Adhyātma Rāmāyaṇa · The Dwellings of Rāma
Tap a verse for its meaning
- 1श्रीमहादेव उवाच ।सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः ।लक्ष्मणं प्राह भ्रातः पश्यसि राघवम् ॥
- 2शयानं सीतया सह ।यः शेते स्वास्तीर्णे भवनोत्तमे ॥
- 3कैकेयी रामदुःखस्य कारणं कृता । कैकेयी पापमाचरत् ॥
- 4तच्छ्रुत्वा लक्ष्मणः प्राह सखे ।कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च ॥
- 5कारणं सुखदुःखयोः ॥
- 6सुखस्य दुःखस्य न कोऽपि परो ददातीति कुबुद्धिरेषा ।अहं करोमीति वृथाभिमानःस्वकर्मसूत्रग्रथितो हि लोकः ॥
- 7सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः । तथा तत्र विभाव्यते ॥
- 8सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः ।यद्यद्यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत् ॥
- 9न मे भोगागमे न मे भोगविवर्जने ।आगच्छत्वथ मागच्छत्वभोगवशगो भवेत् ॥
- 10स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा ।कृतं भोज्यं तत्तत्र नान्यथा ॥
- 11अलं हर्षविषादाभ्यां शुभाशुभफलोदये ।विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः ॥
- 12सर्वदा सुखदुःखाभ्यां नरः ।शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत् ॥
- 13सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।द्वयमेतद्धि जन्तूनामलङ्घ्यं ॥
- 14सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् ।द्वयमन्योन्यसंयुक्तं प्रोच्यते ॥
- 15तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु ।न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात् ॥
- 16गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः ।बभूव रामः सलिलं स्पृष्ट्वा प्रातः ॥
- 17उवाच शीघ्रं सुदृढं नावमानय मे ।श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः ॥
- 18स्वयमेव दृढं नावमानिनाय ।स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च ॥
- 19वाहये सार्धमहमेव समाहितः ।तथेति राघवः सीतामारोप्य ॥
- 20गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः । समारोप्य लक्ष्मणोऽप्यारुरोह च ॥
- 21गुहस्तान् वाहयामास सहितः स्वयम् ।गङ्गामध्ये गतां गङ्गां जानकी ॥
- 22देवि गङ्गे नमस्तुभ्यं ।रामेण सहिताहं त्वां लक्ष्मणेन च ॥
- 23सुरामान्सोपहारैश्च नानाबलिभिरादृता ।इत्युक्त्वा परकूलं तौ शनैरुत्तीर्य जग्मतुः ॥
- 24गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह ।अनुज्ञां देहि नो चे ॥
- 25श्रुत्वा नैषादिवचनं श्रीरामस्तमथाब्रवीत् । स्थित्वा दण्डके पुनरप्यहम् ॥
- 26आयास्याम्युदितं सत्यं ।इत्युक्त्वालिङ्ग्य तं भक्तं समाश्वास्य पुनः पुनः ॥
- 27गुहं सोऽपि कृच्छ्राद्ययौ गृहम् ॥
- 28तत्र मेध्यं मृगं हत्वा पक्त्वा हुत्वा च ते त्रयः ।भुक्त्वा सुप्त्वा सुखमासत तां निशाम् ॥
- 29ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः ।भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः ।तत्रैकं वटुकं दृष्ट्वा रामः प्राह च हे वटो ॥
- 30रामो सीतालक्ष्मणाभ्यां समन्वितः ।आस्ते बहिर्वनस्येति ह्युच्यतां ॥
