Adhyātma Rāmāyaṇa · Bharata Sets Forth for Citrakūṭa
Tap a verse for its meaning
- 1श्रीमहादेव उवाच ।वसिष्ठो मुनिभिः सार्धं मन्त्रिभिः परिवारितः ।राज्ञः सभां देवसभासन्निभामविशद्विभुः ॥
- 2तत्रासने समासीनश्चतुर्मुख इवापरः ।आनीय भरतं तत्र उपवेश्य ॥
- 3अब्रवीद्वचनं देशकालोचितमरिन्दमम् ।वत्स राज्येऽभिषेक्ष्यामस्त्वामद्य ॥
- 4कैकेय्या याचितं राज्यं त्वदर्थे ।सत्यसन्धो दशरथः प्रतिज्ञाय ददौ किल ॥
- 5अभिषेको भवत्वद्य मुनिभि ।तच्छ्रुत्वा भरतोऽप्याह मम राज्येन किं ॥
- 6रामो राजाधिराजश्च वयं तस्यैव ।श्वः प्रभाते गमिष्यामो राममानेतुमञ्जसा ॥
- 7अहं यूयं मातरश्च कैकेयीं राक्षसीं विना ।हनिष्याम्यधुनैवाहं कैकेयीं ॥
- 8किन्तु मां नो रघुश्रेष्ठः स्त्रीहन्तारं सहिष्यते ।तच्छ्वोभूते गमिष्यामि पादचारेण ॥
- 9शत्रुघ्नसहितस्तूर्णं यूयमायात वा न वा ।रामो यथा वने यातस्तथाहं ॥
- 10फलमूलकृताहारः शत्रुघ्नसहितो मुने । यावद्रामो निवर्तते ॥
- 11इति निश्चित्य भरतस्तूष्णीमेवावतस्थिवान् ।साधुसाध्विति तं सर्वे प्रशशंसु ॥
- 12ततः प्रभाते भरतं गच्छन्तं ।अनुजग्मुः नोदिताः साश्वकुञ्जराः ॥
- 13कौसल्याद्या राजदारा वसिष्ठप्रमुखा द्विजाः ।छादयन्तो भुवं सर्वे पृष्ठतः पार्श्वतोऽग्रतः ॥
- 14शृङ्गवेरपुरं गत्वा समन्ततः ।उवास महती सेना शत्रुघ्नपरिचोदिता ॥
- 15आगतं भरतं श्रुत्वा ।महत्या सेनया सार्धमागतो भरतः किल ॥
- 16पापं कर्तुं न वा याति रामस्याविदितात्मनः ।गत्वा तद्धृदयं ज्ञेयं यदि शुद्धस्तरिष्यति ॥
- 17गङ्गा नो चेत्समाकृष्य नावस्तिष्ठन्तु ।ज्ञातयो मे समायत्ताः पश्यन्तः सर्वतोदिशम् ॥
- 18इति सर्वान् गुहो भरतमागतः ।उपायनानि सङ्गृह्य विविधानि बहून्यपि ॥
- 19प्रययौ ज्ञातिभिः सार्धं बहुभि ।निवेद्योपायनान्यग्रे भरतस्य समन्ततः ॥
- 20दृष्ट्वा भरतमासीनं सानुजं सह मन्त्रिभिः ।चीराम्बरं घनश्यामं जटामुकुटधारिणम् ॥
- 21राममेवानुशोचन्तं ।ननाम शिरसा भूमौ गुहोऽहमिति चाब्रवीत् ॥
- 22शीघ्रमुत्थाप्य भरतो गाढमालिङ्ग्य सादरम् ।पृष्ट्वाऽनामयमव्यग्रः सखायमिदमब्रवीत् ॥
- 23भ्रातस्त्वं त्र समेतः समवस्थितः ।रामेणालिङ्गितः मलात्मना ॥
- 24धन्योऽसि कृतकृत्योऽसि यत्त्वया परिभाषितः ।रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया ॥
- 25यत्र रामस्त्वया दृष्टस्तत्र मां नय ।सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे ॥
- 26त्वं रामस्य प्रियतमो भक्तिमानसि भाग्यवान् ।इति संस्मृत्य संस्मृत्य रामं ॥
- 27गुहेन सहितस्तत्र यत्र रामः स्थितो निशि ।ययौ ददर्श कुशसमास्तृतम् ॥
- 28सीताऽऽभरणसंलग्नस्वर्णबिन्दुभिरर्चितम् ।दुःखसन्तप्तहृदयो भरतः ॥
- 29अहोऽतिसुकुमारी या सीता ।प्रासादे रत्नपर्यङ्के कोमलास्तरणे शुभे ॥
- 30रामेण सहिता शेते सा कथं ।सीता रामेण सहिता दुःखेन ॥
- 31जातोऽस्मि कैकेय्या पापराशिसमानतः ।मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः ॥
- 32अहोऽतिसफलं जन्म लक्ष्मणस्य महात्मनः ।राममेव सदान्वेति वनस्थमपि ॥
- 33अहं रामस्य दासा ये तेषां दासस्य ।यदि स्यां सफलं जन्म मम भूयान्न संशयः ॥
