Adhyātma Rāmāyaṇa · The Fall of Indrajit
Tap a verse for its meaning
- 1श्रीमहादेव उवाच ।विभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत् ।जानामि तस्य रौद्रस्य कृत्स्नां विभीषण ॥
- 2स हि ब्रह्मास्त्रविच्छूरो मायावी च महाबलः ।जानामि लक्ष्मणस्यापि स्वरूपं मम सेवनम् ॥
- 3ज्ञात्वैवासमहं तूष्णीं भविष्यत्कार्यगौरवात् ।इत्युक्त्वा लक्ष्मणं प्राह रामो ज्ञानवतां वरः ॥
- 4गच्छ लक्ष्मण सैन्येन महता जहि ।हनूमत्प्रमुखैः सर्वै सह लक्ष्मण ॥
- 5जाम्बवानृक्षराजोऽयं सह सैन्येन संवृतः ।विभीषणश्च सह त्वामभियास्यति ॥
- 6अभिज्ञस्तस्य देशस्य जानाति सः ।रामस्य वचनं श्रुत्वा लक्ष्मणः ॥
- 7जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः ।रामपादाम्बुजं स्पृष्ट्वा हृष्टः सौमित्रिरब्रवीत् ॥
- 8अद्य मत्कार्मुकान्मुक्ताः शरा निर्भिद्य रावणिम् ।गमिष्यन्ति हि पातालं स्नातुं ॥
- 9एवमुक्त्वा स सौमित्रिः प्रणम्य तम् । ययौ त्वरितविक्रमः ॥
- 10वानरैर्बहुसाहस्रैर्हनूमान् पृष्ठतोऽन्वगात् ।विभीषणश्च सहितो मन्त्रिभिस्त्वरितं ययौ ॥
- 11जाम्बवत्प्रमुखा सौमित्रिं त्वरयान्वयुः ।गत्वा निकुम्भिलादेशं लक्ष्मणो वानरैः सह ॥
- 12अपश्यद्बलसङ्घातं दूराद्राक्षससङ्कुलम् । सौमित्रिर्यत्तोऽभूद्भूरिविक्रमः ॥
- 13अङ्गदेन च वीरेण जाम्बवान् ।तदा विभीषणः प्राह सौमित्रिं राक्षसान् ॥
- 14यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते ।अस्यानीकस्य महतो यत्नवान् भव ॥
- 15राक्षसेन्द्रसुतोऽप्यस्मिन् भिन्ने दृश्यो भविष्यति ।अभिद्रवाशु यावद्वै नैत समाप्यते ॥
- 16जही वीर दुरात्मानं हिंसापरमधार्मिकम् ।विभीषणवचः श्रुत्वा लक्ष्मणः ॥
- 17ववर्ष राक्षसेन्द्रसुतं प्रति ।पाषाणैः पर्वताग्रैश्च वृक्षैश्च ॥
- 18निर्जघ्नुः सर्वतो दैत्यांस्तेऽपि वानरयूथपान् । शितैर्बाणैरसिभिर्यष्टितोमरैः ॥
- 19निर्जघ्नुर्वानरानीकं तदा शब्दो महानभूत् ।स सम्प्रहार सञ्जज्ञे हरिरक्षसाम् ॥
- 20इन्द्रजित्स्वबलं सर्वमर्द्यमानं विलोक्य सः ।निकुम्भिलां च होमं च त्यक्त्वा शीघ्रं विनिर्गतः ॥
- 21सधनुः क्रोधेन महतागमत् ।समाह्वयन् स सौमित्रिं युद्धाय ॥
- 22सौमित्रे मेघनादोऽहं मया जीवन्न मोक्ष्यसे ।तत्र दृष्ट्वा पितृव्यं स प्राह निष्ठुरभाषणम् ॥
- 23इहैव जातः संवृद्धः साक्षाद् भ्राता पितुर्मम ।यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥
- 24कथं द्रुह्यसि पुत्राय पापीयानसि ।इत्युक्त्वा लक्ष्मणं दृष्ट्वा हनूमत्पृष्ठतः स्थितम् ॥
- 25उद्यदायुध रथे महति संस्थितः ।महाप्रमाणमुद्यम्य घोरं धनुः ॥
- 26अद्य वो मामका बाणाः प्राणान् पास्यन्ति वानराः ।ततः शरं सन्धायामित्रकर्षणः ॥
- 27ससर्ज राक्षसेन्द्राय क्रुद्धः श्वसन् ।इन्द्रजिद्रक्तनयनो लक्ष्मणं समुदैक्षत ॥
- 28शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः ।मुहूर्तमभव पुनः प्रत्याहृतेन्द्रियः ॥
- 29ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ।सोऽभिचक्राम सौमित्रिं ॥
- 30शरान् सन्धाय लक्ष्मणं चेदमब्रवीत् ।यदि ते प्रथमे युद्धे न दृष्टो मे ॥
- 31अद्य त्वां तिष्ठेदानीं व्यवस्थितः ।इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् ॥
- 32दशभिश्च तीक्ष्णधारैः शरोत्तमैः ।ततः शरशतेनैव सम्प्रयुक्तेन वीर्यवान् ॥
- 33क्रोधद्विगुणसंरब्धो निर्बिभेद विभीषणम् ।लक्ष्मणोऽपि तथा शत्रुं शरवर्षैरवाकिरत् ॥
