Adhyātma Rāmāyaṇa · The Hermitages of Śarabhaṅga and Sutīkṣṇa
Tap a verse for its meaning
- 1विराधे रामो लक्ष्मणेन च सीतया ।जगाम शरभङ्गस्य वनं ॥
- 2शरभङ्गस्ततो दृष्ट्वा रामं सह ।आयान्तं सीतया सार्धं सम्भ्रमादुत्थितः ॥
- 3अभिगम्य सुसम्पूज्य विष्टरेषूपवेशयत् ।आतिथ्यमकरोत्तेषां कन्दमूलफलादिभिः ॥
- 4प्रीत्याऽऽह शरभङ्गोऽपि रामं ।बहुकालमिहैवाऽऽसं कृतनिश्चयः ॥
- 5तव सन्दर्शनाकाङ्क्षी राम त्वं ।अद्य मत्तपसा सिद्धं यत्पुण्यं बहु विद्यते ।तत्सर्वं तव दास्यामि ततो मुक्तिं व्रजाम्यहम् ॥
- 6समर्प्य रामस्य महत्सुपुण्य-फलं विरक्तः शरभङ्गयोगी ।रामं ससीतं सहसा प्रणम्य ॥
- 7ध्यायन्श्चिरं राममशेषहृत्स्थंदूर्वादलश्यामलमम्बुजाक्षम् ।चीराम्बरं स्निग्धजटाकलापंसीतासहायं सहलक्ष्मणं तम् ॥
- 8को वा दयालुः स्मृतकामधेनुरन्योजगत्यां रघुनायकादहो ।स्मृतो मया नित्यमनन्यभाजाज्ञात्वा स्मृतिं मे स्वयमेव यातः ॥
- 9पश्यत्विदानीं देवेशो रामो दाशरथिः प्रभुः ।दग्ध्वा स्वदेहं गच्छामि ब्रह्मलोकमकल्मषः ॥
- 10अयोध्याधिपतिर्मेऽस्तु हृदये राघवः सदा ।यद्वामाङ्के स्थिता सीता मेघस्येव ॥
- 11इति रामं चिरं ध्यात्वा दृष्ट्वा च पुरतः स्थितम् ।प्रज्वाल्य सहसा वह्निं दग्ध्वा ॥
- 12साक्षाद्ययौ लोकपतेः पदम् ।ततो मुनिगणाः सर्वे ।आजग्मू राघवं द्रष्टुं शरभङ्गनिवेशनम् ॥
- 13दृष्ट्वा मुनिसमूहं तं जानकीरामलक्ष्मणाः ।प्रणेमुः सहसा भूमौ ॥
- 14आशीर्भिरभिनन्द्याथ रामं सर्वहृदि स्थितम् ।ऊचुः सर्वे धनुर्बाणधरं हरिम् ॥
- 15जातोऽसि ।जानीमस्त्वां हरिं लक्ष्मीं जानकीं लक्ष्मणं तथा ॥
- 16शेषांशं शङ्खचक्रे द्वे भरतं सानुजं तथा ।अतश्चादौ ऋषीणां त्वं दुःखं मोक्तुमिहार्हसि ॥
- 17आगच्छ यामो वनानि सर्वाणि क्रमात् ।द्रष्टुं सुमित्रासुतजानकीभ्यांतदा दयाऽस्मासु दृढा भविष्यति ॥
- 18इति विज्ञापितो रामः कृताञ्जलिपुटै ।जगाम मुनिभिः सार्धं द्रष्टुं मुनिवनानि सः ॥
- 19ददर्श तत्र पतितान्यनेकानि सः । सर्वत्र रामो वचनमब्रवीत् ॥
- 20अस्थीनि केषामेतानि किमर्थं पतितानि वै ।तमूचुर्मुनयो राम ऋषीणां हि ॥
- 21राक्षसैर्भक्षितानीश प्रमत्तानां समाधितः ॥अन्तरायं मुनीनां ते पश्यन्तोऽनुचरन्ति हि ॥
- 22श्रुत्वा वाक्यं मुनीनां स ।प्रतिज्ञामकरोद्रामो वधायाशेषरक्षसाम् ॥
