Adhyātma Rāmāyaṇa · Lakṣmaṇa in Kiṣkindhā
Tap a verse for its meaning
- 1रामस्तु पर्वतस्याग्रे मणिसानौ ।सीताविरहजं शोकमसहन्निदमब्रवीत् ॥
- 2पश्य लक्ष्मण मे सीता हृता बलात् ।मृताऽमृता वा निश्चेतुं न जानेऽद्यापि ॥
- 3जीवतीति मम ब्रूयात्कश्चिद्वा स मे ।यदि जानामि तां साध्वीं जीवन्तीं यत्र कुत्र वा ॥
- 4हठादेवाहरिष्यामि पयोनिधेः ।प्रतिज्ञां शृणु मे भ्रातर्येन मे जनकात्मजा ॥
- 5नीता तं भस्मसात्कुर्यां सपुत्रबलवाहनम् ।हे सीते वसन्ती राक्षसालये ॥
- 6मामपश्यन्ती कथं प्राणान् धरिष्यसि ।चन्द्रोऽपि भानुवद्भाति मम चन्द्राननां विना ॥
- 7चन्द्र त्वं जानकीं स्पृष्ट्वा करैर्मां स्पृश शीतलैः ।सुग्रीवोऽपि दयाहीनो दुःखितं मां न पश्यति ॥
- 8राज्यं निष्कण्टकं प्राप्य स्त्रीभिः परिवृतो रहः ।कृतघ्नो दृश्यते व्यक्तं पानासक्तोऽतिकामुकः ॥
- 9नायाति शरदं पश्यन्नपि मार्गयितुं प्रियाम् ।पूर्वोपकारिणं दुष्टः कृतघ्नो विस्मृतो हि माम् ॥
- 10हन्मि सुग्रीवमप्येवं सपुरं । यथा हतो मेऽद्य सुग्रीवोऽपि तथा भवेत् ॥
- 11इति रुष्टं समालोक्य राघवं लक्ष्मणोऽब्रवीत् ।इदानीमेव गत्वाहं सुग्रीवं ॥
- 12मामाज्ञापय हत्वा तमायास्ये राम तेऽन्तिकम् ।इत्युक्त्वा धनुरादाय स्वयं तूणीरमेव च ॥
- 13गन्तुमभ्युद्यतं वीक्ष्य रामो लक्ष्मणमब्रवीत् ।न हन्तव्यस्त्वया वत्स सुग्रीवो मे ॥
- 14किन्तु सुग्रीवं वालिवत्त्वं हनिष्यसे ।इत्युक्त्वा शीघ्रमादाय ॥
- 15आगत्य पश्चाद्यत्कार्यं तत्करिष्याम्यसंशयम् ।तथेति लक्ष्मणोऽगच्छत्त्वरितो ॥
- 16किष्किन्धां प्रति कोपेन निर्दहन्निव वानरान् ।सर्वज्ञो नित्यलक्ष्मीको पि राघवः ॥
- 17सीतामनुशुशोचार्त्तः प्राकृतामिव ।बुद्ध्यादिसाक्षिणस्तस्य ॥
- 18स्य तत्कार्यं कथमुद्भवेत् ।ब्रह्मणोक्तमृतं कर्तुं राज्ञो दशरथस्य हि ॥
- 19तपसः फलदानाय जातो । सर्वे जना अज्ञानसंयुताः ॥
- 20कथमेषां भवेन्मोक्ष इति विष्णुर्विचिन्तयन् ।कथां प्रथयितुं लोके ॥
- 21रामायणाभिधां रामो भूत्वा ।क्रोधं मोहं च कामं च ॥
- 22तत्तत्कालोचितं गृह्णन् मोहयत्यवशाः प्रजाः ।अनुरक्त इवाशेषगुणेषु ॥
- 23विज्ञानमूर्तिर्विज्ञानशक्तिः साक्ष्यगुणान्वितः ।अतः कामादिभिर्नित्यमविलिप्तो यथा नभः ॥
- 24विन्दन्ति मुनयः केचिज्जानन्ति जनकादयः ।तद्भक्ता सम्यग् जानन्ति नित्यदा ।भक्तचित्तानुसारेण जायते ॥
- 25लक्ष्मणोऽपि तदा गत्वा किष्किन्धानगरान्तिकम् ।ज्याघोषमकरोत्तीव्रं सर्ववानरान् ॥
- 26तं दृष्ट्वा प्राकृतास्तत्र वानरा वप्रमूर्धनि ।चक्रुः किलकिलाशब्दं ॥
- 27तान् दृष्ट्वा क्रोधताम्राक्षो वानरान् लक्ष्मणस्तदा । कर्तुमुद्युक्तो धनुरानम्य वीर्यवान् ॥
- 28ततः शीघ्रं ज्ञात्वा लक्ष्मणमागतम् ॥
- 29निवार्य वानरान् सर्वानङ्गदो ।गत्वा लक्ष्मणसामीप्यं प्रणनाम स ॥
- 30ततोऽङ्गदं परिष्वज्य लक्ष्मणः ।उवाच वत्स गच्छ त्वं निवेदय ॥
- 31मामागतं राघवेण चोदितं ।तथेति त्वरितं गत्वा सुग्रीवाय ॥
