Leave

Adhyātma Rāmāyaṇa · The Poisoning of Kaikeyī

Tap a verse for its meaning

  1. 1
    श्रीमहादेव उवाच ।अथ राजा कदाचिद्रहसि स्थितः ।वसिष्ठं स्वकुलाचार्यमाहूयेदमभाषत ॥
  2. 2
    भगवन् राममखिलाः मुहुर्मुहुः ।पौराश्च निगमा वृद्धा मन्त्रिणश्च विशेषतः ॥
  3. 3
    ततः सर्वगुणोपेतं रामं म् ।ज्येष्ठं राज्येऽभिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव ॥
  4. 4
    भरतो मातुलं द्रष्टुं गतः शत्रुघ्नसंयुतः । श्व एवाशु भवान्स्तच्चानुमोदताम् ॥
  5. 5
    सम्भ्रियन्तां च गच्छ मन्त्रय राघवम् ।उच्छ्रीयन्तां पताकाश्च नानावर्णाः समन्ततः ॥
  6. 6
    विचित्राणि स्वर्णमुक्तामयानि वै ।आहूय मन्त्रिणं राजा सुमन्त्रं मन्त्रिसत्तमम् ॥
  7. 7
    आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय ।ऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम् ॥
  8. 8
    तथेति हर्षात्स मुनिं किं करोमीत्यभाषत ।तमुवाच महातेजा वसिष्ठो ॥
  9. 9
    श्वः प्रभाते कन्यकाः स्वर्णभूषिताः ।तिष्ठन्तु षोडश गजाः स्वर्णरत्नादि भूषिताः ॥
  10. 10
    समायातु ऐरावतकुलोद्भवः ।नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः ॥
  11. 11
    स्थाप्यन्तां नववैयाघ्रचर्माणि त्रीणि चानय ।श्वेतच्छत्रं रत्नदण्डं मुक्तामणिविराजितम् ॥
  12. 12
    दिव्यमाल्यानि वस्त्राणि दिव्यान्याभरणानि च ।मुनयः सत्कृतास्तत्र तिष्ठन्तु ॥
  13. 13
    नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा ।नानावादित्रकुशला वादयन्तु नृपाङ्गणे ॥
  14. 14
    हस्त्यश्वरथपादाता बहिस्तिष्ठन्तु सायुधाः ।नगरे यानि तिष्ठन्ति च ॥
  15. 15
    तेषु प्रवर्ततां पूजा नानाबलिभिरावृता ।राजानः शीघ्रमायान्तु नानोपायनपाणयः ॥
  16. 16
    इत्यादिश्य मुनिः श्रीमान् सुमन्त्रं नृपमन्त्रिणम् ।स्वयं जगाम भवनं राघवस्यातिशोभनम् ॥
  17. 17
    रथमारुह्य भगवान् वसिष्ठो मुनिसत्तमः ।त्रीणि रथात्क्षितिमवातरत् ॥
  18. 18
    अन्तः प्रविश्य भवनं स्वाचार्यत्वादवारितः ।गुरुमागतमाज्ञाय रामस्तूर्णः ॥
  19. 19
    प्रत्युद्गम्य नमस्कृत्य दण्डवद्भक्तिसंयुतः ।स्वर्णपात्रेण पानीयमानिनायाशु जानकी ॥
  20. 20
    समावेश्य पादौ प्रक्षाल्य भक्तितः ।तदपः शिरसा धृत्वा सीताया सह राघवः ॥
  21. 21
    धन्योऽस्मीत्यब्रवीद्रामस्तव ।श्रीरामेणैवमुक्तस्तु मुनिरब्रवीत् ॥
  22. 22
    त्वत्पादसलिलं धृत्वा धन्योऽभूद्गिरिजापतिः ।ब्रह्मापि मत्पिता ते हि हताशुभः ॥
  23. 23
    इदानीं भाषसे यत्त्वं लोकानामुपदेशकृत् ।जानामि त्वां परात्मानं लक्ष्म्या सञ्जातमीश्वरम् ॥
  24. 24
    देवकार्यार्थसिद्ध्यर्थं भक्तानां ।रावणस्य वधार्थाय जातं जानामि राघव ॥
  25. 25
    तथापि देवकार्यार्थं गुह्यं नोद्घाटयाम्यहम् ।तथा त्वं सर्वं करोषि रघुनन्दन ॥
  26. 26
    तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहम् ।गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः ॥
  27. 27
    जगद्यात्रावाहकस्त्वमगोचरः ।शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवम् ॥
  28. 28