- 23सदा तत्र मुनिभिर्वनवासिभिः ।जानक्या सहितो रामो लक्ष्मणेन समन्वितः ॥
- 24कतिचित्तत्र वर्षाणि ।एवं क्रमेण षीणामाश्रमान् ॥
- 25सुतीक्ष्णस्याश्रमं प्रागात्प्रख्यातमृषिसङ्कुलम् ।सर्वर्तुगुणसम्पन्नं सर्वकालसुखावहम् ॥
- 26राममागतमाकर्ण्य सुतीक्ष्णः स्वयमागतः ।अगस्त्यशिष्यो रामस्य मन्त्रोपासनतत्परः ।विधिवत्पूजयामास ॥
- 27त्वन्मन्त्रजाप्यहमनन्तगुणाप्रमेयसीतापते शिवविरिञ्चिसमाश्रिताङ्घ्रे ।रामाभिराम सततं तव दासदासः ॥
- 28मामद्य सर्वजगतामविगोचरस्त्वंत्वन्मायया सुतकलत्र ।मग्नं निरीक्ष्य मलपुद्गलपिण्डमोह-पाशानुबद्धहृदयं स्वयमागतोऽसि ॥
- 29त्वं सर्वभूतहृदयेषु कृतालयोऽपित्वन्मन्त्रजाप्यविमुखेषु तनोषि मायाम् ।त्वन्मन्त्रसाधनपरेष्वपयाति मायासेवानुरूपफलदोऽसि यथा महीपः ॥
- 30विश्वस्य सृष्टिलयसंस्थितिहेतुरेकःत्वं मायया विधिरीशविष्णू ।भासीश मोहितधियां विविधाकृतिस्त्वंयद्वद्रविः सलिलपात्रगतो ह्यनेकः ॥
- 31प्रत्यक्षतोऽद्य भवतश्चरणारविन्दंपश्यामि राम स्थितस्य ।दृग्रूपतस्त्वमसतामविगोचरोऽपित्वन्मन्त्रपूतहृदयेषु सदा प्रसन्नः ॥
- 32पश्यामि राम तव रूपमरूपिणोऽपिमायाविडम्बनकृतं सुमनुष्यवेषम् ।कन्दर्पकोटिसुभगं कमनीयचापबाणंदयार्द्रहृदयं स्मितचारुवक्त्रम् ॥
- 33सीतासमेतमजिनाम्बरमप्रधृष्यंसौमित्रिणा नियतसेवितपादपद्मम् ।नीलोत्पलद्युतिमनन्तगुणं प्रशान्तंमद्भागधेयमनिशं प्रणमामि रामम् ॥
- 34जानन्तु राम तव रूपमशेषदेश-कालाद्युपाधिरहितं ।प्रत्यक्षतोऽद्य मम गोचरमेतदेवरूपं विभातु हृदये न परं विकाङ्क्षे ॥
- 35इत्येवं स्तुवतस्तस्य रामः सस्मितमब्रवीत् ।मुने जानामि ते चित्तं निर्मलं ॥
- 36अतोऽहमागतो द्रष्टुं मदृते ।मन्मन्त्रोपासका लोके मामेव ॥
- 37निरपेक्षा नान्यगतास्तेषां दृश्योऽहमन्वहम् ।स्तोत्रमेतत्पठेद्यस्तु त्वत्कृतं मत्प्रियं सदा ॥
- 38सद्भक्तिर्मे भवेत्तस्य ज्ञानं च विमलं भवेत् ।त्वं ममोपासनादेव विमुक्तोऽसीह सर्वतः ॥
- 39देहान्ते मम सायूज्यं लप्स्यसे नात्र संशयः ।गुरुं ते द्रष्टुमिच्छामि ह्यगस्त्यं ।किञ्चित्कालं तत्र वस्तुं मनो मे त्वरयत्यलम् ॥
- 40सुतीक्ष्णोऽपि श्वो गमिष्यसि राघव ।अहमप्यागमिष्यामि चिराद् दृष्टो ॥
- 41अथ मुनिना समेतोरामः ससीतः सह लक्ष्मणेन ।शनैरगस्त्यानुजमन्दिरं ययौ ॥