कर्तव्यम्, नाश्रद्धया । 'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति भगवद्वचनात् स्तुतिनमस्कारादिकं कर्मासात्त्विकं विगुणमपि श्रद्धापूर्वकं ब्रह्मणोऽभिधानत्रयप्रयोगेण सगुणं सात्त्विकं संपादितं भवति । आत्मानं विष्णुं ध्यात्वा स्तुतिनमस्कारादि कर्तव्यम् । नाविष्णुः कीर्तयेद्विष्णुं नाविष्णुर्विष्णुमर्चयेत् । नाविष्णुः संस्मरेद्विष्णुं नाविष्णुर्विष्णुमाप्नुयात् ॥ इति महाभारते कर्मकाण्डे । सर्वाण्येतानि नामानि परस्य ब्रह्मणोऽनघ । एवमेतानि नामानि देवदेवस्य कीर्तयेत् ॥ यं यं काममभिध्यायेत्तं तमाप्नोत्यसंशयम् । सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम् ॥ तन्मयत्वेन गोविन्दमित्येतद्दुर्लभं नान्यथा । तन्मयो वाञ्छितान्कामान्पदमाप्नोति मानवः ॥ इति विष्णुधर्मे । सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ इति भगवद्गीतासु । अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ति ॥ इति विष्णुपुराणे । गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ 'तस्माद्ब्रह्मैवाचार्यरूपेणावतिष्ठते' इति व्यासस्मृतेः । वरं हुतवहज्वालापुञ्जस्यान्तर्व्यवस्थितिः । न शौरिचिन्ताविमुखजनसंवासवैशसम् ॥ इति कात्यायनवचनात् यत्र देशे वासुदेवनिन्दा तत्र वासो न कर्तव्यः । एतदुक्तं भवति— यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ इति श्वेताश्वतरोपनिषन्मन्त्रवर्णात् हरौ गुरौ च परा भक्तिः कार्येति ॥ अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥ ज्ञानतोऽज्ञानतो वापि वासुदेवस्य कीर्तनात् । तत्सर्वं विलयं याति तोयस्थं लवणं यथा ॥ कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् । प्रयाति विलयं सद्यः सकृद्यत्रानुसंस्मृते ॥ सकृत्स्मृतोऽपि गोविन्दो नृणां जन्मशतैः कृतम् । पापराशिं दहत्याशु तूलराशिमिवानलः ॥ सेयं वदनवल्मीकवासिनी रसनोरगी । या न गोविन्द गोविन्द गोविन्देति प्रभाषते ॥ पापवल्ली मुखे तस्य जिह्वारूपेण तिष्ठति । या न वक्ति दिवारात्रौ गुणान्गोविन्दसंभवान् ॥ सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ एकोऽपि कृष्णे सुकृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ इत्यादिवचनैः श्रद्धाभक्त्योरभावेऽपि नामसंकीर्तनं समस्तं दुरितं नाशयतीत्युक्तम् । किमुत श्रद्धादिपूर्वकं सहस्रनामसंकीर्तनं नाशयतीति । 'मनसा वा अग्रे संकल्पयत्यथ वाचा व्याहरति', 'यद्धि मनसा ध्यायति तद्वाचा वदति' इति श्रुतिभ्यां स्मरणं ध्यानं च नामसंकीर्तनेऽन्तर्भूतम् । यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशिते च मनसि ब्राह्मोऽपि लोकोऽल्पकः । मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ इति विष्णुपुराणे श्रीपराशरेणोपसंहृतम् । आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ इति महाभारतान्ते भगवता श्रीवेदव्यासेनोपसंहृतम् । हरिरेकः सदा ध्येयो भवद्भिः सत्त्वसंस्थितैः । ओमित्येवं सदा विप्राः पठत ध्यात केशवम् ॥ इति हरिवंशे कैलासयात्रायां हरिरेको ध्यातव्य इत्युक्तं श्रीमहेश्वरेणापि । एतत्सर्वमभिप्रेत्य 'एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः' इत्याधिक्यमुक्तम् । 'किमेकं दैवतम्' इत्यारभ्य 'किं जपन्मुच्यते जन्तुः' इति षट्प्रश्नेषु 'यतः सर्वाणि' इति प्रश्नोत्तराभ्यां यद्ब्रह्मोक्तं तद्विश्वशब्देनोच्यत इति व्याख्यातं विश्वम् ।