    मनुष्य इव लोकेऽस्मिन् भासि त्वं ।पौरोहित्यमहं जाने विगर्ह्यं दूष्यजीवनम् ॥
  29. 29
    इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते ।इति ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा ॥
  30. 30
    ततोऽहमाशया राम तव ।अकार्षं गर्हितमपि तवाचार्यत्वसिद्धये ॥
  31. 31
    ततो मनोरथो मेऽद्य फलितो रघुनन्दन ।त्वदधीना सर्वलोकैकमोहिनी ॥
  32. 32
    मां यथा मोहयेन्नैव तथा कुरु रघूद्वह ।गुरुनिष्कृतिकामस्त्वं यदि देह्येतदेव मे ॥
  33. 33
    प्रसङ्गात्सर्वमप्युक्तं न वाच्यं कुत्रचिन्मया ।राज्ञा दशरथेनाहं प्रेषितोऽस्मि रघूद्वह ॥
  34. 34
    त्वामामन्त्रयितुं राज्ये श्वोऽभिषेक्ष्यति राघव ।अद्य त्वं सीतया सार्धमुपवासं यथाविधि ॥
  35. 35
    कृत्वा शुचि भव राम जितेन्द्रियः ।गच्छामि राजसान्निध्यं त्वं तु प्रातर्गमिष्यसि ॥
  36. 36
    इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्द्रुतम् ।रामोऽपि लक्ष्मणं दृष्ट्वा प्रहसन्निदमब्रवीत् ॥
  37. 37
    सौमित्रे यौवराज्ये मे श्वोऽभिषेको भविष्यति ।निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि ॥
  38. 38
    मम त्वं हि बहिःप्राणो नात्र कार्या विचारणा ।ततो वसिष्ठेन यथा भाषितं तत्तथाकरोत् ॥
  39. 39
    वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत् ।वसिष्ठस्य पुरो राज्ञा ह्युक्तं ॥
  40. 40
    यदा तदैव नगरे श्रुत्वा कश्चित्पुमान् जगौ ।कौसल्यायै सुमित्रायै तथैव च ॥
  41. 41
    श्रुत्वा ते हर्षसम्पूर्णे ददतुर्हारमुत्तमम् ।तस्मै ततः प्रीतमनाः कौसल्या ॥
  42. 42
    लक्ष्मीं पर्यचरद्देवीं रामस्यार्थप्रसिद्धये । दशरथः करोत्येव प्रतिश्रुतम् ॥
  43. 43
    कैकेयीवशगः किन्तु कामुकः किं करिष्यति ।इति सा दुर्गां देवीमपूजयत् ॥
  44. 44
    एतस्मिन्नन्तरे देवा देवीं वाणीमचोदयन् ।गच्छ देवि भुवो लोकमयोध्यायां प्रयत्नतः ॥
  45. 45
    यतस्व ब्रह्मवाक्यतः । प्रविशस्वादौ कैकेयीं च ततः परम् ॥
  46. 46
    ततो विघ्ने समुत्पन्ने पुनरेहि दिवं शुभे ।तथेत्युक्त्वा तथा चक्रे मन्थराम् ॥
  47. 47
    सापि त्रिवक्रा तु प्रासादाग्रमथारुहत् ।नगरं परितो दृष्ट्वा सर्वतः समलङ्कृतम् ॥
  48. 48
    नानातोरणसम्बाधं पताकाभिरलङ्कृतम् ।सर्वोत्सवसमायुक्तं पुनरागमत् ॥
  49. 49
    धात्रीं पप्रच्छ मातः किं नगरं समलङ्कृतम् ।नानोत्सवसमायुक्ता कौसल्या चातिहर्षिता ॥
  50. 50
    ददाति वस्त्राणि विविधानि च ।तामुवाच तदा धात्री ॥
  51. 51
    श्वो भविष्यति तेनाद्य सर्वतोऽलङ्कृतं ।तच्छ्रुत्वा त्वरितं गत्वा कैकेयीं वाक्यमब्रवीत् ॥
  52. 52
    विशालाक्षीमेकान्ते पर्यवस्थिताम् ।किं शेषे मूढे महद्भयमुपस्थितम् ॥
  53. 53
    न जानीषेऽतिसौन्दर्यमानिनी ॥
  54. 54
    रामस्यानुग्रहाद्राज्ञः श्वोऽभिषेको भविष्यति ।तच्छ्रुत्वा सहसोत्थाय कैकेयी ॥
  55. 55
    तस्यै दिव्यं ददौ स्वर्णनूपुरं रत्नभूषितम् ।हर्षस्थाने किमिति मे कथ्यते भयमागतम् ॥
  56. 56
    भरतादधिको रामः प्रियकृन्मे प्रियंवदः ।कौसल्यां मां समं पश्यन् सदा हि माम् ॥
  57. 57
    रामाद्भयं किमापन्नं तव मूढे वदस्व मे ।तच्छ्रुत्वा विषसादाथ ऽकारणवैरिणी ॥