- 31तच्छ्रुत्वा सहसा गत्वा पादयोः पतितो मुनेः ।स्वामिन् रामः समागत्य वनाद्बहिरवस्थितः ॥
- 32श्रीमानाह मां ।भरद्वाजाय मुनये ज्ञापयस्व ॥
- 33तच्छ्रुत्वा सहसोत्थाय भरद्वाजो ।गृहीत्वार्घ्यं च पाद्यं च रामसामीप्यमाययौ ॥
- 34दृष्ट्वा रामं यथान्यायं पूजयित्वा सलक्ष्मणम् ।आह मे पर्णशालां भो राम ॥
- 35आगच्छ पुनीहि ।इत्युक्त्वोटजमानीय सीतया सह रघावौ ॥
- 36भक्त्या पुनः पूजयित्वा चकारातिथ्यमुत्तमम् ।अद्याहं तपसः पारं गतोऽस्मि तव सङ्गमात् ॥
- 37ज्ञातं राम तवोदन्तं भूतं चागामिकं च यत् ।जानामि त्वां परात्मानं मायया कार्यमानुषम् ॥
- 38यदर्थमवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा ।यदर्थं वनवासस्ते यत्करिष्यसि वै पुरः ॥
- 39जानामि हं जातया त्वदुपासनात् ।इतः परं त्वां किं वक्ष्ये कृतार्थोऽहं रघूत्तम ॥
- 40यस्त्वां पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परम् ।रामस्तमभिवाद्याह सीतालक्ष्मणसंयुतः ॥
- 41अनुग्राह्यास्त्वया ब्रह्मन्वयं क्षत्रियबान्धवाः ।इति सम्भाष्य तेऽन्योन्यमुषित्वा ॥
- 42प्रातरुत्थाय मुनिवारकैः ।कृताप्लवेन मुनिना दृष्टमार्गेण ॥
- 43प्रययौ चित्रकूटाद्रिं वाल्मीकेर्यत्र चाश्रमः ।गत्वा रामोऽथ वाल्मीकेराश्रमं ॥
- 44नानामृगद्विजाकीर्णं ।तत्र दृष्ट्वा समासीनं वाल्मीकिं ॥
- 45रामो लक्ष्मणेन च सीतया ।दृष्ट्वा रामं रमानाथं वाल्मीकिर्लोकसुन्दरम् ॥
- 46जानकीलक्ष्मणोपेतं ।कन्दर्पसदृशाकारं ॥
- 47दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः ।आलिङ्ग्य परमानन्दं रामं हर्षाश्रुलोचनः ॥
- 48पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरादृतः । स मधुरैर्भोजयित्वा च लालितः ॥
- 49राघवः प्राञ्जलिः प्राह वाल्मीकिं विनयान्वितः । दण्डकानागता वयम् ॥
- 50भवन्तो यदि जानन्ति किं वक्ष्यामोऽत्र कारणम् ।यत्र मे भवेत्स्थानं ॥
- 51सीतया सहितः कालं किञ्चित्तत्र नयाम्यहम् ।इत्युक्तो राघवेणासौ मुनिः सस्मितमब्रवीत् ॥
- 52त्वमेव सर्वलोकानां निवासस्थानमुत्तमम् ।तवापि सर्वभूतानि निवाससदनानि हि ॥
- 53एवं साधारणं स्थानमुक्तं ते रघुनन्दन ।सीतया सहितस्येति विशेषं पृच्छतस्तव ।तद्वक्ष्यामि रघुश्रेष्ठ यत्ते ॥
- 54शान्तानां समदृष्टीनामद्वेष्टॄणां च जन्तुषु ।त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम् ॥
- 55धर्माधर्मान् परित्यज्य त्वामेव भजतोऽनिशम् ।सीतया सह ते राम तस्य ॥
- 56त्वन्मन्त्रजापको यस्तु त्वामेव शरणं गतः ।निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम् ॥
- 57शान्ता ये रागद्वेषवर्जिताः ।समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम् ॥
- 58त्वयि दत्तमनोबुद्धिर्यः सदा भवेत् ।त्वयि सन्त्यक्तकर्मा यस्तन्मनस्ते शुभं गृहम् ॥
- 59यो न द्वेष्ट्यप्रियं प्राप्य प्रियं प्राप्य न हृष्यति ।सर्वं मायेति निश्चित्य त्वां भजेत्तन्मनो गृहम् ॥
- 60षड्भावादिविकारान् यो देहे पश्यति नात्मनि ।क्षुत्तृट् सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते ॥
- 61संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहम् ॥
- 62पश्यन्ति ये सर्वगुहाशयस्थंत्वां चिद्घनं सत्यमनन्तमेकम् ।अलेपकं सर्वगतं वरेण्यंतेषां सह सीतया वस ॥
