Leave

Adhyātma Rāmāyaṇa · The Meeting with Paraśurāma

Tap a verse for its meaning

  1. 1
    अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम् ।निमित्तान्यतिघोराणि ददर्श ॥
  2. 2
    नत्वा वसिष्ठं पप्रच्छ किमिदं ।निमित्तानीह दृश्यन्ते समन्ततः ॥
  3. 3
    वसिष्ठस्तमथ प्राह भयमागामि सूच्यते ।पुनरप्यभयं तेऽद्य शीघ्रमेव भविष्यति ॥
  4. 4
    मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः ।इत्येवं वदतस्तस्य ववौ घोरतरोऽनिलः ॥
  5. 5
    मुष्णन्श्चक्षूंषि सर्वेषां भिरर्दयन् ।ततो व्रजन् ददर्शाग्रे तेजोराशिमुपस्थितम् ॥
  6. 6
    कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् ।तेजोराशिं ददर्शाथ जामदग्न्यं प्रतापवान् ॥
  7. 7
    नीलमेघनिभं प्रांशुं मण्डितम् ।धनुः परशुपाणिं च साक्षात्कालमिवान्तकम् ॥
  8. 8
    कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् ।प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् ॥
  9. 9
    तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा ।अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् ॥
  10. 10
    ह पुत्रप्राणं प्रयच्छ मे ।इति ब्रुवन्तं राजानमनादृत्य ॥
  11. 11
    उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः ।त्वं राम इति नाम्ना मे चरसि ॥
  12. 12
    द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै ।पुराणं जर्जरं चापं भङ्क्त्वा त्वं कत्थसे मुधा ॥
  13. 13
    अस्मिन्स्तु आरोपयसि चेद्गुणम् ।तदा युद्धं त्वया सार्धं करोमि ॥
  14. 14
    नो चेत्सर्वान् हनिष्यामि क्षत्रियान्तकरो ह्यहम् ।इति ब्रुवति वै तस्मि भृशम् ॥
  15. 15
    अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् ।रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा ॥
  16. 16
    तद्धस्तादारोप्य गुणमञ्जसा ।तूणीराद्बाणमादाय सन्धायाकृष्य वीर्यवान् ॥
  17. 17
    उवाच भार्गवं रामं शृणु ब्रह्मन् वचो मम ।लक्ष्यं दर्शय बाणस्य ह्यमोघो मम ॥
  18. 18
    लोकान् पादयुगं वापि वद शीघ्रं ।अयं लोकः परो वाथ त्वया गन्तुं न शक्यते ॥
  19. 19
    एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया ।एवं वदति श्रीरामे भार्गवो ॥
  20. 20
    संस्मरन् पूर्ववृत्तान्तमिदं वचनमब्रवीत् ।राम राम महाबाहो जाने त्वां ॥
  21. 21
    पुराणपुरुषं विष्णुं ।बाल्येऽहं तपसा विष्णुमाराधयितुमञ्जसा ॥
  22. 22
    चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् ।अतोषयं महात्मानं नारायणमनन्यधीः ॥
  23. 23
    ततः प्रसन्नो देवेशः ।उवाच मां रघुश्रेष्ठ ॥
  24. 24
    श्रीभगवानुवाचउत्तिष्ठ तपसो ब्रह्मन् फलितं ते तपो महत् । युक्तस्त्वं जहि हैहयपुङ्गवम् ॥
  25. 25
    कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः ।ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्षत्रियमण्डलम् ॥
  26. 26
    कृत्स्नां भूमिं शान्तिमुपावह ।त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्ययः ॥
  27. 27
    उत्पत्स्ये तदा द्रक्ष्यसि मां ततः । पुनरादास्ये त्वयि दत्तं मया पुरा ॥
  28. 28
    तदा तपश्चरन्ल्लोके तिष्ठ त्वं ।इत्युक्त्वान्तर्दधे देवस्तथा सर्वं कृतं मया ॥
  29. 29
    स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः ।मयि स्थितं तु त्वत्तेजस्त्वयैव ॥
  30. 30
    अद्य मे प्रतीतोऽसि मम प्रभो ।ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः ॥
  31. 31
    त्वयि जन्मादिषड्भावा न सन्त्यज्ञानसम्भवाः ।निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः ॥
  32. 32
    यथा जले फेनजालं धूमो वह्नौ तथा त्वयि ।त्वदाधारा त्वद्विषया कार्यं सृजत्यहो ॥
  33. 33
    यावन्मायावृता लोकास्तावत्त्वां न विजानते ।अविचारितसिद्धैषाऽविद्या विद्याविरोधिनी ॥
  34. 34
    अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता ।चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते ॥
  35. 35
    यावद्देहमनःप्राणबुद्ध्यादिष्वभिमानवान् ।तावसुखदुःखादिभाग्भवेत् ॥
  36. 36
    आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति ।अविवेकाद्द्वयं युङ्क्त्वा संसारीति प्रवर्तते ॥
  37. 37
    चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा ।जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा ॥
  38. 38
    यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति ।तावत्संसारदुःखौघान्न निवर्तेन्नरः सदा ॥
  39. 39
    तत्सङ्गलब्धया यदा त्वां समुपासते ।तदा माया शनैर्याति तानवं प्रतिपद्यते ॥
  40. 40
    ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते ।वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद्विमुच्यते ॥
  41. 41
    तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि ।न विज्ञानशङ्का नैव सुखं तथा ॥
  42. 42
    अतस्त्व भक्तिर्मे जन्मजन्मनि ।स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या याभ्यां विनश्यति ॥
  43. 43
    लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः ।पुनन्ति लोकमखिलं किं पुनः ॥
  44. 44
    नमोऽस्तु नमस्ते भक्तिभावन ।नमः रामचन्द्र नमोऽस्तु ते ॥
  45. 45
    देव यद्यत्कृतं पुण्यं मया ।तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते ॥
  46. 46
    ततः प्रसन्नो भगवान् श्रीरामः । तव ब्रह्मन् यत्ते मनसि वर्तते ॥
  47. 47
    दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् ।ततः भार्गवो राममब्रवीत् ॥
  48. 48
    यदि मेऽनुग्रहो राम तवास्ति ।त्वद्भक्तसङ्गस्त्वत्पादे सदास्तु मे ॥
  49. 49
    स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा ।त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव ॥
  50. 50
    तथेति राघवेणोक्तः प्रणम्य तम् ।पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् ॥
  51. 51
    राजा दशरथो हृष्टो रामं मृतमिवागतम् । हर्षेण नेत्राभ्यां जलमुत्सृजत् ॥
  52. 52
    ततः प्रीतेन मनसा पुरं ययौ ।रामलक्ष्मणशत्रुघ्नभरता ॥
  53. 53
    स्वां स्वां भार्यामुपादाय रेमिरे स्वस्वमन्दिरे ।मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः ।रेमे श्रिया सह यथा ॥
  54. 54
    युधाजिन्नाम कैकेयीभ्राता भरत ।भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः ॥
  55. 55
    प्रेषयामास भरतं राजा ।शत्रुघ्नं चापि युधाजितमरिन्दमः ॥
  56. 56
    कौसल्या शुशुभे देवी रामेण सह सीतया ।देवमातेव पौलोम्या शक्रेण शोभना ॥
  57. 57
    साकेते लोकनाथप्रथितगुणगणो लोकसङ्गीतकीर्तिःश्रीरामः सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः ।नित्यश्रीर्निर्विकारो निरवधिविभवो नित्यमायानिरासोमायाकार्यानुसारी सदा भाति देवोऽखिलेशः ॥