viśvasya jagataḥ kāraṇatvena viśvam ityucyate brahma | ādau tu viśvamiti kāryabhūtaviśvaśabdena kāraṇagrahaṇaṃ kāryabhūtaviriñcyādināmabhirapi upapannā stutirviṣṇoḥ iti darśayitum | yadvā, parasmāt puruṣāt na bhinnamidaṃ viśvaṃ paramārthataḥ tena viśvamityabhidhīyate brahma, 'brahmaivedaṃ viśvam' 'puruṣa evedaṃ viśvam' 'viśvamevedam' ityādiśrutibhyaḥ | tadbhinnaṃ na kiṃcit paramārthataḥ sadasti | athavā, viśatīti viśvaṃ brahma, 'tatsṛṣṭvā tadevānuprāviśat' iti śruteḥ | kiṃca, saṃhṛtau viśanti viśvāni bhūtāni asminniti viśvaṃ brahma, 'yat prayantyabhisaṃviśanti' iti śruteḥ | tathā hi—sakalaṃ jagatkāryabhūtameṣa viśati, atra akhilaṃ viśvaṃ viśatītyubhayathāpi viśvaṃ brahma iti, śruteḥ | 'anyatra dharmādanyatrādharmāt' ityārabhya 'sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti | yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa bravīmi | omityetat | etaddhyevākṣaraṃ brahma etaddhyevākṣaraṃ param | etaddhyevākṣaraṃ jñātvā yo yadicchati tasya tat' iti kāṭhake | 'etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṃkāraḥ' ityupakramya 'yaḥ punaretaṃ trimātreṇomityetenaivākṣareṇa paraṃ puruṣamabhidhyāyīta' iti praśnopaniṣadi | 'omiti brahma | omitīdaṃ sarvam' iti yajurvedāraṇyake | 'tadyathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇānyevamoṃkāreṇa sarvā vāk saṃtṛṇṇā | oṃkāra evedaṃ sarvam |' iti chāndogye | 'omityetadakṣaram' ityupakramya praṇavo hyaparaṃ brahma praṇavaśca paraḥ smṛtaḥ | apūrvo'nantaro bāhyo na paraḥ praṇavo'vyayaḥ || sarvasya praṇavo hyādiḥ madhyamantastathaiva ca | evaṃ hi praṇavaṃ jñātvā vyaśnute tadanantaram || praṇavaṃ hīśvaraṃ vindyātsarvasya hṛdaye sthitam | sarvavyāpinamoṃkāraṃ jñātvā dhīro na śocati || amātro'nantamātraśca dvaitasyopaśamaḥ śivaḥ | oṃkāro vidito yena sa munirnetaro janaḥ || iti | 'oṃ tadbrahma | oṃ tadvāyuḥ | oṃ tadātmā | oṃ tatsatyam' ityādibhyaḥ śrutibhyaḥ | omityekākṣaraṃ brahma vyāharanmāmanusmaran | yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim || yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ | yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye || raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ | praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu || ....................girāmasmyekamakṣaram || ādyaṃ yattryakṣaraṃ brahma trayī yasminpratiṣṭhitā | ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ || oṃkāraḥ svargadvāraṃ tasmādbrahmādhyeṣyamāṇa etadādi pratipadyeta | vikathāṃ cānyāṃ kṛtvā evaṃ laukikyā vācā vyāvarteta brahma' | 'praṇavādyāstathā vedāḥ praṇave paryavasthitāḥ | vāṅmayaṃ praṇavaḥ sarvaṃ tasmātpraṇavamabhyaset' ityādismṛtibhyaśca viśvaśabdena oṃkāro'bhidhīyate | vācyavācakayoratyantabhedābhāvāt viśvamityoṃkāra eva brahmetyarthaḥ | 'sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta' iti | etaduktaṃ bhavati—yasmātsarvamidaṃ vikārajātaṃ brahma tajjatvāt tallatvāt tadanatvācca | na ca sarvasyaikātmatve rāgādayaḥ saṃbhavanti | 'tasmācchānta upāsīta' iti śruteḥ; śrūyatāṃ dharmasarvasvaṃ śrutvā caivāvadhāryatām | ātmanaḥ pratikūlāni pareṣāṃ na samācaret || ātmaupamyena sarvatra samaṃ paśyati yo'rjuna | sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ || nirguṇaḥ paramātmātra dehe vyāpya vyavasthitaḥ | tamahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye || yadyāgamairna vindeyaṃ tamahaṃ bhūtabhāvanam | krameyaṃ tvāṃ giriṃ cemaṃ hanumāniva sāgaram || baddhavairāṇi bhūtāni dveṣaṃ kurvanti cettataḥ | śocyānyaho'timohena vyāptānīti manīṣiṇām | ete bhinnadṛśāṃ daityā vikalpāḥ kathitā mayā || kṛtvābhyupagamaṃ tatra saṃkṣepaḥ śrūyatāṃ mama | vistāraḥ sarvabhūtasya viṣṇoḥ sarvamidaṃ jagat || draṣṭavyamātmavattasmādabhedena vicakṣaṇaiḥ | samutsṛjyāsuraṃ bhāvaṃ tasmādyūyaṃ tathā vayam || tathā yatnaṃ kariṣyāmo