Adhyātma Rāmāyaṇa · The Teachings of Candramā and the Regrowth of Wings
Tap a verse for its meaning
- 1अथ ते सम्पातिं सर्ववानराः ।पप्रच्छुर्भगवन् ब्रूहि स्वमुदन्तं त्वमादितः ॥
- 2सम्पातिः कथयामास स्ववृत्तान्तं पुरा कृतम् ।अहं पुरा जटायुश्च भ्रातरौ ॥
- 3बलेन दर्पितावावां खगौ ।सूर्यमण्डलपर्यन्तं गन्तुमुत्पतितौ मदात् ॥
- 4बहुयोजनसाहस्रं गतौ तत्र प्रतापितः ।जटायुस्तं परित्रातुं पक्षैराच्छाद्य ॥
- 5स्थितोऽहं रश्मिभिर्दग्धपक्षोऽस्मिन् ।पतितो दूरपतनान्मूर्च्छितोऽहं कपीश्वराः ॥
- 6दिनत्रयात्पुनः प्राणसहितो दग्धपक्षकः ।देशं वा गिरिकूटान् वा न जाने ॥
- 7शनैरुन्मील्य नयने दृष्ट्वा तत्राश्रमं शुभम् ।शनैः शनैराश्रमस्य समीपं गतवानहम् ॥
- 8चन्द्रमा नाम दृष्ट्वा मां विस्मितोऽवदत् ।सम्पाते किमिदं तेऽद्य विरूपं केन वा कृतम् ॥
- 9जानामि त्वामहं पूर्वमत्यन्तं ।दग्धौ किमर्थं ते कथ्यतां यदि मन्यसे ॥
- 10ततः स्वचेष्टितं सर्वं कथयित्वातिदुःखितः ।अब्रवं दह्येऽहं दाववह्निना ॥
- 11कथं धारयितुं शक्तो विपक्षो जीवितं प्रभो ।इत्युक्तोऽथ मुनिर्वीक्ष्य मां ॥
- 12शृणु वत्स वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम् ।देहमूलमिदं दुःखं देहः ॥
- 13कर्म प्रवर्तते देहेऽहम्बुद्ध्या पुरुषस्य हि ।अहङ्कारस्त्वनादिः स्यादविद्यासम्भवो जडः ॥
- 14सदा युक्त सदा ।तेन देहस्य तादात्म्याद्देहश्चेतनवान् भवेत् ॥
- 15देहोऽहमिति बुद्धिः स्यादात्मनोऽहङ्कृतेर्बलात् ।तन्मूल एष सुखदुःखादिसाधकः ॥
- 16आत्मनो मिथ्या तादात्म्यतः सदा ।देहोऽहं हमिति सङ्कल्प्य सर्वदा ॥
- 17करोति कर्माणि तत्फलैर्बद्ध्यतेऽवशः ।ऊर्ध्वाधो भ्रमते नित्यं स्वयम् ॥
- 18कृतं मयाधिकं पुण्यं निश्चितम् ।स्वर्गं गत्वा सुखं भोक्ष्य इति भवेत् ॥
- 19तथैवाध्यासतस्तत्र चिरं भुक्त्वा सुखं महत् ।क्षीणपुण्यः पतत्यर्वागनिच्छन् ॥
- 20पतित्वा मण्डले चेन्दोस्ततो ।भूमौ पतित्वा व्रीह्यादौ तत्र स्थित्वा चिरं पुनः ॥
- 21भूत्वा चतुर्विधं भोज्यं पुरुषैर्भुज्यते ततः ।रेतो भूत्वा पुनस्तेन ऋतौ स्त्रीयोनिसिञ्चितः ॥
- 22संयुक्तं जरायुपरिवेष्टितम् ।दिनेनैकेन कललं भूत्वा रूढत्वमाप्नुयात् ॥
- 23तत्पुनः पञ्चरात्रेण बुद्बुदाकारतामियात् ।सप्तरात्रेण तदपि मांसपेशित्वमाप्नुयात् ॥
- 24सा पेशी रुधिरेण परिप्लुता ।तस्या एवाङ्कुरोत्पत्तिः पञ्चविंशतिरात्रिषु ॥
- 25शिरश्च स्कन्धश्च पृष्ठवंशस्तथोदरम् । चैकैकं जायन्ते मासतः क्रमात् ॥
- 26पाणिपादौ तथा पार्श्वः कटिर्जानु तथैव च । प्रजायन्ते क्रमेणैव न चान्यथा ॥
- 27त्रिभिर्मासैः प्रजायन्ते अङ्गानां क्रमात् । प्रजायन्ते क्रमान्मासचतुष्टये ॥
