Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 2.6
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
असन्नेव स भवति असद्ब्रह्मेति वेद चेत् ।
ब्रह्मेति चेद्वेद ।
सन्तमेनं ततो विदुरिति ।
तस्यैष एव शारीर आत्मा ।
यः पूर्वस्य अथातोऽनुप्रश्नाः ।
उताविद्वानमुं लोकं प्रेत्य ।
कश्चन गच्छी३ ।
आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता ३ उ ।
सोऽकामयत ।
बहु स्यां प्रजायेयेति ।
स तपोऽतप्यत ।
स तपस्तप्त्वा ।
इदँ सर्वमसृजत ।
यदिदं किञ्च ।
तत्सृष्ट्वा ।
तदेवानुप्राविशत् ।
तदनुप्रविश्य ।
सच्च त्यच्चाभवत् ।
निरुक्तं चानिरुक्तं च ।
निलयनं चानिलयनं च ।
विज्ञानं चाविज्ञानं च ।
सत्यं चानृतं च ।
सत्यमभवत् ।
यदिदं किञ्च ।
तत्सत्यमित्याचक्षते ।
तदप्येष श्लोको भवति ॥ १ ॥
Previous
←
Taittirīya 2.5
Next
Taittirīya 2.7
→