yathā prāpsyāma nirvṛtim | sarvatra daityāḥ samatāmupetāḥ samatvamārādhanamacyutasya || na mantrādikṛtastāta na ca naisargiko mama | prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi || anyeṣāṃ yo na pāpāni cintayatyātmano yathā | tasya pāpāgamastāta hetvabhāvānna vidyate || karmaṇā manasā vācā parapīḍāṃ karoti yaḥ | tadbījaṃ janma phalati prabhūtaṃ tasya cāśubham || so'haṃ na pāpamicchāmi na karomi vadāmi vā | cintayansarvabhūtasthamātmanyapi ca keśavam || śārīraṃ mānasaṃ vāgjaṃ daivaṃ bhūtabhavaṃ tathā | sarvatra samacittasya tasya me jāyate kutaḥ || evaṃ sarveṣu bhūteṣu bhaktiravyabhicāriṇī | kartavyā paṇḍitairjñātvā sarvabhūtamayaṃ harim || sāma copapradānaṃ ca bhedadaṇḍau tathāparau | upāyāḥ kathitā hyete mitrādīnāṃ ca sādhane || tānevāhaṃ na paśyāmi mitrādīṃstāta mā krudhaḥ | sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam || sarvabhūtātmake tāta jagannāthe jaganmaye | paramātmani govinde mitrāmitrakathā kutaḥ || jaḍānāmavivekānāmaśūrāṇāmapi prabho | bhāgyabhogyāni rājyāni santyanītimatāmapi || tasmādyateta puṇyeṣu ya icchenmahatīṃ śriyam | yatitavyaṃ samatvena nirvāṇamapi cecchatā || devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ | rūpametadanantasya viṣṇorbhinnamiva sthitam || etadvijānatā sarvaṃ jagatsthāvarajaṅgamam | draṣṭavyamātmavadviṣṇuryato'yaṃ viśvarūpadhṛk || evaṃ jñāte sa bhagavānanādiḥ parameśvaraḥ | prasīdatyacyuto yasminprasanne kleśasaṃkṣayaḥ || bahūnāṃ janmanāmante jñānavānmāṃ prapadyate | vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ || ityādivacanaiśca hiṃsādirahitena stutinamaskārādi kartavyamiti darśayituṃ viśvaśabdena brahmābhidhīyata iti vā || matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ | nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava || iti | na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe | na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavehi viṣṇubhaktam || vimalamatiramatsaraḥ praśāntaḥ śubhacarito'khilasattvamitrabhūtaḥ | priyahitavacano'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ || vasati hṛdi sanātane ca tasminbhavati pumāñjagato'sya saumyarūpaḥ | kṣitirasamatiramyamātmano'ntaḥ kathayati cārutayaiva sālapotaḥ || sakalamidamahaṃ ca vāsudevaḥ paramapumānparameśvaraḥ sa ekaḥ | iti matiracalā bhavatyanante hṛdayagate vraja tānvihāya dūrāt || yamaniyamavidhūtakalmaṣāṇāmanudinamacyutasaktamānasānām | apagatamadamānamatsarāṇāṃ vraja bhaṭa dūratareṇa mānavānām || ityādivacanairvaiṣṇavalakṣaṇasya evaṃprakāratvācca hiṃsādirahitena viṣṇoḥ stutinamaskārādi kartavyamiti | 'śraddhayā deyam aśraddhayādeyam' 'śraddhayāgniḥ samidhyate' iti śruteḥ, maśrotriyaṃ śrāddhamadhītamavratamadakṣiṇaṃ yajñamanṛtvijā hutam | aśraddhayā dattamasaṃskṛtaṃ havirbhāgāḥ ṣaḍete tava daityasattama || puṇyaṃ maddveṣiṇāṃ yacca madbhaktadveṣiṇāṃ tathā | krayavikrayasaktānāṃ puṇyaṃ yaccāgnihotriṇām || aśraddhayā ca yaddānaṃ yajatāṃ dadatāṃ tathā | tatsarvaṃ tava daityendra matprasādādbhaviṣyati || aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat | asadityucyate pārtha na ca tatpretya no iha || ityādismṛtibhyaśca śraddhayā stutinamaskārādi kartavyam, nāśraddhayā | 'oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ' iti bhagavadvacanāt stutinamaskārādikaṃ karmāsāttvikaṃ viguṇamapi śraddhāpūrvakaṃ brahmaṇo'bhidhānatrayaprayogeṇa