Leave

Adhyātma Rāmāyaṇa · The Deliverance of Jaṭāyu

Tap a verse for its meaning

  1. 1
    रामो मायाविनं हत्वा राक्षसं ।प्रतस्थे स्वाश्रमं गन्तुं ततो दूराद्ददर्श तम् ॥
  2. 2
    आयान्तं लक्ष्मणं दीनं मुखेन परिशुष्यता ।राघवश्चिन्तयामास स्वात्मन्येव ॥
  3. 3
    लक्ष्मणस्तन्न जानाति मायासीतां मया कृताम् ।ज्ञात्वाप्येनं वञ्चयित्वा शोचामि प्राकृतो यथा ॥
  4. 4
    यद्यहं विरतो भूत्वा तूष्णीं स्थास्यामि मन्दिरे ।तदा राक्षसकोटीनां कथं भवेत् ॥
  5. 5
    यदि शोचामि तां कामुको यथा ।तदा क्रमेणानुचिन्वन् सीतां यास्येऽसुरालयम् ।रावणं सकुलं हत्वा सीतामग्नौ स्थितां पुनः ॥
  6. 6
    मयैव स्थापितां नीत्वा यातायोध्यामतन्द्रितः ॥
  7. 7
    अहं जातोऽस्मि ।मनुष्यभावमापन्नः किञ्चित्कालं वसामि कौ ।ततो मायामनुष्यस्य चरितं मेऽनुशृण्वताम् ॥
  8. 8
    मुक्तिः स्यादप्रयासेन ।निश्चित्यैवं तदा दृष्ट्वा लक्ष्मणं वाक्यमब्रवीत् ॥
  9. 9
    किमर्थमागतोऽसि त्वं सीतां त्यक्त्वा मम ।नीता वा भक्षिता वापि राक्षसै ॥
  10. 10
    लक्ष्मणः प्राह सीताया दुर्वचो ।हा लक्ष्मणेति वचनं राक्षसोक्तं श्रुतं तया ॥
  11. 11
    त्वद्वाक्यसदृशं श्रुत्वा मां गच्छेति त्वराब्रवीत् ।रुदन्ती सा मया प्रोक्ता देवि राक्षसभाषितम् ।नेदं रामस्य वचनं स्वस्था भव ॥
  12. 12
    इत्येवं मया प्रोवाच मां पुनः ।यदुक्तं दुर्वचो राम न वाच्यं पुरतस्तव ॥
  13. 13
    यातोऽहं त्वां समीक्षितुम् ॥
  14. 14
    रामस्तु लक्ष्मणं प्राह तथाप्यनुचितं कृतम् ।त्वया स्त्रीभाषितं सत्यं कृत्वा त्यक्ता ।नीता वा भक्षिता वापि राक्षसैर्नात्र संशयः ॥
  15. 15
    इति रामः स्वाश्रमं त्वरितो ययौ ।तत्रादृष्ट्वा जनकजां ॥
  16. 16
    हा प्रिये क्व गतासि त्वं नासि पूर्ववदाश्रमे ।अथवा मद्विमोहार्थं क्व विलीयसे ॥
  17. 17
    इत्याचिन्वन् वनं सर्वं नापश्यज्जानकीं तदा ।वनदेव्यः कुतः सीतां ब्रुवन्तु मम ॥
  18. 18
    मृगाश्च पक्षिणो वृक्षा दर्शयन्तु मम प्रियाम् ।इत्येवं व रामः सीतां न कुत्रचित् ॥
  19. 19
    सर्वथा क्वापि नापश्य ।आनन्दोऽप्यन्वशोचत्तामचलोऽप्यनुधावति ॥
  20. 20
    निर्ममो निरहङ्कारोऽप्यखण्डानन्दरूपवान् ।मम जायेति सीतेति विललापातिदुःखितः ॥
  21. 21
    एवं मायामनुचरन्नसक्तोऽपि रघूत्तमः ।आसक्त इव मूढानां भाति तत्त्वविदां न हि ॥
  22. 22
    एवं विचिन्वन् सकलं वनं रामः सलक्ष्मणः ।भग्नं रथं छत्रचापं कूबरं पतितं भुवि ॥
  23. 23
    दृष्ट्वा लक्ष्मणमाहेदं पश्य लक्ष्मण केनचित् ।नीयमानां जनकजां तं जित्वान्यो जहार ताम् ॥
  24. 24
    ततः कञ्चिद्भुवो भागं गत्वा ।रुधिराक्तवपुर्दृष्ट्वा रामो वाक्यमथाब्रवीत् ॥
  25. 25
    एष वै भक्षयित्वा तां जानकीं शुभदर्शनाम् ।शेते ऽतितृप्तः पश्य हन्मि ॥
  26. 26
    शीघ्रं मे बाणं च रघुनन्दन ।तच्छ्रुत्वा रामवचनं जटायुः प्राह ॥
  27. 27
    मां न मारय भद्रं ते म्रियमाणं ।अहं जटायुस्ते भार्याहारिणं समनुद्रुतः ॥
  28. 28
    रावणं तत्र युद्धं मे बभूवारिविमर्दन ।तस्य वाहान् रथं चापं छित्त्वाहं तेन ॥
  29. 29
