Adhyātma Rāmāyaṇa · The Search and the Ascetic in the Cave
Tap a verse for its meaning
- 1दृष्ट्वा रामं समासीनं गुहाद्वारि ।चैलाजिनधरं श्यामं ॥
- 2विशालनयनं शान्तं स्मितचारुमुखाम्बुजम् ।सीताविरहसन्तप्तं पश्यन्तं मृगपक्षिणः ॥
- 3रथाद्दूरात्समुत्पत्य वेगात्सुग्रीवलक्ष्मणौ ।रामस्य पादयोरग्रे पेततु ॥
- 4रामः सुग्रीवमालिङ्ग्य पृष्ट्वानामयमन्तिके ।स्थापयित्वा यथान्यायं पूजयामास ॥
- 5ततोऽब्रवीद्रघुश्रेष्ठं सुग्रीवो ।देव पश्य समायान्तीं वानराणां महाचमूम् ॥
- 6कुलाचलाद्रिसम्भूता मेरुमन्दरसन्निभाः ।नानाद्वीपसरिच्छैलवासिनः पर्वतोपमाः ॥
- 7असङ्ख्याताः समायान्ति हरयः ।सर्वे देवांशसम्भूताः सर्वे युद्धविशारदाः ॥
- 8अत्र केचिद्गजबलाः केचिद्दशगजोपमाः । केचिदन्येऽमितबलाः प्रभो ॥
- 9केचिदञ्जनकूटाभाः केचि ।केचिद्रक्तान्तवदना दीर्घवालास्तथापरे ॥
- 10शुद्धस्फटिकसङ्काशाः केचिद्राक्षससन्निभाः ।गर्जन्तः परितो यान्ति वानरा ॥
- 11सर्वे फलमूलाशनाः प्रभो ।ऋक्षाणामधिपो वीरो जाम्बवान्नाम बुद्धिमान् ॥
- 12एष मे मन्त्रिणां श्रेष्ठः कोटिभल्लूकवृन्दपः ।हनूमानेष विख्यातो महासत्त्वपराक्रमः ॥
- 13वायुपुत्रोऽतितेजस्वी मन्त्री बुद्धिमतां वरः ।नलो नीलश्च गवयो गवाक्षो गन्धमादनः ॥
- 14शरभो मैन्दवश्चैव गजः पनस एव च ।वलीमुखो दधिमुखः सुषेणस्तार एव च ॥
- 15केसरी च महासत्त्वः पिता हनुमतो बली ।एते ते यूथपा राम प्राधान्येन मयोदिताः ॥
- 16महात्मानो महावीर्याः ।एते प्रत्येकतः कोटिकोटिवानरयूथपाः ॥
- 17तवाज्ञाकारिणः सर्वे सर्वे देवांशसम्भवाः ।एष श्रीमानङ्गदो नाम विश्रुतः ॥
- 18वालितुल्यबलो वीरो राक्षसानां बलान्तकः ।एते चान्ये च बहवस्त्वदर्थे ॥
- 19योद्धारः पर्वताग्रैश्च निपुणाः शत्रुघातने ।आज्ञापय रघुश्रेष्ठ सर्वे ते ॥
- 20रामः सुग्रीवमालिङ्ग्य ।प्राह सुग्रीव जानासि सर्वं त्वं कार्यगौरवम् ॥
- 21मार्गणार्थं हि जानक्या नियुङ्क्ष्व यदि रोचते ।श्रुत्वा रामस्य वचनं सुग्रीवः प्रीतमानसः ॥
- 22प्रेषयामास बलिनो वानरान् ।दिक्षु सर्वासु विविधान् वानरान् प्रेष्य सत्वरम् ॥
- 23दक्षिणां दिशमत्यर्थं प्रयत्नेन महाबलान् ।युवराजं जाम्बवन्तं हनूमन्तं महाबलम् ॥
- 24नलं सुषेणं शरभं मैन्दं द्विविदमेव च ।प्रेषयामास सुग्रीवो वचनं चेदमब्रवीत् ॥
- 25विचिन्वन्तु प्रयत्नेन भवन्तो जानकीं शुभाम् ।मासादर्वाङ्निवर्तध्वं ॥
- 26सीतामदृष्ट्वा यदि वो मासादूर्ध्वं दिनं भवेत् ।तदा प्राणान्तिकं दण्डं मत्तः प्राप्स्यथ वानराः ॥
- 27इति प्रस्थाप्य सुग्रीवो वानरान् ।रामस्य पार्श्वे श्रीरामं नत्वा चोपविवेश सः ॥
- 28गच्छन्तं मारुतिं दृष्ट्वा रामो वचनमब्रवीत् ।अभिज्ञानार्थमेतन्मे ह्यङ्गुलीयकमुत्तमम् ॥
