Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 2.4
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
यतो वाचो निवर्तन्ते ।
अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् ।
न बिभेति कदाचनेति ।
तस्यैष एव शारीर आत्मा ।
यः पूर्वस्य तस्माद्वा एतस्मान्मनोमयात् ।
अन्योऽन्तर आत्मा विज्ञानमयः ।
तेनैष पूर्णः ।
स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् ।
अन्वयं पुरुषविधः ।
तस्य श्रद्धैव शिरः ।
ऋतं दक्षिणः पक्षः ।
सत्यमुत्तरः पक्षः ।
योग आत्मा ।
महः पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १ ॥
Previous
←
Taittirīya 2.3
Next
Taittirīya 2.5
→