- 34तस्य बाणैः सुसंविद्धं कवचं काञ्चनप्रभम् ।व्यशीर्यत रथोपस्थे पतितं भुवि ॥
- 35ततः सङ्क्रुद्धो रावणात्मजः ।बिभेद समरे वीरं लक्ष्मणं ॥
- 36व्यशीर्यतापतद्दिव्यं कवचं लक्ष्मणस्य च ।कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥
- 37अभीक्ष्णं तौ युध्येतां तुमुलं पुनः ।शरसंवृतसर्वाङ्गौ सर्वतो ॥
- 38सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः ।अयुध्येतां ॥
- 39एतस्मिन्नन्तरे वीरो लक्ष्मणः पञ्चभिः शरैः ।रावणेः सारथिं साश्वं रथं च ॥
- 40चिच्छेद कार्मुकं तस्य दर्शयन् ।सोऽन्यत्तु कार्मुकं भद्रं सज्यं चक्रे त्वरान्वितः ॥
- 41तच्चापमपि चिच्छेद लक्ष्मणस्त्रिभिराशुगैः ।तमेव छिन्नधन्वानं विव्याधानेकसायकैः ॥
- 42पुनरन्यत्समादाय कार्मुकं ।इन्द्रजिल्लक्ष्मणं बाणैः शितैरादित्यसन्निभैः ॥
- 43बिभेद वानरान् सर्वान् बाणैरापूरयन् दिशः ।तत ऐन्द्रं समादाय लक्ष्मणो रावणिं प्रति ॥
- 44सन्धायाकृष्य कर्णान्तं कार्मुकं दृढनिष्ठुरम् ।उवाच लक्ष्मणो वीरः स्मरन् ॥
- 45सत्यसन्धश्च रामो दाशरथिर्यदि ।त्रिलोक्यामप्रतिद्वन्द्वस्तदेनं जहि रावणिम् ॥
- 46इत्युक्त्वा बाणमाकर्णाद्विकृष्य तमजिम्हगम् ।लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ॥
- 47स शरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ।प्रमथ्येन्द्रजितः कायात्पातयामास ॥
- 48ततः प्रमुदिता देवाः कीर्तयन्तो रघूत्तमम् ।ववर्षुः स्तुवन्तश्च मुहुर्मुहुः ॥
- 49जहर्ष शक्रो भगवान् सह देवैर्महर्षिभिः ।आकाशेऽपि च देवानां शुश्रुवे ॥
- 50विमलं गगनं चासीत्स्थिराभू ।निहतं रावणिं दृष्ट्वा जयजल्पसमन्वितः ॥
- 51स शङ्खमापूरयद्रणे ।सिंहनादं ततः कृत्वा ज्याशब्दमकरोद्विभुः ॥
- 52तेन नादेन संहृष्टा वानराश्च गतश्रमाः ।वानरेन्द्रैश्च सहितः स्तुवद्भिर्हृष्टमानसैः ॥
- 53लक्ष्मणः ददर्शाभ्येत्य ।हनूमद्राक्षसाभ्यां च सहितो विनयान्वितः ॥
- 54ववन्दे भ्रातरं रामं ज्येष्ठं नारायणं विभुम् ।त्वत्प्रसादाद्रघुश्रेष्ठ हतो रावणिराहवे ॥
- 55श्रुत्वा तल्लक्ष्मणा तमालिङ्ग्य रघूत्तमः । मुदितः सस्नेहमिदमब्रवीत् ॥
- 56साधु लक्ष्मण तुष्टोऽस्मि कर्म ते दुष्करं कृतम् ।मेघनादस्य निधने जितं सर्वमरिन्दम ॥
- 57अहोरात्रैस्त्रिभिर्वीरः कथञ्चि । कृतोऽस्म्यद्य निर्यास्यति हि रावणः ॥
- 58पुत्रशोकान्मया योद्धुं तं रावणम् ॥
- 59मेघनादं हतं श्रुत्वा लक्ष्मणेन महाबलम् ।रावणः पतितो भुमौ पुनरुत्थितः ।तिदीनात्मा पुत्रशोकेन रावणः ॥
- 60पुत्रस्य संस्मरन् पर्यदेवयत् ।अद्य देवगणाः सर्वे लोकपाला महर्षयः ॥
- 61हतमिन्द्रजितं ज्ञात्वा सुखं स्वप्स्यन्ति निर्भयाः ।इत्यादि बहुशः पुत्रलालसो विललाप ह ॥
- 62ततः परमसङ्क्रुद्धो रावणो ।उवाच राक्षसान् सर्वान्निनाशयिषुराहवे ॥
- 63स शूरः ।संवीक्ष्य रावणो बुद्ध्या हन्तुं सीतां प्रदुद्रुवे ॥
- 64खड्गपाणिमथायान्तं क्रुद्धं दृष्ट्वा ।राक्षसीमध्यगा सीता भयशोकाकुलाभवत् ॥
- 65एतस्मिन्नन्तरे तस्य सचिवो बुद्धिमान् शुचिः ।सुपार्श्वो नाम मेधावी रावणं वाक्यमब्रवीत् ॥
- 66ननु नाम साक्षा ।वेदविद्याव्रतस्नातः स्वकर्मपरिनिष्ठितः ॥
- 67अनेकगुणसम्पन्नः कथं स्त्रीवधमिच्छसि ।अस्माभिः सहितो युद्धे हत्वा रामं च लक्ष्मणम् ।प्राप्स्यसे जानकीं शीघ्रमित्युक्तः स न्यवर्तत ॥
- 68ततो सुहृदा निवेदितंवचः सुधर्म्यं प्रतिगृह्य रावणः ।गृहं जगामाशु शुचा विमूढधीःपुनः सभां च प्रययौ सुहृद्वृतः ॥