Contents
Direct Inquiry
Home
Library
Find
Gurudev
Shelf
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 23
‹
Previous
Contents
Next
›
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अथासौ वायसश्रेष्ठो जिज्ञासार्थमिदं
म
या ।
भूयः पृष्टो महाबाहो कल्पवृक्षलताग्रके
2
Keep
चरतां जगतः कोशे
व्यवहारवताम
पि ।
कथं विहगराजेन्द्र देहं मृत्युर्न बाधते
3
Keep
जानन्नपि हि सर्वज्ञ ब्रह्मञ्जिज्ञासयेव
मा
म् ।
पृच्छसि प्रभवो नित्यं भृत्यं वाचालयन्ति हि
4
Keep
तथापि यत्पृच्छसि मां तत्ते
प्रकथयाम्यह
म् ।
आज्ञाचरणमेवाहुर्मुख्यमाराधनं सताम्
5
Keep
दोषमुक्ताफलप्रोता
वासनातन्तुसंत
तिः ।
हृदि न ग्रथिता यस्य मृत्युस्तं न जिघांसति
6
Keep
निःश्वासवृक्षक्रकचाः
सर्वदेहलताघु
णाः ।
आधयो यं न भिन्दन्ति मृत्युस्तं न जिघांसति
7
Keep
शरीरतरुसर्पौघाश्चिन्तार्पितशिरःफ
णाः ।
आशा यं न दहन्त्यन्तर्मृत्युस्तं न जिघांसति
8
Keep
रागद्वेषविषापूरः
स्वमनोबिलमन्दि
रः ।
लोभव्यालो न भुङ्क्ते यं मृत्युस्तं न जिघांसति
9
Keep
पीताशेषविवेकाम्बुः
शरीराम्भोधिवाड
वः ।
न निर्दहति यं कोपस्तं मृत्युर्न जिघांसति
10
Keep
यन्त्रं तिलानां कठिनं
राशिमुग्रमिवाकुल
म् ।
यं पीडयति नानङ्गस्तं मृत्युर्न जिघांसति
11
Keep
एकस्मिन्निर्मले येन पदे
परमपाव
ने ।
संश्रिता चित्तविश्रान्तिस्तं मृत्युर्न जिघांसति
12
Keep
वपुःखण्डाभिपतितं
शाखामृगमिवोदित
म् ।
न चञ्चलं मनो यस्य तं मृत्युर्न जिघांसति
13
Keep
एते ब्रह्मन्महादोषाः
संसारव्याधिहेत
वः ।
मनागपि न लुम्पन्ति चित्तमेकं समाहितम्
14
Keep
आधिव्याधिसमुत्थानि चलितानि
महाभ्र
मेः ।
न विलुम्पन्ति दुःखानि चित्तमेकं समाहितम्
15
Keep
नास्तमेति न चोदेति न संस्मृतिर्न
विस्मृ
तिः ।
न सुप्तं न च जाग्रत्स्याच्चित्तं यस्य समाहितम्
16
Keep
अन्धीकृतहृदाकाशाः
कामकोपविकार
जाः ।
चिन्ता न परिहिंसन्ति चित्तं यस्य समाहितम्
17
Keep
न ददाति न चादत्ते न जहाति न
याच
ते ।
कुर्वदेव च कार्याणि चित्तं यस्य समाहितम्
18
Keep
ये दुरर्था दुरारम्भा दुर्गुणा
दुरुदाहृ
ताः ।
दुष्क्रमास्ते न कृन्तन्ति चित्तं यस्य समाहितम्
19
Keep
आभान्ति विपुलार्थानि महान्ति गुणवन्ति
च ।
सर्वाण्येवानुधावन्ति चित्तं यस्य समाहितम्
20
Keep
यदुदर्कहितं सत्यमनपायि
गतभ्रम
म् ।
दुरीहितदृशोन्मुक्तं तत्परं कारयेन्मनः
21
Keep
यददृष्टमशुद्धेन
चित्तवैधुर्यदायि
ना ।
अनेकत्वपिशाचेन तत्परं कारयेन्मनः
22
Keep
आदौ मध्ये तथान्ते च चिराय
परमोचित
म् ।
यच्चारु मधुरं पथ्यं तत्परं कारयेन्मनः
23
Keep
यदनन्तं मनःपथ्यं
तथ्यमाद्यन्तमध्यग
म् ।
समस्तसाधुभिर्जुष्टं तत्परं कारयेन्मनः
24
Keep
यद्बुद्धेः परमालोकमाद्यं यदमृतं
पर
म् ।
यदनुत्तमसौभाग्यं तत्परं कारयेन्मनः
25
Keep
सामरासुरगन्धर्वे
सविद्याधरकिन्न
रे ।
ससुरस्त्रीगणे स्वर्गे न किंचित्सुस्थिरं शुभम्
26
Keep
सतरौ सनराधीशे
सपर्वतपुरव्र
जे ।
साम्बुधौ भूतले तात न किंचिच्छोभनं स्थिरम्
27
Keep
सनागे सासुरव्यूहे सासुरस्त्रीगणे
त
था ।
समस्त एव पाताले न किंचिच्छोभनं स्थिरम्
28
Keep
सस्वर्गे ससुरालोके सपाताले
सदिक्त
टे ।
जगत्यस्मिंस्तु सर्वस्मिन्न किंचिच्छोभनं स्थिरम्
29
Keep
आधिव्याधिविलोलासु दुःखौघवलितासु
च ।
क्रियासुनित्यतुच्छासु न किंचित्सुस्थिरं शुभम्
30
Keep
तरलीकृतचित्तासु हृदयानन्दिनीषु
च ।
चिन्तासु धीविकारासु नकिंचित्सुस्थिरं शुभम्
31
Keep
हृत्क्षीरोदकसंस्पन्दमन्दरेषु
चलेष्व
पि ।
स्वसंकल्पविकल्पेषु न किंचित्सुस्थिरं शुभम्
32
Keep
अनारतागमापायपरास्वसिशिरास्व
पि ।
चित्राकारासु चेष्टासु न किंचित्सुस्थिरं शुभम्
33
Keep
न वरमेकमहीतलराजता
न च वरं
विबुधामररूप
ता ।
न च वरं धरणीतलनागता
स्थितिमुपैति हि यत्र सतां मनः
34
Keep
न वरमाकुलशास्त्रविचारणं
न च वरं
परकार्यविवेचन
म् ।
न वरमग्र्यकथाक्रमवर्णनं
स्थितिमुपैति हि यत्र सतां मनः
35
Keep
न वरमाधिमयं चिरजीवितं
न च वरं मरणं
दृढमूढ
ता ।
न च वरं नरको न च विष्टपं
स्थितिमुपैति हि न क्वचिदाशयः
36
Keep
इति विविधजगत्क्रमाः समस्ताः
खलु मतिमूढतया नरस्य
रम्
याः ।
चलतरकलनाहिते पदार्थे
कथमुपयान्ति चिरस्थितिं महान्तः
Previous
←
Sarga 22
Next
Sarga 24
→