Adhyātma Rāmāyaṇa · The Consecration of Rāma
Tap a verse for its meaning
- 1श्रीमहादेव उवाच ।ततस्तु कैकयीपुत्रो भरतो ।शिरस्यञ्जलिमाधाय ज्येष्ठं भ्रातरमब्रवीत् ॥
- 2माता मे राम दत्तं राज्यं त्वया मम ।ददामि तत्ते च पुनर्यथा त्वमददा मम ॥
- 3इत्युक्त्वा पादयोर्भक्त्या साष्टाङ्गं च ।बहुधा प्रार्थयामास कैकेय्या गुरुणा सह ॥
- 4तथेति प्रतिजग्राह भरताद्राज्यमीश्वरः ।मायामाश्रित्य सकलां नरचेष्टामुपागतः ॥
- 5स्वाराज्यानुभवो यस्य ।निरस्तातिशयानन्दरूपिणः ॥
- 6मानुषेण तु राज्येन किं तस्य ।यस्य भ्रूभङ्गमात्रेण नश्यति क्षणात् ॥
- 7यस्यानुग्रहमात्रेण भवन्त्याखण्डलश्रियः ।लीलासृष्टमहासृष्टेः कियदेत ॥
- 8तथापि भजतां नित्यं कामपूरविधित्सया । सर्वमप्यनुवर्तते ॥
- 9ततः शत्रुघ्नवचनान्निपुणः सम्भाराश्चाभिषेकार्थमानीता राघवस्य हि ॥
- 10पूर्वं तु भरते लक्ष्मणे च ।सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥
- 11स्नातश्चित्रमाल्यानुलेपनः ।महार्हवसनोपेतस्तस्थौ तत्र ॥
- 12च रामस्य लक्ष्मणश्च महामतिः ।कारयामास भरतः सीताया ॥
- 13महार्हवस्त्राभरणैरलञ्चक्रुः सुमध्यमाम् ।ततो सर्वासामेव शोभना ॥
- 14अकारयत कौसल्या प्रहृष्टा ।ततः स्यन्दनमादाय शत्रुघ्नवचनात्सुधीः ॥
- 15सुमन्त्रः सूर्यसङ्काशं योजयित्वाग्रतः स्थितः ।आरुरोह रथं रामः ॥
- 16सुग्रीवो युवराजश्च हनुमांश्च विभीषणः ।स्नात्वा दिव्याम्बरधरा दिव्याभरणभूषिताः ॥
- 17राममन्वीयुरग्रे च ।सुग्रीवपत्न्यः सीता च ययुर्यानैः पुरं महत् ॥
- 18वज्रपाणिर्यथा देवैर्हरिताश्वरथे स्थितः ।प्रययौ रथमास्थाय तथा रामो महत्पुरम् ॥
- 19सारथ्यं भरतश्चक्रे रत्नदण्डं महाद्युतिः ।श्वेतातपत्रं शत्रुघ्नो लक्ष्मणो व्यजनं दधे ॥
- 20चामरं च समीपस्थो न्यवीजयदरिन्दमः ।शशिप्रकाशं त्वपरं जग्राहासुरनायकः ॥
- 21दिविजैः सिद्धसङ्घैश्च ऋषिभिर्दिव्यदर्शनैः । रामस्य शुश्रुवे ॥
- 22मानुषं रूपमास्थाय वानरा गजवाहनाः ।भेरीशङ्खनिनादैश्च मृदङ्गपणवानकैः ॥
- 23प्रययौ राघवश्रेष्ठस्तां पुरीं समलङ्कृताम् ।ददृशुस्ते समायान्तं राघवं ॥
- 24दूर्वादलश्यामतनुं महार्ह-किरीटरत्नाभरणाञ्चिताङ्गम् ।दृष्ट्वा ययुर्मोदमतीव पुण्याः ॥
- 25विचित्ररत्नाञ्चितसूत्रनद्ध-पीताम्बरं पीनभुजान्तरालम् ।अनर्घ्यमुक्ताफलदिव्यहारैःविरोचमानं रघुनन्दनं प्रजाः ॥
- 26सुग्रीवमुख्यैर्हरिभिः प्रशान्तैःनिषेव्यमाणं ।कस्तूरिकाचन्दनलिप्तगात्रंनिवीतकल्पद्रुमपुष्पमालम् ॥
- 27श्रुत्वा स्त्रियो राममुपागतं मुदा ।अपास्य सर्वं गृहकार्यमाहितं चैवारुरुहुः स्वलङ्कृताः ॥