  58. 58
    शृणु मद्वचनं यथार्थं ते महद्भयम् ।त्वां तोषयन् सदा राजा प्रियवाक्यानि भाषते ॥
  59. 59
    कामुकोऽतथ्यवादी च त्वां वाचा परितोषयन् ।कार्यं करोति तस्या वै राममातुः सुपुष्कलम् ॥
  60. 60
    मनस्येतन्निधायैव प्रेषयामास ते सुतम् ।भरतं मातुलकुले प्रेषयामास सानुजम् ॥
  61. 61
    समीचीनं भविष्यति न संशयः ।लक्ष्मणो राममन्वेति राज्यं सोऽनुभविष्यति ॥
  62. 62
    भरतो राघवस्याग्रे किङ्करो वा भविष्यति ।विवास्यते वा नगरात्प्राणैर्वा हाप्यतेऽचिरात् ॥
  63. 63
    त्वं तु कौसल्यां नित्यं परिचरिष्यसि ।ततोऽपि मरणं श्रेयो यत्सपत्न्याः पराभवः ॥
  64. 64
    अतः शीघ्रं यतस्वाद्य भरतस्याभिषेचने ।रामस्य वनवासार्थं वर्षाणि नव पञ्च च ॥
  65. 65
    ततो रूढोऽभये पुत्रस्तव राज्ञि भविष्यति ।उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् ॥
  66. 66
    पुरा देवासुरे युद्धे राजा स्वयम् ।इन्द्रेण याचितो धन्वी सहायार्थं महारथः ॥
  67. 67
    जगाम सेनया सार्धं त्वया सह ।युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः ॥
  68. 68
    तदाक्षकीलो न्यपतच्छिन्नस्तस्य न वेद सः ।त्वं तु हस्तं समावेश्य कीलरन्ध्रेऽतिधैर्यतः ॥
  69. 69
    स्थितवत्यसितापाङ्गि पतिप्राणपरीप्सया ।ततो हत्वासुरान् सर्वान् ददर्श त्वामरिन्दमः ॥
  70. 70
    आश्चर्यं परमं लेभे त्वामालिङ्ग्य ।वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम् ॥
  71. 71
    वरद्वयं वृणीष्व त्वमेवं ।त्वयोक्तो वरदो राजन् यदि दत्तं ॥
  72. 72
    त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ ।यदा मेऽवसरो भूयात्तदा देहि वरद्वयम् ॥
  73. 73
    तथेत्युक्त्वा स्वयं राजा मन्दिरं व्रज ।त्वत्तः श्रुतं मया पूर्वमिदानीं ॥
  74. 74
    अतः शीघ्रं प्रविश्याद्य क्रोधागारं रुषान्विता ।विमुच्य सर्वाभरणं सर्वतो विनिकीर्य च ॥
  75. 75
    भूमावेव शयाना त्वं तूष्णीमातिष्ठ भामिनि ।यावत्सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते ॥
  76. 76
    श्रुत्वा त्रिवक्रयोक्तं तत्तदा ।तथ्यमेवाखिलं मेने दुःसङ्गाहितविभ्रमा ॥
  77. 77
    तामाह कैकेयी दुष्टा कुतस्ते बुद्धिरीदृशी ।एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि ॥
  78. 78
    भरतो यदि राजा मे भविष्यति सुतः प्रियः ।ग्रामान् शतं प्रदास्यामि मम त्वं ॥
  79. 79
    इत्युक्त्वा कोपभवनं प्रविश्य सहसा रुषा ।विमुच्य सर्वाभरणं परिकीर्य समन्ततः ॥
  80. 80
    भूमौ शयाना मलिना ।प्रोवाच शृणु मे कुब्जे यावद्रामो वनं व्रजेत् ॥
  81. 81
    प्राणान्स्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि ।निश्चयं कुरु कल्याणं ते भविष्यति ॥
  82. 82
    इत्युक्त्वा प्रययौ गृहं साऽपि तथाकरोत् ॥
  83. 83
    धीरोऽत्यन्तदयान्वितोऽपि सगुणाचारान्वितो वाथवानीतिज्ञो विधिवाददेशिकपरो विद्याविवेकोऽथवा ।दुष्टानामतिपापभावितधियां सङ्गं सदा चेद्भजेत्तद्बुद्ध्या परिभावितो व्रजति तत्साम्यं क्रमेण स्फुटम् ॥
  84. 84
    अतः परित्याज्यो दुष्टानां सर्वदैव हि ।दुःसङ्गी च्यवते स्वार्थाद्यथेयं ॥