- 34भ्रातर्जानासि यदि तत्कथयस्व ममाखिलम् ।यत्र तिष्ठति तत्राहं गच्छाम्यानेतुमञ्जसा ॥
- 35गुहस्तं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीत् ।देव त्वमेव धन्योऽसि यस्य ते भक्तिरीदृशी ॥
- 36रामे राजीवपत्राक्षे सीतायां लक्ष्मणे तथा । ॥
- 37मुनीनामाश्रमपदे रामस्तिष्ठति सानुजः । सहितो नन्दात्सुखमास्ते किल प्रभुः ॥
- 38तत्र गच्छामहे शीघ्रं गङ्गां तर्तुमिहार्हसि ।इत्युक्त्वा त्वरितं गत्वा पञ्चशतानि ह ॥
- 39समानयत्ससैन्यस्य तर्तुं गङ्गां ।स्वयमेवानिनायैकां राजनावं गुहस्तदा ॥
- 40आरोप्य भरतं तत्र शत्रुघ्नं राममातरम् ।वसिष्ठं च तथान्यत्र कैकेयीं चान्ययोषितः ॥
- 41तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति ।दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ ॥
- 42आश्रमे मुनिमासीनं ज्वलन्तमिव ।दृष्ट्वा ननाम भरतः साष्टाङ्गमतिभक्तितः ॥
- 43ज्ञात्वा दाशरथिं प्रीत्या पूजयामास ।पप्रच्छ कुशलं दृष्ट्वा जटावल्कलधारिणम् ॥
- 44राज्यं प्रशासतस्तेऽद्य किमेत ।आगतोऽसि किमर्थं त्वं विपिनं मुनिसेवितम् ॥
- 45भरद्वाजवचः श्रुत्वा भरतः साश्रुलोचनः ।सर्वं जानासि ॥
- 46तथापि पृच्छसे किञ्चित्तदनुग्रह एव मे ।कैकेय्या यत्कृतं कर्म ॥
- 47वनवासादिकं वापि न हि जानामि किञ्चन ।भवत्पादयुगं मेऽद्य प्रमाणं मुनिसत्तम ॥
- 48इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वाऽर्त्तमानसः ।ज्ञातुमर्हसि मां देव शुद्धो वाऽशुद्ध एव वा ॥
- 49मम राज्येन किं रामे तिष्ठति राजनि ।किङ्करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य ॥
- 50अतो गत्वा मुनिश्रेष्ठ रामस्य ।पतित्वा समर्प्यात्रैव राघवम् ॥
- 51वसिष्ठाद्यैः पौरजानपदैः सह ।नेष्येऽयोध्यां रमानाथं दासः सेवेऽतिनीचवत् ॥
- 52इत्युदीरितमाकर्ण्य भरतस्य वचो मुनिः । प्रशशंस ॥
- 53वत्स ज्ञातं पुरैवैतद्भविष्यं ।मा शुचस्त्वं परो भक्तः श्रीरामे लक्ष्मणादपि ॥
- 54आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानघ ।अद्य भुक्त्वा ससैन्यस्त्वं श्वो गन्ता ॥
- 55भवान्स्तथेति भरतोऽब्रवीत् ।भरद्वाजस्त्वपः स्पृष्ट्वा स्थितः ॥
- 56दध्यौ कामदुघां कामवर्षिणीं कामदो मुनिः ।असृजत्कामधुक् सर्वं यथाकाममलौकिकम् ॥
- 57भरतस्य ससैन्यस्य यथेष्टं च ।यथा सकलं तृप्तास्ते सर्वसैनिकाः ॥
- 58वसिष्ठं पूजयित्वाग्रे कर्मणा ।पश्चात्ससैन्यं भरतं ॥
- 59उषित्वा दिनमेकं तु आश्रमे स्वर्गसन्निभे ।अभिवाद्य पुनः प्रातर्भरद्वाजं ॥
- 60भरतस्तु प्रययौ रामसन्निधिम् ।चित्रकूटमनुप्राप्य दूरे संस्थाप्य सैनिकान् । प्रययौ भरतः स्वयम् ॥
- 61शत्रुघ्नेन सुमन्त्रेण गुहेन च ।तपस्विमण्डलं सर्वं विचिन्वानो ॥
- 62रामभवनमपृच्छदृषिमण्डलम् ।कुत्रास्ते सीतया सार्धं लक्ष्मणेन ॥
- 63ऊचुरग्रे गिरेः पश्चा ।विविक्तं रामसदनं रम्यं काननमण्डितम् ॥
- 64सफलैराम्रपनसैः । कोविदारैश्च पुन्नागैर्विपुलैस्तथा ॥
- 65एवं दर्शितमालोक्य मुनिभिर्भरतोऽग्रतः ।हर्षाद्ययौ रघुश्रेष्ठभवनं ॥
- 66ददर्श दूरादतिभासुरं शुभंरामस्य गेहं ।वृक्षाग्रसंलग्नसुवल्कलाजिनंरामाभिरामं भरतः सहानुजः ॥