Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 2.5
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
विज्ञानं यज्ञं तनुते ।
कर्माणि तनुतेऽपि च ।
विज्ञानं देवाः सर्वे ।
ब्रह्म ज्येष्ठमुपासते ।
विज्ञानं ब्रह्म चेद्वेद ।
तस्माच्चेन्न प्रमाद्यति शरीरे पाप्मनो हित्वा ।
सर्वान्कामान्समश्नुत इति ।
तस्यैष एव शारीर आत्मा ।
यः पूर्वस्य ।
तस्माद्वा एतस्माद्विज्ञानमयात् ।
अन्योऽन्तर आत्माऽऽनन्दमयः ।
तेनैष पूर्णः ।
स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् ।
अन्वयं पुरुषविधः ।
तस्य प्रियमेव शिरः ।
मोदो दक्षिणः पक्षः ।
प्रमोद उत्तरः पक्षः ।
आनन्द आत्मा ।
ब्रह्म पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १ ॥
Previous
←
Taittirīya 2.4
Next
Taittirīya 2.6
→