- 28दृष्ट्वा हरिं सर्वदृगुत्सवाकृतिंपुष्पैः किरन्त्यः स्मितशोभिताननाः ।दृग्भिः पुनर्नेत्रमनोरसायनंस्वानन्दमूर्तिं मनसाभिरेभिरे ॥
- 29रामः स्मितस्निग्धदृशा प्रजास्तथापश्यन् प्रजानाथ इवापरः प्रभुः ।शनैर्जगामाथ पितुः स्वलङ्कृतंगृहं हरिः ॥
- 30प्रविश्य संस्थितो मुदारामो ववन्दे चरणौ स्वमातुः ।क्रमेण सर्वाः पितृयोषितः प्रभुःननाम भक्त्या ॥
- 31ततो भरतमाहेदं रामः ।सर्वसम्पत्समायुक्तं मम मन्दिरमुत्तमम् ॥
- 32वानरेन्द्राय सुग्रीवाय प्रदीयताम् ।सर्वेभ्यः सुखवासार्थं मन्दिराणि प्रकल्पय ॥
- 33रामेणैवं समादिष्टो भरतश्च तथाकरोत् ।उवाच च महातेजाः सुग्रीवं ॥
- 34राघवस्याभिषेकार्थं चतुःसिन्धुजलं शुभम् ।आनेतुं प्रेषयस्वाशु दूतांस्त्वरितविक्रमान् ॥
- 35प्रेषयामास सुग्रीवो जाम्बवन्तं ।अङ्गदं च सुषेणं च ते गत्वा ॥
- 36जलपूर्णान् शातकुम्भकलशांश्च समानयन् ।आनीतं तीर्थसलिलं शत्रुघ्नो मन्त्रिभिः सह ॥
- 37राघवस्याभिषेकार्थं न्यवेदयत् ।ततस्तु प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ॥
- 38रामं ससीतं संन्यवेशयत् ।वसिष्ठो वामदेवश्च जाबालिर्गौतमस्तथा ॥
- 39वाल्मीकिश्च तथा चक्रुः सर्वे रामाभिषेचनम् ।पुण्यगन्धजलैर्मुदा ॥
- 40अभ्यषिञ्चन् रघुश्रेष्ठं वासवं वसवो यथा ।ऋत्विग्भिर्ब्राह्मणैः श्रेष्ठैः कन्याभिः सह मन्त्रिभिः ॥
- 41सर्वौषधिरसैश्चैव दैवतैर्नभसि स्थितैः ।चतुर्भिर्लोकपालैश्च स्तुवद्भिः सगणैस्तथा ॥
- 42छत्रं च तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम् ।सुग्रीवराक्षसेन्द्रौ तौ दधतुः ॥
- 43मालां च काञ्चनीं वायुर्ददौ ।सर्वरत्नसमायुक्तं मणिकाञ्चनभूषितम् ॥
- 44ददौ हारं स्वयं शक्रस्तु भक्तितः ।प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥
- 45देवदुन्दुभयो नेदुः पपात खात् ।नवदूर्वादलश्यामं पद्मपत्रायतेक्षणम् ॥
- 46किरीटेन विराजितम् ।कोटिकन्दर्पलावण्यं पीताम्बरसमावृतम् ॥
- 47दिव्याभरणसम्पन्नं दिव्यचन्दनलेपनम् ।अयुतादित्यसङ्काशं द्विभुजं ॥
- 48समासीनां सीतां ।सर्वाभरणसम्पन्नां वामाङ्के समुपस्थिताम् ॥
- 49रक्तोत्पलकराम्भोजां वामेनालिङ्ग्य संस्थितम् ।सर्वातिशयशोभाढ्यं दृष्ट्वा ॥
- 50उमया सहितो देवः शङ्करो रघुनन्दनम् ।सर्वदेवगणैर्युक्तः स्तोतुं समुपचक्रमे ॥
- 51श्रीमहादेव उवाच ।नमोऽस्तु रामाय ।किरीटहाराङ्गदभूषणाय महाप्रभाय ॥
- 52त्वमादिमध्यान्तविहीन एकःसृजस्यवस्यत्सि च लोकजातम् । तेन न लिप्यसे त्वंयत्स्वे सुखेऽजस्ररतोऽनवद्यः ॥
- 53लीलां विधत्से गुणसंवृतस्त्वं ।नानावतारैः सुरमानुषाद्यैःप्रतीयसे ज्ञानिभिरेव नित्यम् ॥
