p. 214
हितं गुहायां विभ्राजते यद्यतयो विशन्ति ।वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ।ते ब्रह्मलोकेषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे’ इति ।तथा च बृहदारण्यके सर्वकर्मसन्न्यासं दर्शयति—‘एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इति ।तथा च भगवान्वासुदेवः सर्वकर्मसन्न्यासं दर्शयति—‘निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः’ इति ।तथा चानुगीतासु कर्मणि प्रयोजनाभावं दर्शयति भगवान्—‘नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी ।यः स्यादेकासने लीनस्तूष्णीं किञ्चिदचिन्तयन्’ इति ।‘प्रवृत्ति
In plain words
That supreme truth shines radiantly within the hidden cave of the heart, which self-controlled ascetics attain—those whose convictions are firmly anchored in the direct realization of Upanishadic wisdom, whose inner natures are purified through the practice of renunciation, and who, at the time of final dissolution, are completely liberated into the deathless reality. Thus the Bṛhadāraṇyaka Upanishad also reveals the total renunciation of all action: 'Knowing this very Self, the knowers of Brahman rise above the desire for sons, wealth, and worlds, and wander forth as mendicants.' And Lord Vasudeva likewise demonstrates this total renunciation: 'Free from desires, with a subdued mind and self, having relinquished all possessions, performing mere bodily action, one incurs no taint...'
Close to the Sanskrit
Hitam guhāyām vibhrājate yad yatayaḥ viśanti vedāntavijñānasunिश्चितārthāḥ sannyāsayogādyatayaḥ śuddhasattvāḥ te brahmalokeṣu parāntakāle parāmṛtāt parimucyanti sarve iti. Tathā ca bṛhadāraṇyake sarvakarmasannyāsaṁ darśayati—etaṁ vai tam ātmānaṁ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṁ caranti iti. Tathā ca bhagavān vāsudevaḥ sarvakarmasannyāsaṁ darśayati—nirāśīryatacittātmā tyaktasarvaparigrahaḥ śārīraṁ kevalaṁ karma kurvannāpnoti kilbiṣam...