    पतितोऽस्मि प्राणान्स्त्यक्ष्यामि पश्य माम् ।तच्छ्रुत्वा राघवो दीनं कण्ठप्राणं ददर्श ह ॥
  30. 30
    हस्ताभ्यां रामो दुःखाश्रुवृतलोचनः ॥
  31. 31
    जटायो ब्रूहि मे भार्या केन नीता शुभानना ।मत्कार्यार्थं हतोऽसि त्वमतो मे ॥
  32. 32
    जटायुः वक्त्राद्रक्तं समुद्वमन् ।उवाच रावणो राम राक्षसो ॥
  33. 33
    आदाय मैथिलीं सीतां दक्षिणाभिमुखो ययौ ।इतो वक्तुं न मे शक्तिः प्राणान्स्त्यक्ष्यामि तेऽग्रतः ॥
  34. 34
    दिष्ट्या दृष्टोऽसि राम त्वं म्रियमाणेन मेऽनघ । विष्णुस्त्वं ॥
  35. 35
    अन्तकालेऽपि दृष्ट्वा त्वां मुक्तोऽहं रघुसत्तम ।हस्ताभ्यां स्पृश मां राम पुनर्यास्यामि ॥
  36. 36
    तथेति रामः तदङ्गं पाणिना स्मयन् ।ततः जटायुः पतितो भुवि ॥
  37. 37
    रामस्तमनुशोचित्वा साश्रुलोचनः ।लक्ष्मणेन समानाय्य काष्ठानि तम् ॥
  38. 38
    दुःखेन रामोऽपि लक्ष्मणेन समन्वितः ।हत्वा वने मृगं तत्र समन्ततः ॥
  39. 39
    प्राक्षिपद्रामः पृथक् पृथगनेकधा ।भक्षन्तु पक्षिणः सर्वे तृप्तो भवतु ॥
  40. 40
    इत्युक्त्वा राघवः प्राह जटायो गच्छ ।मत्सारूप्यं भजस्वाद्य सर्वलोकस्य पश्यतः ॥
  41. 41
    ततोऽनन्तरमेवासौ शुभः ।विमानवरमारुह्य भास्वरं भानुसन्निभम् ॥
  42. 42
    किरीटवरभूषणैः ।द्योतयन् स्वप्रकाशेन पीताम्बरधरोऽमलः ॥
  43. 43
    चतुर्भिः पार्षदैर्विष्णोस्तादृशैरभिपूजितः ।स्तूयमानो योगिगणैः राममाभाष्य सत्वरः ।कृताञ्जलिपुटो भूत्वा तुष्टाव रघुनन्दनम् ॥
  44. 44
    जटायुरुवाचअगणितगुणमप्रमेयमाद्यंसकलजगत्स्थितिसंयमादिहेतुम् ।उपरमपरमं परात्मभूतंसततमहं प्रणतोऽस्मि रामचन्द्रम् ॥
  45. 45
    निरवधिसुखमिन्दिराकटाक्षंक्षपितसुरेन्द्रचतुर्मुखादिदुःखम् ।नरवरमनिशं नतोऽस्मि रामंवरदमहं वरचापबाणहस्तम् ॥
  46. 46
    त्रिभुवनकमनीयरूपमीड्यंरविशतभासुरमीहितप्रदानम् ।शरणदमनिशं सुरागमूलेकृतनिलयं रघुनन्दनं प्रपद्ये ॥
  47. 47
    भवविपिनदवाग्निनामधेयंभवमुखदैवतदैवतं ।दनुजपतिसहस्रकोटिनाशंरवितनयासदृशं हरिं प्रपद्ये ॥
  48. 48
    अविरतभवभावनातिदूरंभवविमुखैर्मुनिभिः सदैव दृश्यम् ।भवजलधिसुतारणाङ्घ्रिपोतंशरणमहं रघुनन्दनं प्रपद्ये ॥
  49. 49
    गिरिवरधारिणमीहिताभिरामम् ।सुरवरदनुजेन्द्रसेविताङ्घ्रिंसुरवरदं प्रपद्ये ॥
  50. 50
    परधनपरदारवर्जितानांपरगुणभूतिषु तुष्टमानसानाम् ।परहितनिरतात्मनां सुसेव्यंरघुवरमम्बुजलोचनं प्रपद्ये ॥
  51. 51
    विकासिताननाब्ज-मतिसुलभं सुरराजनीलनीलम् ।सितजलरुहचारुनेत्रशोभंरघुपतिमीशगुरोर्गुरुं ॥
  52. 52
    हरिकमलजशम्भुरूपभेदात्-त्वमिह विभासि ।रविरिव जलपूरितोदपात्रे-ष्वमरपतिस्तुतिपात्रमीशमीडे ॥
  53. 53
    शतकोटिसुन्दराङ्गंशतपथगोचरभावनाविदूरम् ।यतिपतिहृदये सदा विभातंरघुपतिमार्तिहरं प्रभुं प्रपद्ये ॥
  54. 54
    इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः ।उवाच गच्छ भद्रं ते मम विष्णोः ॥
  55. 55
    शृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत् ।स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥
  56. 56
    इति राघवभाषितं तदाश्रुतवान् हर्षसमाकुलो ।रघुनन्दनसाम्यमास्थितःप्रययौ ब्रह्मसुपूजितं पदम् ॥