Contents
Direct Inquiry
Home
Library
Find
Gurudev
Shelf
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 30
‹
Previous
Contents
Next
›
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
इति तुष्टेषु देवेषु दानवेषु हतेषु
च ।
दामव्यालकटा दीना बभूवुर्भयविह्वलाः
2
Keep
जज्वाल कुपितः क्वेति कल्पान्ताग्निरिव
ज्वल
न् ।
शम्बरः शमितानीको दामव्यालकटान्प्रति
3
Keep
शम्बरस्य भयाद्गत्वा पातालमथ
सप्तम
म् ।
दामव्यालकटास्तस्थुस्त्यक्त्वाथ निजमण्डलम्
4
Keep
यमस्य किङ्करा यत्र ये
कालत्रासनक्ष
माः ।
कुतूहलेन तिष्ठन्ति नरकार्णवपालकाः
5
Keep
ते तेषामथ यातानां दत्त्वा
भयमभीर
वः ।
चिन्ता इव घनाकाराः कुमारीश्च ददुः क्रमात्
6
Keep
तैः सार्धं नीतवन्तस्ते तत्र
दामादयोऽवधि
म् ।
दशवर्षसहस्रान्तमात्तानन्तकुवासनाः
7
Keep
इयं मे कामिनी कन्या ममेयं प्रभुतेति
च ।
दुरूढस्नेहबन्धानां कालस्तेषां व्यवर्तत
8
Keep
धर्मराजोऽथ तं देशं
कदाचित्समुपाय
यौ ।
महानरककार्याणां विचारार्थं यदृच्छया
9
Keep
अपरिज्ञातमेनं ते धर्मराजं
त्रयोऽसु
राः ।
न प्रणेमुर्विनाशाय सामान्यमिव किङ्करम्
10
Keep
अथ वैवस्वतेनैते
ज्वलितासूग्रभूमि
षु ।
विहितभ्रूपरिस्पन्दमात्रेणैव निवेशिताः
11
Keep
तत्र ते करुणाक्रन्दाः
ससुहृद्दारबन्ध
वः ।
प्रदग्धाः पर्णविटपा वृक्षा इव वनानिलैः
12
Keep
स्वया वासनया जातास्तयैव क्रूरया
पु
नः ।
बन्धकर्मकराकाराः किराता राजकिङ्कराः
13
Keep
तज्जन्माथ परित्यज्य जाताः श्वभ्रेषु
वाय
साः ।
तदन्ते गृध्रतां यातास्ततोऽपि शुक्लतां गताः
14
Keep
सूकरत्वं त्रिगर्तेषु मेषत्वं पर्वतेषु
च ।
मगधेष्वथ कीटत्वं बभ्रुस्ते च कुबुद्धयः
15
Keep
अनुभूयेतरामन्यां चित्रां
योनिपरम्परा
म् ।
अद्य मत्स्याः स्थिता राम काश्मीरारण्यपल्वले
16
Keep
दावाग्निक्वथिताल्पाल्पपङ्ककल्पाम्बुपायि
नः ।
न म्रियन्ते न जीवन्ति जरज्जम्बालजर्जराः
17
Keep
विचित्रयोनिसंरम्भमनुभूय
पुनःपु
नः ।
भूत्वा भूत्वा पुनर्नष्टास्तरङ्गा जलधाविव
18
Keep
भवजलधिगतास्ते वासनातन्तुनुन्ना-
स्तृणमिव चिरमूढा
देहरूपैस्तरङ्
गैः ।
उपशममुपयाता राम नाद्याप्यनन्तं
परिकलय महत्त्वं दारुणं वासनायाः
Previous
←
Sarga 29
Next
Sarga 31
→