p. 215
लक्षणो योगो ज्ञानं सन्न्यासलक्षणम् ।तस्माज्ज्ञानं पुरस्कृत्य सन्न्यसेदिह बुद्धिमान्’ इति ।तथा च शान्तिपर्वणि शुकं प्रत्युपदिष्टवान्भगवान्व्यासः—‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥एषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् ।एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः ॥प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम् ।तद्भावानेवमभ्यस्य वर्ततां श्रूयतां तथा’ इति ।तथा च सर्वकर्मसन्न्यासं दर्शयति भगवान्नारदः—‘सन्न्यस्य सर्वकर्माणि सन्न्यस्य विपुलं तपः ।सन्न्यस्य विविधा विद्याः सर्वं सन्न्यस्य चैव हि ॥शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशः ।पिण्डमात्रमुपाश्रित्य चरितुं सर्वतोदिशम् ॥हित्वा गुणमयं पाशं कर्म हित्वा शुभाशुभम् ।उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥परिग्रहं परित्यज्य भव तात जितेन्द्रियः ।अशोकस्थानमातिष्ठ इह चामुत्र चाभयम्’ इति ।तथा च सर्वकर्मसन्न्यासिन एव ज्ञाने अधिकारः नेतरस्येत्याह भगवान्बृहस्पतिः—‘प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतः सुखी ।रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानमाप्नुयात्’ इति ।तथा चाश्वमेधिके ब्रह्मणा सम्यगुक्तं मुनीन्प्रति सर्वाश्रमिणां सर्वकर्मसन्न्यासे अधिकार इति—‘गृहस्थो ब्रह्म
In plain words
Yoga is characterized by knowledge, and knowledge is essentially marked by renunciation. Therefore, a wise person, making knowledge primary, should formally renounce the world right here. And similarly, in the Shanti Parva, Lord Vyasa instructed Sage Shuka: 'The living creature is bound by action and liberated by knowledge. Therefore, ascetics who have reached the further shore do not perform actions.' This is the path ordained of old by Brahma himself and honored by ancient sages. Furthermore, Lord Narada demonstrates the total renunciation of all action: 'Having renounced all actions, having renounced vast penances, having renounced manifold knowledges and everything else...'
Close to the Sanskrit
Lakṣaṇo yogo jñānaṁ sannyāsalakṣam. Tasmāj jñānaṁ puraskṛtya sannyasediha buddhimān iti. Tathā ca śāntiparvaṇi śukaṁ pratyupadiṣṭavān bhagavān vyāsaḥ—karmaṇā badhyate janturvidyayā ca vimucyate. Tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ... Tathā ca sarvakarmasannyāsaṁ darśayati bhagavān nāradaḥ—sannyasya sarvakarmāṇi sannyasya vipulaṁ tapaḥ...