Leave

Adhyātma Rāmāyaṇa · The Awakening of Hanūmān

Tap a verse for its meaning

  1. 1
    श्रीमहादेव उवाच ।गते विहायसा वानरपुङ्गवाः ।हर्षेण महताविष्टाः ॥
  2. 2
    ऊचुः समुद्रं पश्यन्तो ।तरङ्गादिभिरुन्नद्धमाकाशमिव ॥
  3. 3
    परस्परमवोचन् वै कथमेनं ।उवाच चाङ्गदस्तत्र शृणुध्वं ॥
  4. 4
    भवन्तोऽत्यन्तबलिनः शूराश्च ।को वात्र वारिधिं तीर्त्वा राजकार्यं करिष्यति ॥
  5. 5
    एतेषां वानराणां स न संशयः ।तदुत्तिष्ठतु मे शीघ्रं पुरतो यो ॥
  6. 6
    वानराणां च सर्वेषां रामसुग्रीवयोरपि ।स एव पालको भूयान्नात्र कार्या ॥
  7. 7
    इत्युक्ते तूष्णीं वानरसैनिकाः ।आसन्नोचुः किञ्चिदपि ॥
  8. 8
    अङ्गद उवाच ।उच्यतां वै बलं सर्वैः प्रत्येकं कार्यसिद्धये ।केन वा कार्यं जानीमस्तदनन्तरम् ॥
  9. 9
    अङ्गदस्य वचः श्रुत्वा प्रोचुर्वीरा बलं पृथक् ।योजनानां दशारभ्य दशोत्तरगुणं जगुः ॥
  10. 10
    शतादर्वा प्राह मध्ये वनौकसाम् ।पुरा पादं भूमानलक्षणम् ॥
  11. 11
    त्रिःसप्तकृत्वोऽहमगां प्रदक्षिणविधानतः ।इदानीं वार्धकग्रस्तो न शक्नोमि विलङ्घितुम् ॥
  12. 12
    अङ्गदोऽप्याह मे गन्तुं शक्यं पारं ।पुनर्लङ्घनसामर्थ्यं न जानाम्यस्ति वा न वा ॥
  13. 13
    तमाह जाम्बवान् वीरस्त्वं राजा नो ।न युक्तं त्वां नियोक्तुं मे त्वं समर्थोऽसि यद्यपि ॥
  14. 14
    अङ्गद उवाच ।एवं चेत्पूर्ववत्सर्वे स्वप्स्यामो ।केनापि न कृतं कार्यं जीवितुं च न शक्यते ॥
  15. 15
    तमाह जाम्बवान् वीरो दर्शयिष्यामि ते सुत ।येनास्माकं कार्यसिद्धिर्भविष्यत्यचिरेण च ॥
  16. 16
    इत्युक्त्वा जाम्बवान् प्राह हनूमन्तमवस्थितम् ।हनूमन् किं रहस्तूष्णीं स्थीयते ॥
  17. 17
    प्राप्तेऽज्ञेनेव सामर्थ्यं दर्शयाद्य महाबल ।त्वं साक्षाद्वायुतनयो ॥
  18. 18
    रामकार्यार्थमेव त्वं जनितोऽसि महात्मना ।जातमात्रेण ते पूर्वं दृष्ट्वोद्यन्तं ॥
  19. 19
    पक्वं फलं जिघृक्षामीत्युत्प्लुतं ।योजनानां पञ्चशतं पतितोऽसि ततो भुवि ॥
  20. 20
    अतस्त्वद्बलमाहात्म्यं को वा शक्नोति वर्णितुम् ।उत्तिष्ठ कुरु रामस्य कार्यं नः पाहि ॥
  21. 21
    श्रुत्वा जाम्बवतो वाक्यं हनूमानतिहर्षितः ।चकार नादं सिंहस्य ब्रह्माण्डं स्फोटयन्निव ॥
  22. 22
    बभूव पर्वताकारस्त्रिविक्रम इवापरः ।लङ्घयित्वा जलनिधिं कृत्वा लङ्कां च ॥
  23. 23
    रावणं सकुलं हत्वाऽऽनेष्ये ।यद्वा बद्ध्वा गले रज्ज्वा रावणं ॥
  24. 24
    लङ्कां सपर्वतां धृत्वा रामस्याग्रे क्षिपाम्यहम् ।यद्वा दृष्ट्वैव यास्यामि जानकीं ॥
  25. 25
    श्रुत्वा हनुमतो वाक्यं जाम्बवानिदमब्रवीत् ।दृष्ट्वैवागच्छ जीवन्तीं जानकीं शुभाम् ॥
  26. 26
    पश्चाद्रामेण सहितो दर्शयिष्यसि ।कल्याणं भवताद्भद्र गच्छतस्ते ॥
  27. 27
    गच्छन्तं रामकार्यार्थं वायुस्त्वामनुगच्छतु ।इत्याशीर्भिः समामन्त्र्य विसृष्टः ॥
  28. 28
    महेन्द्राद्रिशिरो गत्वा बभूवाद्भुतदर्शनः ॥
  29. 29
    महानगेन्द्रप्रतिमो महात्मा सुवर्णवर्णोऽरुणचारुवक्त्रः ।महाफणीन्द्राभसुदीर्घबाहुर्वातात्मजोऽदृश्यत सर्वभूतैः ॥