Adhyātma Rāmāyaṇa · The Slaying of Vālin
Tap a verse for its meaning
- 1इत्थं ।रामः सुग्रीवमालोक्य सस्मितं वाक्यमब्रवीत् ॥
- 2मायां मोहकरीं तस्मिन् वितन्वन् कार्यसिद्धये । त्वदुक्तं यत्तन्मां सत्यमेव न संशयः ॥
- 3किन्तु लोका वदिष्यन्ति मामेवं ।कृतवान् किं कपीन्द्राय सख्यं कृत्वाग्निसाक्षिकम् ॥
- 4इति लोकापवादो मे भविष्यति न संशयः ।तस्मादाह्वय भद्रं ते गत्वा युद्धाय वालिनम् ॥
- 5तं हत्वा राज्ये त्वामभिषेचये ।तथेति गत्वा सुग्रीवः किष्किन्धोपवनं द्रुतम् ॥
- 6कृत्वा शब्दं महानादं तमाह्वयत वालिनम् ।तच्छ्रुत्वा भ्रातृनिनदं ॥
- 7गृहाच्छीघ्रं सुग्रीवो यत्र वानरः ।तमापतन्तं सुग्रीवः शीघ्रं वक्षस्यताडयत् ॥
- 8सुग्रीवमपि मुष्टिभ्यां जघान ।वाली तमपि सुग्रीव एवं क्रुद्धौ परस्परम् ॥
- 9अयुद्ध्येतामेकरूपौ दृष्ट्वा रामोऽतिविस्मितः ।न मुमोच तदा बाणं ॥
- 10ततो दुद्राव सुग्रीवो वमन् रक्तं ।वाली स्वभवनं यातः सुग्रीवो राममब्रवीत् ॥
- 11किं मां घातयसे राम शत्रुणा ।यदि मद्धनने वाञ्छा त्वमेव जहि मां ॥
- 12एवं मे प्रत्ययं कृत्वा रघूत्तम ।उपेक्षसे किमर्थं मां ॥
- 13श्रुत्वा सुग्रीववचनं रामः ।आलिङ्ग्य मा स्म भैषीस्त्वं दृष्ट्वा वामेकरूपिणौ ॥
- 14मित्रघातित्वमाशङ्क्य मुक्तवान् सायकं न हि ।इदानीमेव ते चिह्नं करिष्ये ॥
- 15गत्वाह्वय पुनः शत्रुं हतं द्रक्ष्यसि वालिनम् ।रामोऽहं त्वां भ्रातर्हनिष्यामि रिपुं क्षणात् ॥
- 16इत्याश्वास्य स सुग्रीवं रामो लक्ष्मणमब्रवीत् ।सुग्रीवस्य गले पुष्पमालामामुच्य पुष्पिताम् ॥
- 17प्रेषयस्व सुग्रीवं वालिनं प्रति ।लक्ष्मणस्तु तदा बद्ध्वा गच्छ गच्छेति ॥
- 18प्रेषयामास सुग्रीवं सोऽपि गत्वा तथाकरोत् ।पुनरप्यद्भुतं शब्दं कृत्वा वालिनमाह्वयत् ॥
- 19तच्छ्रुत्वा विस्मितो वाली क्रोधेन महतावृतः ।बद्ध्वा परिकरं सम्यग्गमनायोपचक्रमे ॥
- 20गच्छन्तं वालिनं गृहीत्वा तम् ।न गन्तव्यं त्वयेदानीं शङ्का मेऽतीव जायते ॥
- 21इदानीमेव ते पुनरायाति सत्वरः ।सहायो बलवांस्तस्य कश्चिन्नूनं समागतः ॥
- 22वाली तामाह हे शङ्का ते व्येतु तद्गता ।प्रिये करं परित्यज्य गच्छ गच्छामि तं ॥
- 23हत्वा शीघ्रं समायास्ये सहायस्तस्य को भवेत् । यदि हत्वोभयं क्षणात् ॥
- 24आयास्ये मा शुचः कथं तिष्ठेद् गृहे रिपुम् ।ज्ञात्वाप्याह्वयमानं हि हत्वायास्यामि ॥
- 25मत्तोऽन्यच्छृणु राजेन्द्र श्रुत्वा कुरु यथोचितम् ।आह मामङ्गदः पुत्रो मृगयायां श्रुतं वचः ॥
- 26श्रीमान् रामो किल ।लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह ॥
- 27आगतो दण्डकारण्यं तत्र सीता हृता किल ।रावणेन सह भ्रात्रा मार्गमाणोऽथ ॥
- 28आगतो ऋष्यमूकाद्रिं सुग्रीवेण समागतः ।चकार तेन सुग्रीवः सख्यं चानलसाक्षिकम् ॥
