Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 61
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अहं जगदिति भ्रान्तिः परस्मात्कारणं विना ।
यथोदेति तथा ब्रह्मन्भूयः कथय साधु मे
2
Keep
समस्ताः समतैवान्ताः संविदो बुध्यते यतः ।
सर्वथा सर्वदा सर्वं सर्वात्मकमजस्ततः
3
Keep
सर्वा हि शब्दार्थदृशो ब्रह्मैवैताः पृथङ्ग तत् ।
सर्वार्थशब्दार्थकलारूपमासां न विद्यते
4
Keep
कटकत्वं पृथग्हेम्नस्तरङ्गत्वं पृथग्जलात् ।
यथा न संभवत्येवं न जगत्पृथगीश्वरात्
5
Keep
एष एव जगद्रूपं जगद्रूपं तु नेश्वरे ।
हेमैव कटकादित्वं कटकत्वं न हेमनि
6
Keep
यथावयविनो रूपमनेकावयवात्मकम् ।
तथाऽनवयवायास्तु चितः सर्वात्मकं च यत्
7
Keep
यत्तुल्यकालमखिलं तन्मात्रावेदनं परे ।
अन्तस्थं तदिदं भाति जगदित्यहमित्यपि
8
Keep
लेखौघानां यथा भेदसंनिवेशः शिलोदरे ।
तथानन्यज्जगदहं चेत्यन्तश्चिद्धने घनम्
9
Keep
स्थितास्तरङ्गाः सलिले यथान्तरतरङ्गिते ।
सृष्टिशब्दार्थरहितास्तथान्तः सृष्टयः परे
10
Keep
न सर्गे तिष्ठति परं सर्गस्तिष्ठति नो परे ।
अवयवावयविवत्सत्तानवयवैस्तयोः
11
Keep
चिद्रूपेण स्वसंवित्त्या स्वचिन्मात्रं विभाव्यते ।
स्वमेव रूपहृदयं वातेन स्पन्दनं यथा
12
Keep
तत्कालमेष शब्दाणुश्चिच्चमत्काररूपधृक् ।
चेतते खमिवैवान्तः संकल्प इव चेतसा
13
Keep
तदेवानिलतां वेत्ति निजसत्तात्मिकां स्वयम् ।
अन्तर्गतस्पर्शरसां पवनस्पन्दतामिव
14
Keep
तदेवाभासतामेति निजसत्तात्मिकां स्वयम् ।
कोशस्थितालोकलवां तेजः प्रगटतामिव
15
Keep
तदेवं जलतां याति निजसत्तात्मिकां स्वयम् ।
अन्तःस्थितास्वादलवां सलिलं द्रवतामिव
16
Keep
तदेदावनितां वेत्ति स्वचित्तैकात्मतामयीम् ।
अन्तःस्थगन्धतन्मात्रामुर्वी स्थैर्यकलामिव
17
Keep
तुल्यकालनिमेषांशलक्षभागप्रतीति यत् ।
निजं विदः प्रकचनं तत्सर्गौघपरम्परा
18
Keep
शुद्धं सकृत्प्रभातान्तर्दृश्यमध्यमनामयम् ।
उदयास्तमयोन्मुक्तं ब्रह्म तिष्ठत्यनिष्ठितम्
19
Keep
बुद्धं सदपवर्गं तत्ससर्गमपि सत्समम् ।
अबुद्धं सर्गरूपात्म विसर्गमपि तत्सदा
20
Keep
चिद्रह्म यद्यथा येन बुध्यते स्वात्मनात्मनि ।
तत्तत्तथा नु भवति सर्वं सर्वाङ्गशक्तिमत्
21
Keep
तत्सत्यं चिद्विलासत्वान्नित्यानुभवरूपतः ।
तदसत्यं मनः षष्ठात्सर्वाख्या निगतं यतः
22
Keep
यथैतत्सरणं वायौ तथा सर्गः स्थितः परे ।
असत्कल्पेऽपि संकल्पः सत्येऽसत्य इवापि च
23
Keep
अन्यरूपा यथानन्या तेजस्यालोकतोदरे ।
तथा ब्रह्मणि विश्वश्रीः सत्यासत्यात्मिका चिति
24
Keep
अनुत्कीर्णा यथा पङ्के पुत्रिका चाथ दारुणि ।
यथा वर्णा मषीकल्के तथा सर्गाः स्थिताः परे
25
Keep
अनन्यान्येव कचति ब्रह्मतत्त्वमरुस्थले ।
असत्यात्मनि सत्येव त्रिजगन्मृगतृष्णिका
26
Keep
ब्रह्मणा चिन्मयेनात्मा सर्गात्मैव विभाव्यते ।
न भाव्यते चानन्यत्वाद्बीजेनान्तरिव द्रुमः
27
Keep
यथा क्षीरस्य माधुर्यं तीक्ष्णत्वं मरिचस्य च ।
द्रवत्वं पयसश्चैव स्पन्दनं पवनस्य च
28
Keep
स्थितोऽनन्यो यथान्यः सन्नास्ति तत्र तथात्मनि ।
सर्गो निर्गलचिद्रूपः परमात्मात्मरूपभृत्
29
Keep
कचनं ब्रह्मरत्नस्य जगदित्येव यत्स्थितम् ।
तदकारणकं यस्मात्तेन न व्यतिरिच्यते
30
Keep
वासना चित्तजीवादिवेदनं वेदनोदितम् ।
नोदेत्यवेदनादेव यतनादेव पौरुषात्
31
Keep
नास्तमेति न चोदेति क्वचित्किंचित्कदाचन ।
सर्वं शान्तमजं ब्रह्म चिद्धनं सुशिलाघनम्
32
Keep
पराणुं प्रति सर्गौघाश्चिताद्भान्तिसहस्रशः ।
तेष्वप्यणावणावन्तः कैवात्रावासना कथम्
33
Keep
यथा जलान्त ऊर्म्याद्या गुप्तागुसाश्च शक्तयः ।
जाग्रत्स्वप्नसुषुप्ताद्यास्तथा जीवेऽन्तरास्थिताः
34
Keep
जाता चेदरतिर्जन्तोर्भोगान्प्रति मनागपि ।
तदसौ तावतैवोच्चैः पदं प्राप्त इति श्रुतिः
35
Keep
यतो यतो विरज्यते ततस्ततो विमुच्यते ।
अतोऽहमित्यसंविदन्क एति जन्मसंविदम्
36
Keep
चितिं परापरामजामरूपिकामनामिकाम् ।
चराचराऽधरामयीं विदन्ति ये जयन्ति ते
37
Keep
परे चितिः स्वप्रकटाद्वितीया-
स्वावर्तलेखेव जले द्रवान्तः ।
साहं तयेमानि जगन्ति धत्ते
न सन्ति नासन्ति परात्मकानि
38
Keep
अहंमयी पद्मजभावना चित्
संकल्पभेदाद्वितनोति विश्वम् ।
अन्तर्मुखैवानुभवत्यनन्त-
निमेषकोट्यंशविधौ युगान्तम्
Previous
←
Sarga 60
Next
Sarga 62
→