- 28नासा कर्णौ च नेत्रे च जायन्ते पञ्चमासतः ।दन्तपङ्क्तिर्नखा गुह्यं पञ्चमे जायते तथा ॥
- 29अर्वाक् षण्मासतश्छिद्रं कर्णयोर्भवति स्फुटम् ।पायुर्मेढ्रमुपस्थं च नाभिश्चापि भवेन्नृणाम् ॥
- 30सप्तमे मासि शिरः केशास्तथैव च ।विभक्तावयवत्वं च सर्वं सम्पद्यतेऽष्टमे ॥
- 31जठरे वर्धते स्त्रिया एवं विहङ्गम ।पञ्चमे मासि चैतन्यं जीवः प्राप्नोति सर्वशः ॥
- 32ल्परन्ध्रेण मातृभुक्तान्नसारतः ।वर्धते गर्भतः पिण्डो न म्रियेत स्वकर्मतः ॥
- 33सर्वाणि जन्मानि पूर्वकर्माणि सर्वशः ।जठरानलतप्तोऽयमिदं वचनमब्रवीत् ॥
- 34जायमानोऽनुभूतवान् ।पुत्रदारादिसम्बन्धं कोटिशः पशुबान्धवान् ॥
- 35न्यायान्यायैर्धनार्जनम् ।कृतं नाकरवं विष्णुचिन्तां स्वप्नेऽपि दुर्भगः ॥
- 36इदानीं तत्फलं भुञ्जे गर्भदुःखं महत्तरम् । शाश्वतवद्देहे तृष्णासमन्वितः ॥
- 37अकार्याण्येव कृतवान्न कृतं ।इत्येवं बहुधा दुःखमनुभूय स्वकर्मतः ॥
- 38कदा निष्क्रमणं मे स्याद्गर्भा ।इत ऊर्ध्वं नित्यमहं विष्णुमेवानुपूजये ॥
- 39इत्यादि चिन्तयन् जीवो ।जायमानोऽतिदुःखेन नरका यथा ॥
- 40पूतिव्रणान्निपतितः कृमिरेष इवापरः ।ततो बाल्यादिदुःखानि सर्व एवं विभुञ्जते ॥
- 41त्वया चैवानुभूतानि सर्वत्र विदितानि च ।न वर्णितानि मे यौवनादिषु सर्वतः ॥
- 42एवं देहोऽहमित्यस्मादभ्यासान्निरयादिकम् ।गर्भवासादिदुःखानि भवन्त्यभिनिवेशतः ॥
- 43तस्माद्देहद्वयादन्यमात्मानं प्रकृतेः परम् ।ज्ञात्वा देहादिममतां त्यक्त्वात्मज्ञानवान् भवेत् ॥
- 44जाग्रदादिविनिर्मुक्तं ।शुद्धं बुद्धं सदा शान्तमात्मानमवधारयेत् ॥
- 45चिदात्मनि परिज्ञाते नष्टे मोहेऽज्ञसम्भवे ।देहः पततु वाऽरब्ध तिष्ठतु ॥
- 46योगिनो न हि दुःखं वा सुखं वाऽज्ञानसम्भवम् ।तस्माद्देहेन सहितो याव ॥
- 47तावत्तिष्ठ सुखेन त्वं ।अन्यद्वक्ष्यामि ते पक्षिन् शृणु मे ॥
- 48त्रेतायुगे दाशरथिर्भूत्वा ।रावणस्य वधार्थाय दण्डकानागमिष्यति ॥
- 49सीतया भार्यया सार्धं ।तत्राश्रमे जनकजां भ्रातृभ्यां रहिते वने ॥
- 50रावणश्चोरवन्नीत्वा लङ्कायां स्थापयिष्यति ।तस्याः सुग्रीवनिर्देशाद्वानराः परिमार्गणे ॥
- 51आगमिष्यन्ति जलधेस्तीरं तत्र ।त्वया तैः कारणवशाद्भविष्यति न ॥
- 52तदा सीतास्थितिं तेभ्यः कथयस्व ।तदैव तव द्वावुत्पत्स्येते पुनर्नवौ ॥
- 53।बोधयामास मां चन्द्रनामा ।पश्यन्तु पक्षौ मे जातौ नूतनावतिकोमलौ ॥
- 54वोऽस्तु गमिष्यामि सीतां द्रक्ष्यथ ।यत्नं कुरुध्वं विलङ्घने ॥
- 55यन्नामस्मृतिमात्रतोऽपरिमितं संसारवारांनिधिंतीर्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्वतम् ।तस्यैव स्थितिकारिणस्त्रिजगतां रामस्य प्रियायूयं किं न समुद्रमात्रतरणे शक्ताः कथं ॥