Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 3
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
महाकल्पान्तसर्गादौ प्रथमोऽसौ प्रजापतिः ।
स्मृत्यात्मा जायते मन्ये स्मृत्यात्मैव ततो जगत्
2
Keep
महाप्रलयसर्गादावेवमेतद्रघूद्वह ।
स्मृत्यात्मैव भवत्यादौ प्रथमोऽसौ प्रजापतिः
3
Keep
तत्संकल्पात्मकजगत्स्मृत्यात्मैवमिदं ततः ।
भाति संकल्पनगरं स्थितं पूर्वं प्रजापतेः
4
Keep
स्मृतिर्न संभवत्येव सर्गादौ परमात्मनः ।
जन्माभावात्कथं कुत्र नभसीव महाद्रुमः
5
Keep
न संभवति किं ब्रह्मन्सर्गादौ प्राक्तनी स्मृतिः ।
महाप्रलयसंमोहैर्नश्यति प्राक्स्मृतिः कथम्
6
Keep
ये महाप्रलये प्राज्ञाः सर्वे ब्रह्मादयः पुरा ।
किल निर्वाणमायातास्तेऽवश्यं ब्रह्मतां गताः
7
Keep
प्राक्तनः कः स्मृतेः कर्ता तस्मात्कथय सुव्रत ।
स्मृतिर्निर्मूलतां याता स्मर्तुर्मुक्ततया यतः
8
Keep
अतः स्मर्तुरभावेन स्मृतिर्वोदेति किं कथम् ।
अवश्यं हि महाकल्पे सर्वे मोक्षैकभागिनः
9
Keep
नानुभूतेऽनुभूते च स्वतश्चिद्व्योम्नि या स्मृतिः ।
सा जगद्भूरिति प्रौढा दृश्या सास्त्येव चित्प्रभा
10
Keep
भाति संवित्प्रभैवेयमनाद्यन्तावभासिनी ।
यत्तदेतज्जगदिति स्वयंभूरिति च स्थितम्
11
Keep
अनादिकालसंसिद्धं यद्भानं ब्रह्मणो निजम् ।
स आतिवाहिको देहो विराजो जगदाकृतिः
12
Keep
परमाणाविदं भाति त्रिजगत्सवनाभ्रखम् ।
देशकालक्रियाद्रव्यदिनरात्रिक्रमान्वितम्
13
Keep
परमाणुः प्रविततस्तस्यास्ते तादृगेव च ।
भाति भासुरताकारि तादृग्गिरिकुलं पुनः
14
Keep
तत्रापि तादृगाकारमेव प्रत्यनुसंततम् ।
दृश्यमाभाति भारूपमेतदङ्ग न वास्तवम्
15
Keep
इत्यस्त्यन्तो नं सद्दृष्टेरसद्दृष्टेश्च वा क्वचित् ।
अस्यास्त्वभ्युदितं बुद्धं नाबुद्धं प्रति वानघ
16
Keep
बुद्धं प्रतीदं ब्रह्मैव केवलं शान्तमव्ययम् ।
अबुद्धं प्रति बुद्ध्यैतद्भासुरं भुवनान्वितम्
17
Keep
यथेदं भासुरं भाति जगदण्डकजृम्भितम् ।
यथा कोटिसहस्राणि भान्त्यन्यान्यप्यणावणौ
18
Keep
यथा स्तम्भे पुत्रिकान्तस्तस्याः स्वाङ्गेषु पुत्रिका ।
तस्याश्च पुत्रिकास्त्यङ्गे तथा त्रैलोक्यपुत्रिका
19
Keep
नाभिन्ना नापि संख्येया यथाद्रौ परमाणुकाः ।
तथा ब्रह्म बृहन्मेरौ त्रैलोक्यपरमाणवः
20
Keep
सूर्याद्यंशुषु संख्यातुं शक्यन्ते लघवोऽणवः ।
उत्पद्यन्ते चिदादित्ये त्रैलोक्यपरमाणवः
21
Keep
यथाणवो वहन्त्यर्कदीप्तिष्वप्सु रजःसु च ।
तथा वहन्ति चिद्व्योम्नि त्रैलोक्यपरमाणवः
22
Keep
शून्यानुभवमात्रात्म भूताकाशमिदं यथा ।
सर्गानुभवमात्रात्म चिदाकाशमिदं तथा
23
Keep
सर्गस्तु सर्गशब्दार्थतया बुद्धो नयत्यधः ।
स ब्रह्मशब्दार्थतया बुद्धः श्रेयो भवत्यलम्
24
Keep
विज्ञानात्मा शासिता विश्वबीजं
ब्रह्मैवालं स्वं चिदाकाशमात्रम् ।
यस्माज्जातं यत्तदेवेति विद्या-
द्वेद्यं स्वान्तर्बोधसंबोधमात्रम्
Previous
←
Sarga 2
Next
Sarga 4
→