- 54लोकं सकलं विधाय तंबिभर्षि च त्वं तदधः ।उपर्यधो भान्वनिलोडुपौषधि-प्रवर्षरूपोऽवसि नैकधा जगत् ॥
- 55त्वमिह देहभृतां भुक्तमशेषमजस्रम् ।पवनपञ्चकरूपसहायोजगदखण्डमनेन बिभर्षि ॥
- 56चन्द्रसूर्यशिखिमध्यगतं यत्तेज ईश चिदशेषतनूनाम् ।प्राभवत्तनुभृतामिव धैर्यंशौर्यमायुरखिलं तव ॥
- 57त्वं कालकर्मशशिसूर्यविभागात् ।वादिनां पृथगिवेश विभासि निश्चितमनन्यदिहैकम् ॥
- 58यथा त्वमेकः पुराणेषु च लोकसिद्धः ।तथैव सर्वं सदसद्विभाग-स्त्वमेव नान्यद्भवतो विभाति ॥
- 59यद्यत्समुत्पन्नमनन्तसृष्टा-वुत्पत्स्यते यच्च भवच्च यच्च ।न दृश्यते त्वया विनातःपरतः परस्त्वम् ॥
- 60तत्त्वं न जानन्ति परात्मनस्तेजनाः समस्तास्तव तः ।त्वद्भक्तसेवाऽमलमानसानांविभाति तत्त्वं परमेकमैशम् ॥
- 61ब्रह्मादयस्ते न विदुः स्वरूपंचिदात्मतत्त्वं ।ततो बुधस्त्वामिदमेव रूपंभक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥
- 62अहं भवन्नाम गृणन् कृतार्थोवसामि काश्यामनिशं भवान्या ।मुमूर्षमाणस्य विमुक्तयेऽहंदिशामि मन्त्रं तव राम नाम ॥
- 63इमं स्तवं नित्यमनन्यभक्त्याशृण्वन्ति गायन्ति लिखन्ति ये वै ।ते सर्वसौख्यं परमं च लब्ध्वाभवत्पदं यान्तु भवत्प्रसादात् ॥
- 64इन्द्र उवाच ।खिलदेव सौख्यंहृतं च मे देव ।पुनश्च सर्वं भवतः प्राप्तं हतो राक्षसदुष्टशत्रुः ॥
- 65देवा ऊचुःहृता यज्ञभागा धरादेवदत्ता खलेनादिदैत्येन विष्णो ।हतोऽद्य त्वया नो भागाःपुरावद्भविष्यन्ति युष्मत्प्रसादात् ॥
- 66हतोऽद्य त्वया दुष्टदैत्यो महात्मन्गयादौ नरैर्दत्तपिण्डादिकान्नः ।बलादत्ति हत्वा गृहीत्वा समस्ता-निदानीं पुन भवामः ॥
- 67यक्षा ऊचुःसदा विष्टिकर्मण्यनेनाभियुक्तावहामो दशास्यं बलाद्दुःखयुक्ताः ।दुरात्मा हतो रावणो त्वया ते वयं दुःखजाताद्विमुक्ताः ॥
- 68गन्धर्वा ऊचुःवयं सङ्गीतनिपुणा गायन्तस्ते । पूर्णाः स्थिताः पुरा ॥
- 69पश्चा राम रावणेनाभिविद्रुताः ।तमेव गायमानाश्च ॥
- 70स्थितास्त्वया परित्राता हतोऽयं ।एवं सिद्धाः किन्नरा मरुतस्तथा ॥
- 71वसवो मुनयो गावो गुह्यकाश्च ।सप्रजापतयश्चैते तथा चाप्सरसां गणाः ॥
- 72सर्वे रामं समासाद्य दृष्ट्वा । पृथक् पृथक् सर्वे राघवेणाभिवन्दिताः ॥
- 73ययुः स्वं स्वं पदं सर्वे ब्रह्मरुद्रादयस्तथा ।प्रशंसन्तो मुदा रामं गायन्तस्तस्य ॥
- 74ध्यायन्तस्त्वभिषेकार्द्रं ।सिंहासनस्थं राजेन्द्रं ययुः सर्वे ॥
- 75खे वाद्येषु ध्वनत्सु प्रमुदितहृदयैर्देववृन्दैः स्तुवद्भिःवर्षद्भिःपुष्पवृष्टिं दिवि मुनिनिकरैरीड्यमानः समन्तात् ।रामः श्यामः सीतासौमित्रिवातात्मजमुनिहरिभिः सेव्यमानो विभाति ॥