saguṇaṃ sāttvikaṃ saṃpāditaṃ bhavati | ātmānaṃ viṣṇuṃ dhyātvā stutinamaskārādi kartavyam | nāviṣṇuḥ kīrtayedviṣṇuṃ nāviṣṇurviṣṇumarcayet | nāviṣṇuḥ saṃsmaredviṣṇuṃ nāviṣṇurviṣṇumāpnuyāt || iti mahābhārate karmakāṇḍe | sarvāṇyetāni nāmāni parasya brahmaṇo'nagha | evametāni nāmāni devadevasya kīrtayet || yaṃ yaṃ kāmamabhidhyāyettaṃ tamāpnotyasaṃśayam | sarvānkāmānavāpnoti samārādhya jagadgurum || tanmayatvena govindamityetaddurlabhaṃ nānyathā | tanmayo vāñchitānkāmānpadamāpnoti mānavaḥ || iti viṣṇudharme | sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ | sarvathā vartamāno'pi sa yogī mayi vartate || iti bhagavadgītāsu | ahaṃ hariḥ sarvamidaṃ janārdano nānyattataḥ kāraṇakāryajātam | īdṛṅmano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti || iti viṣṇupurāṇe | guroryatra parīvādo nindā vāpi pravartate | karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ || 'tasmādbrahmaivācāryarūpeṇāvatiṣṭhate' iti vyāsasmṛteḥ | varaṃ hutavahajvālāpuñjasyāntarvyavasthitiḥ | na śauricintāvimukhajanasaṃvāsavaiśasam || iti kātyāyanavacanāt yatra deśe vāsudevanindā tatra vāso na kartavyaḥ | etaduktaṃ bhavati— yasya deve parā bhaktiryathā deve tathā gurau | tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ || iti śvetāśvataropaniṣanmantravarṇāt harau gurau ca parā bhaktiḥ kāryeti || avaśenāpi yannāmni kīrtite sarvapātakaiḥ | pumānvimucyate sadyaḥ siṃhatrastairmṛgairiva || jñānato'jñānato vāpi vāsudevasya kīrtanāt | tatsarvaṃ vilayaṃ yāti toyasthaṃ lavaṇaṃ yathā || kalikalmaṣamatyugraṃ narakārtipradaṃ nṛṇām | prayāti vilayaṃ sadyaḥ sakṛdyatrānusaṃsmṛte || sakṛtsmṛto'pi govindo nṛṇāṃ janmaśataiḥ kṛtam | pāparāśiṃ dahatyāśu tūlarāśimivānalaḥ || seyaṃ vadanavalmīkavāsinī rasanoragī | yā na govinda govinda govindeti prabhāṣate || pāpavallī mukhe tasya jihvārūpeṇa tiṣṭhati | yā na vakti divārātrau guṇāngovindasaṃbhavān || sakṛduccaritaṃ yena harirityakṣaradvayam | baddhaḥ parikarastena mokṣāya gamanaṃ prati || eko'pi kṛṣṇe sukṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ | daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya || ityādivacanaiḥ śraddhābhaktyorabhāve'pi nāmasaṃkīrtanaṃ samastaṃ duritaṃ nāśayatītyuktam | kimuta śraddhādipūrvakaṃ sahasranāmasaṃkīrtanaṃ nāśayatīti | 'manasā vā agre saṃkalpayatyatha vācā vyāharati', 'yaddhi manasā dhyāyati tadvācā vadati' iti śrutibhyāṃ smaraṇaṃ dhyānaṃ ca nāmasaṃkīrtane'ntarbhūtam | yasminnyastamatirna yāti narakaṃ svargo'pi yaccintane vighno yatra niveśite ca manasi brāhmo'pi loko'lpakaḥ | muktiṃ cetasi yaḥ sthito'maladhiyāṃ puṃsāṃ dadātyavyayaḥ kiṃ citraṃ yadaghaṃ prayāti vilayaṃ tatrācyute kīrtite || iti viṣṇupurāṇe śrīparāśareṇopasaṃhṛtam | āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ | idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā || iti mahābhāratānte bhagavatā śrīvedavyāsenopasaṃhṛtam | harirekaḥ sadā dhyeyo bhavadbhiḥ sattvasaṃsthitaiḥ | omityevaṃ sadā viprāḥ paṭhata dhyāta keśavam || iti harivaṃśe kailāsayātrāyāṃ harireko dhyātavya ityuktaṃ śrīmaheśvareṇāpi | etatsarvamabhipretya 'eṣa me sarvadharmāṇāṃ dharmo'dhikatamo mataḥ' ityādhikyamuktam | 'kimekaṃ daivatam' ityārabhya 'kiṃ japanmucyate jantuḥ' iti ṣaṭpraśneṣu 'yataḥ sarvāṇi' iti praśnottarābhyāṃ yadbrahmoktaṃ tadviśvaśabdenocyata iti vyākhyātaṃ viśvam |