Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 2.3
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
प्राणं देवा अनु प्राणन्ति ।
मनुष्याः पशवश्च ये ।
प्राणो हि भूतानामायुः ।
तस्मात् सर्वायुषमुच्यते ।
सर्वमेव त आयुर्यन्ति ।
ये प्राणं ब्रह्मोपासते ।
प्राणो हि भूतानामायुः ।
तस्मात् सर्वायुषमुच्यत इति ।
तस्यैष एव शारीर आत्मा ।
यः पूर्वस्य तस्माद्वा एतस्मात् प्राणमयात् ।
अन्योऽन्तर आत्मा मनोमयः ।
तेनैष पूर्णः ।
स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् ।
अन्वयं पुरुषविधः ।
तस्य यजुरेव शिरः ।
ऋग्दक्षिणः पक्षः ।
सामोत्तरः पक्षः ।
आदेश आत्मा ।
अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १ ॥
Previous
←
Taittirīya 2.2
Next
Taittirīya 2.4
→