- 63निरन्तराभ्यासदृढीकृतात्मनांत्वत्पादसेवापरिनिष्ठितानाम् ।त्वन्नामकीर्त्या हतकल्मषाणांसीतासमेतस्य गृहं हृदब्जे ॥
- 64राम त्वन्नाममहिमा वर्ण्यते केन वा कथम् ।यत्प्रभावादहं राम ब्रह्मर्षित्वमवाप्तवान् ॥
- 65अहं पुरा किरातेषु किरातैः सह वर्धितः ।द्विजत्वं मे शूद्राचाररतः सदा ॥
- 66शूद्रायां बहवः पुत्रा उत्पन्ना मेऽजितात्मनः ।ततश्चोरैश्च सङ्गम्य चौरोऽहमभवं पुरा ॥
- 67धनुर्बाणधरो नित्यं जीवानामन्तकोपमः ।एकदा मुनयः सप्त दृष्टा महति कानने ॥
- 68साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभाः ।तानन्वधावं न तेषां सर्वपरिच्छदान् ॥
- 69ग्रहीतुकामस्तत्राहं तिष्ठ तिष्ठेति चाब्रवम् ।दृष्ट्वा मां मुनयोऽपृच्छन् किमायासि ॥
- 70अहं तानब्रवं किञ्चिदादातुं ।पुत्रदारादयः सन्ति बहवो मे बुभुक्षिताः ॥
- 71तेषां संरक्षणार्थाय चरामि गिरिकानने ।ततो मामूचुरव्यग्राः पृच्छ गत्वा म् ॥
- 72यो यो मया प्रतिदिनं क्रियते ।यूयं तद्भागिनः किं वा नेति वेतिपृथक्पृथक् ॥
- 73वयं स्थास्यामहे तावदागमिष्यसि ।तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम् ॥
- 74अपृच्छं पुत्रदारादीन्स्तैरुक्तोऽहं रघूत्तम ।पापं तवैव तत्सर्वं वयं तु फलभागिनः ॥
- 75तच्छ्रुत्वा जात विचार्य पुनरागमम् ।मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः ॥
- 76मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम् ।धनुरादीन् परित्यज्य तितोऽस्म्यहम् ॥
- 77रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं म् ।इत्यग्रे पतितं दृष्ट्वा मामूचुर्मुनिसत्तमाः ॥
- 78उत्तिष्ठोत्तिष्ठ भद्रं ते सफलः ।उपदेक्ष्यामहे तुभ्यं किञ्चित्तेनैव मोक्ष्यसे ॥
- 79परस्परं समालोच्य दुर्वृत्तोयं द्विजाधमः ।उपेक्ष्य एव सद्वृत्तैस्तथापि ।रक्षणीयः प्रयत्नेन मोक्षमार्गोपदेशतः ॥
- 80इत्युक्त्वा राम ते नाम पूर्वकम् ।एकाग्रमनसात्रैव मरेति जप सर्वदा ॥
- 81आगच्छामः पुनर्यावत्तावदुक्तं सदा जप ।इत्युक्त्वा प्रययुः सर्वे मुनयो ॥
- 82अहं यथोपदिष्टं तैस्तथाकरवमञ्जसा ।जपन्नेकाग्रमनसा बाह्यं विस्मृतवानहम् ॥
- 83एवं बहुतिथे काले गते निश्चलरूपिणः ।सर्वसङ्गविहीनस्य ऽभून्ममोपरि ॥
- 84ततो युगसहस्रान्ते ऋषयः पुनरागमन् ।मामूचुर्निष्क्रमस्वेति तच्छ्रुत्वा तूर्णमुत्थितः ॥
- 85वल्मीकान्निर्गतश्चाहं नीहारादिव भास्करः ।मामप्याहुर्मुनिगणा स्त्वं मुनीश्वर ॥
- 86वल्मीकात्सम्भवो यस्माद् तेऽभवत् ।इत्युक्त्वा ते ययुर्दिव्यगतिं रघुकुलोत्तम ॥
- 87अहं ते राम नाम्नश्च प्रभावादीदृशोऽभवम् ।अद्य साक्षात्प्रपश्यामि ससीतं लक्ष्मणेन च ॥
- 88रामं राजीवपत्राक्षं त्वां मुक्तो नात्र ।आगच्छ राम भद्रं ते स्थलं वै दर्शयाम्यहम् ॥
- 89एवमुक्त्वा श्रीमान्ल्लक्ष्मणेन समन्वितः ।शिष्यैः परिवृतो गत्वा मध्ये पर्वतगङ्गयोः ॥
- 90तत्र शालां सुविस्तीर्णां कारयामास वासभूः ।प्राक्पश्चिमं दक्षिणोदक् शोभनं ॥
- 91जानक्या सहितो रामो लक्ष्मणेन समन्वितः ।तत्र ते देवसदृशा ह्यवसन् ॥
- 92वाल्मीकिना तत्र सुपूजितोऽयंरामः ससीतः सह लक्ष्मणेन ।देवैर्मुनीद्रैः सहितो मुदास्तेस्वर्गे यथा सशच्या ॥