- 29मन्नामाक्षरसंयुक्तं सीतायै दीयतां रहः ।अस्मिन् कार्ये प्रमाणं हि त्वमेव कपिसत्तम ।जानामि सत्त्वं ते सर्वं गच्छ पन्थाः शुभस्तव ॥
- 30एवं कपीनां राज्ञा ते विसृष्टाः परिमार्गणे ।सीताया अङ्गदमुखा बभ्रमुस्तत्र तत्र ह ॥
- 31भ्रमन्तो विन्ध्यगहने ददृशुः पर्वतोपमम् ।राक्षसं भीषणाकारं भक्षयन्तं मृगान् गजान् ॥
- 32रावणोऽयमिति ज्ञात्वा केचिद्वानरपुङ्गवाः ।जघ्नुः किलकिलाशब्दं मुञ्चन्तो मुष्टिभिः क्षणात् ॥
- 33नायं रावण इत्युक्त्वा ययुरन्यन्महद्वनम् ।तृषार्ता सलिलं तत्र नाविन्दन् हरिपुङ्गवाः ॥
- 34विभ्रमन्तो महारण्ये ।ददृशुर्गह्वरं तत्र तृणगुल्मावृतं महत् ॥
- 35क्रौञ्चहंसान्निःसृतान् ददृशुस्ततः ।अत्रास्ते सलिलं नूनं प्रविशामो महागुहाम् ॥
- 36इत्युक्त्वा हनुमानग्रे प्रविवेश तमन्वयुः ।सर्वे परस्परं धृत्वा बाहून् बाहुभिरुत्सुकाः ॥
- 37अन्धकारे महद्दूरं गत्वापश्यन् कपीश्वराः ।जलाशयान् मणिनिभतोयान् कल्पद्रुमोपमान् ॥
- 38वृक्षान् पक्वफलैर्नम्रान् ।गृहान् सर्वगुणोपेतान् मणिवस्त्रादिपूरितान् ॥
- 39दिव्यभक्ष्यान्नसहितान् मानुषैः परिवर्जितान् ।विस्मितास्तत्र भवने दिव्ये ॥
- 40प्रभया दीप्यमानां तु ददृशुः स्त्रियमेककाम् ।ध्यायन्तीं चीरवसनां योगिनीं योगमास्थिताम् ॥
- 41प्रणेमुस्तां महाभागां भक्त्या भीत्या च वानराः ।दृष्ट्वा तान् वानरान् देवी प्राह यूयं किमागताः ॥
- 42कुतो वा कस्य दूता वा मत्स्थानं किं ।तच्छ्रुत्वा हनुमानाह शृणु वक्ष्यामि देवि ते ॥
- 43श्रीमान् राजा दशरथः प्रभुः ।तस्य पुत्रो महाभागो ज्येष्ठो राम इति श्रुतः ॥
- 44सभार्यः सानुजो वनम् ।गतस्तत्र हृता भार्या तस्य साध्वी दुरात्मना ॥
- 45रावणेन ततो रामः सुग्रीवं सानुजो ययौ ।सुग्रीवो रामस्य प्रियवल्लभाम् ॥
- 46मृगयध्वमिति प्राह ततो वयमुपागताः ।ततो वनं विचिन्वन्तो जानकीं ॥
- 47प्रविष्टा गह्वरं घोरं दैवादत्र समागताः ।त्वं वा किमर्थमत्रासि का वा त्वं वद नः शुभे ॥
- 48योगिनी च तथा दृष्ट्वा वानरान् प्राह ।यथेष्टं फलमूलानि जग्ध्वा पीत्वामृतं पयः ॥
- 49आगच्छत ततो वक्ष्ये मम वृत्तान्तमादितः ।तथेति भुक्त्वा पीत्वा च हृष्टास्ते सर्ववानराः ॥
- 50देव्याः समीपं गत्वा ते स्थिताः ।ततः प्राह हनूमन्तं योगिनी दिव्यदर्शना ॥
- 51हेमा नाम पुरा दिव्यरूपिणी ।पुत्री महेशं नृत्येन तोषयामास भामिनी ॥
- 52तुष्टो महेशः प्रददाविदं दिव्यपुरं महत् ।अत्र स्थिता सा वर्षाणामयुतायुतम् ॥
- 53तस्या अहं सखी ।नाम्ना स्वयम्प्रभा दिव्यगन्धर्वतनया पुरा ॥
- 54गच्छन्ती ब्रह्मलोकं सा मामाहेदं ।अत्रैव निवसन्ती त्वं सर्वप्राणिविवर्जिते ॥
- 55त्रेतायुगे दाशरथिर्भूत्वा ।भूभारहरणार्थाय विचरिष्यति कानने ॥