- 32लक्ष्मणः क्रोधताम्राक्षः बहिः स्थितः ।तच्छ्रुत्वातीव सुग्रीवो वानरेश्वरः ॥
- 33आहूय मन्त्रिणां श्रेष्ठं हनूमन्तमथाब्रवीत् ।गच्छ त्वमङ्गदेनाशु लक्ष्मणं ॥
- 34कोपितं वीरं शनैरानय सादरम् ।प्रेषयित्वा हनूमन्तं तारामाह ॥
- 35त्वं गच्छ सान्त्वयन्ती तं लक्ष्मणं ।शान्तमन्तःपुरं नीत्वा पश्चाद्दर्शय मेऽनघे ॥
- 36भवत्विति ततस्तारा मध्यकक्षं समाविशत् ।हनुमानङ्गदेनैव सहितो ॥
- 37गत्वा ननाम शिरसा स्वागतमब्रवीत् ।एहि वीर महाभाग भवद्गृहमशङ्कितम् ॥
- 38प्रविश्य दृष्ट्वा सुग्रीवमेव च ।यदाज्ञापयसे पश्चात्तत्सर्वं करवाणि भोः ॥
- 39इत्युक्त्वा लक्ष्मणं भक्त्या स ।आनयामास नगरमध्याद्राजगृहं प्रति ॥
- 40पश्यंस्तत्र यूथपानां समन्ततः ।जगाम भवनं राज्ञः ॥
- 41मध्यकक्षे गता तत्र तारा ।सर्वाभरणसम्पन्ना ॥
- 42उवाच लक्ष्मणं नत्वा स्मितपूर्वाभिभाषिणी ।एहि भद्रं ते साधुस्त्वं ॥
- 43किमर्थं कोपमाकार्षीर्भक्ते भृत्ये ।बहुकालमनाश्वासं दुःखमेवानुभूतवान् ॥
- 44इदानीं बहुदुःखौघाद्भवद्भिरभिरक्षितः ।भवत्प्रसादात्सुग्रीवः प्राप्तसौख्यो महामतिः ॥
- 45कामासक्तो रघुपतेः सेवार्थं नागतो हरिः ।आगमिष्यन्ति हरयो नानादेशगताः प्रभो ॥
- 46प्रेषितो दशसाहस्रा हरयो रघुसत्तम ।आनेतुं वानरान् दिग्भ्यो ॥
- 47सुग्रीवः स्वयमागत्य सर्ववानरयूथपैः ।वधयिष्यति रावणं च हनिष्यति ॥
- 48त्वयैव सहितोऽद्यैव गन्ता ।पश्यान्तर्भवनं तत्र ॥
- 49दृष्ट्वा सुग्रीवमभयं दत्त्वा नय सहैव ते ।ताराया वचनं श्रुत्वा कृशक्रोधोऽथ लक्ष्मणः ॥
- 50जगामान्तःपुरं यत्र सुग्रीवो वानरेश्वरः । सुग्रीवः पर्यङ्के पर्यवस्थितः ॥
- 51दृष्ट्वा लक्ष्मणमत्यर्थमुत्पपातातिभीतवत् ।तं दृष्ट्वा लक्ष्मणः क्रुद्धो ॥
- 52सुग्रीवं प्राह विस्मृतोऽसि ।वाली येन हतो वीरः स बाणोऽद्य प्रतीक्षते ॥
- 53त्वमेव वालिनो मार्गं गमिष्यसि मया हतः ।एवमत्यन्तपरुषं वदन्तं लक्ष्मणं तदा ॥
- 54उवाच हनुमान् वीरः कथमेवं प्रभाषसे ।त्वत्तोऽधिकतरो रामे भक्तोऽयं ॥
- 55रामकार्यार्थमनिशं जागर्ति न तु विस्मृतः ।आगताः परितः पश्य वानराः प्रभो ॥
- 56गमिष्यन्त्यचिरेणैव सीतायाः ।साधयिष्यति सुग्रीवो रामकार्यमशेषतः ॥
- 57श्रुत्वा हनुमतो वाक्यं सौमित्रिर्लज्जितोऽभवत् ।सुग्रीवोऽप्यर्घ्यपाद्याद्यैर्लक्ष्मणं समपूजयत् ॥
- 58आलिङ्ग्य प्राह रामस्य दासोऽहं तेन रक्षितः ।रामः लोकान् क्षणार्द्धेनैव जेष्यति ॥
- 59सहायमात्रमेवाहं वानरैः सहितः प्रभो ।सौमित्रिरपि सुग्रीवं प्राह किञ्चिन्मयोदितम् ॥
- 60तत्क्षमस्व महाभाग प्रणयाद्भाषितं मया ।गच्छामोऽद्यैव सुग्रीव रामस्तिष्ठति कानने ॥
- 61एक एवातिदुःखार्त्तो भुः ।तथेति रथमारुह्य लक्ष्मणेन समन्वितः ॥
- 62वानरैः सहितो राजा राममेवान्वपद्यत ॥
- 63भेरीमृदङ्गैर्बहुऋक्षवानरैः श्वेतातपत्रैर्व्यजनैश्च शोभितः ।नीलाङ्गदाद्यैर्हनुमत्प्रधानैः समावृतो राघवमभ्यगाद्धरिः ॥