- 56मार्गन्तो वानरास्तस्य भार्यामायान्ति ते गुहाम् ।पूजयित्वाथ तान् नत्वा रामं स्तुत्वा ॥
- 57यातासि भवनं विष्णोर्योगिगम्यं सनातनम् ।इतोऽहं गन्तुमिच्छामि रामं द्रष्टुं ॥
- 58यूयं गमिष्यथ ।तथैव चक्रुस्ते वेगाद्गताः पूर्वस्थितं वनम् ॥
- 59सापि त्यक्त्वा गुहां शीघ्रं ययौ ।तत्र रामं ससुग्रीवं लक्ष्मणं च ददर्श ह ॥
- 60कृत्वा प्रदक्षिणं रामं प्रणम्य बहुशः सुधीः ।आह गद्गदया वाचा ॥
- 61दासी तवाहं दर्शनार्थमिहागता ।बहुवर्षसहस्राणि तप्तं मे ॥
- 62गुहायां दर्शनार्थं ते फलितं मेऽद्य तत्तपः ।अद्य हि त्वां नमस्यामि स्थितम् ॥
- 63सर्वभूतेषु चालक्ष्यं ।च्छन्नो मानुषविग्रहः ॥
- 64न लक्ष्यसेऽज्ञानदृशां इव रूपधृक् ।महाभागवतानां त्वं भक्तियोगविधित्सया ॥
- 65अवतीर्णोऽसि भगवन् कथं जानामि तामसी ।लोके जानातु यः कश्चित्तव तत्त्वं ॥
- 66ममैतदेव रूपं ते सदा भातु ।राम ते पादयुगलं दर्शितं ॥
- 67अदर्शनं भवार्णानां सन्मार्गपरिदर्शनम् ।धनपुत्रकलत्रादिविभूतिपरिदर्पितः ।अकिञ्चनधनं त्वाद्य नाभिधातुं जनोऽर्हति ॥
- 68ते ॥
- 69नमः गुणात्मने ।कालरूपिणमीशानमादिमध्यान्तवर्जितम् ॥
- 70समं चरन्तं सर्वत्र मन्ये त्वां ।देव ते चेष्टितं कश्चिन्न वेद ॥
- 71न तेऽस्ति कश्चिद्दयितो द्वेष्यो वाऽपर एव च ।त्वन्मायापिहितात्मानस्त्वां पश्यन्ति तथाविधम् ॥
- 72देवतिर्यङ्नरादिषु ।जन्मकर्मादिकं यद्यत्तदत्यन्तविडम्बनम् ॥
- 73त्वामाहुरक्षरं जातं कथाश्रवणसिद्धये ।केचि तपसः फलसिद्धये ॥
- 74कौसल्यया प्रार्थ्यमानं जातमाहुः परे जनाः ।दुष्टराक्षसर्थितो विभुः ॥
- 75जातोऽयमिति केचन ।शृण्वन्ति गायन्ति च ये कथास्ते ॥
- 76पश्यन्ति तव पादाब्जं भवार्णवसुतारणम् ।त्वन्मायागुणबद्धाहं व्यतिरिक्तं ॥
- 77कथं त्वां देव जानीयां स्तोतुं वाविषयं विभुम् ।नमस्यामि रघुश्रेष्ठं ।लक्ष्मणेन सह भ्रात्रा सुग्रीवादिभिरन्वितम् ॥
- 78एवं स्तुतो रघुश्रेष्ठः प्रसन्नः ।उवाच योगिनीं भक्तां किं ते मनसि काङ्क्षितम् ॥
- 79सा प्राह राघवं भक्त्या भक्तिं ते ।यत्र कुत्रापि जाताया निश्चलां देहि मे प्रभो ॥
- 80सदा सङ्गो भूयान्मे न ।जिह्वा मे रामरामेति वदतु सर्वदा ॥
- 81मानसं श्यामलं रूपं सीतालक्ष्मणसंयुतम् ।धनुर्बाणधरं पीतवाससं मुकुटोज्ज्वलम् ॥
- 82अङ्गदैर्नूपुरैर्मुक्ताहारैः ।भान्तं स्मरतु मे राम वरं नान्यं वृणे प्रभो ॥
- 83श्रीराम उवाच ।भवत्वेवं महाभागे गच्छ त्वं ।तत्रैव मां स्मरन्ती त्वं त्यक्त्वेदं भूतपञ्चकम् ।मामेव परमात्मानमचिरात्प्रतिपद्यसे ॥
- 84श्रुत्वा रघूत्तमवचोऽमृतसारकल्पंगत्वा तदैव बदरीतरुखण्डजुष्टम् ।तीर्थं तदा रघुपतिं मनसा स्मरन्तीत्यक्त्वा कलेवरमवाप परं पदं सा ॥