- 29प्रतिज्ञां कृतवान् रामः सुग्रीवाय सलक्ष्मणः ।वालिनं समरे हत्वा राजानं त्वां करोम्यहम् ॥
- 30इति निश्चित्य तौ यातौ निश्चितं शृणु मद्वचः ।इदानीमेव ते भग्नः कथं पुनरुपागतः ॥
- 31अतस्त्वं सर्वथा वैरं त्यक्त्वा सुग्रीवमानय ।ऽभिषिञ्चाशु रामं त्वं ॥
- 32पाहि मामङ्गदं राज्यं कुलं च ।इत्युक्त्वाश्रुमुखी तारा पादयोः प्रणिपत्य तम् ॥
- 33हस्ताभ्यां चरणौ धृत्वा रुरोद ।तामालिङ्ग्य तदा वाली सस्नेहमिदमब्रवीत् ॥
- 34स्त्रीस्वभावाद्बिभेषि त्वं प्रिये नास्ति भयं मम ।रामो यदि समायातो लक्ष्मणेन समं ॥
- 35तदा रामेण मे स्नेहो भविष्यति न संशयः ।रामो साक्षादवतीर्णोऽखिलप्रभुः ॥
- 36श्रुतं पूर्वं मयानघे ।स्वपक्षः परपक्षो वा नास्ति तस्य ॥
- 37आनेष्यामि गृहं साध्वि नत्वा त ।भजतोऽनुभजत्येष सुरेश्वरः ॥
- 38यदि स्वयं समायाति सुग्रीवो हन्मि तं क्षणात् ।यदुक्तं यौवराज्याय सुग्रीवस्याभिषेचनम् ॥
- 39कथमाहूयमानोऽहं युद्धाय रिपुणा प्रिये ।शूरोऽहं सर्वलोकानां सम्मतः ॥
- 40भीतभीतमिदं वाक्यं कथं वाली वदेत्प्रिये ।तस्माच्छोकं परित्यज्य तिष्ठ सुन्दरि ॥
- 41एवमाश्वास्य तारां तां शोचन्तीमश्रुलोचनाम् ।गतो वाली सुग्रीवस्य वधाय सः ॥
- 42दृष्ट्वा वालिनमायान्तं सुग्रीवो ।उत्पपात गले बद्धपुष्पमालो ॥
- 43मुष्टिभ्यां वालिनं सोऽपि तं तथा ।अहन्वाली च सुग्रीवं सुग्रीवो वालिनं तथा ॥
- 44रामं सुग्रीवो युयुधे युधि ।इत्येवं युद्ध्यमानौ तौ दृष्ट्वा रामः ॥
- 45बाणमादाय तूणीरादैन्द्रे सन्दधे ।आकृष्य कर्णपर्यन्तमदृश्यो वृक्षखण्डगः ॥
- 46निरीक्ष्य वालिनं सम्यग्लक्ष्यं तद्धृदयं हरिः ।उत्ससर्जाशनिसमं महावेगं महाबलः ॥
- 47स शरो वक्षो वालिनः ।उत्पपात महाशब्दं मुञ्चन् स निपपात ह ॥
- 48तदा मुहूर्त्तं निःसन्ज्ञो भूत्वा चेतनमाप सः ।ततो वाली ददर्शाग्रे रामं ।धनुरालम्ब्य वामेन हस्तेनान्येन सायकम् ॥
- 49बिभ्राणं चीरवसनं जटामुकुटधारिणम् ।विशालवक्षसं भ्राजविभूषितम् ॥
- 50पीनचार्वायतभूजं ।सुग्रीवलक्ष्मणाभ्यां च पार्श्वयोः ॥
- 51शनकैः प्राह वाली रामं ।किं मयापकृतं राम तव येन हतोऽस्म्यहम् ॥
- 52राजधर्ममविज्ञाय गर्हितं कर्म ते कृतम् ।वृक्षखण्डे तिरोभूत्वा त्यजता मयि ॥
- 53यशः किं लप्स्यसे राम तसङ्गरः ।यदि क्षत्रियदायादो समुद्भवः ॥
- 54युद्धं कृत्वा समक्षं मे प्राप्यसे तत्फलं तदा । कृतं किं ते मया वा न कृतं किमु ॥
- 55रावणेन हृता तव राम महावने ।सुग्रीवं शरणं यातस्तदर्थमिति शुश्रुम ॥
- 56राम न जानीषे मद्बलं ।रावणं सकुलं बद्ध्वा ससीतं लङ्कया सह ॥
- 57आनयामि मुहूर्त्तार्द्धाद्यदि चेच्छामि राघव । इति लोकेऽस्मिन् कथ्यसे रघुनन्दन ॥
- 58वानरं व्याधवद्धत्वा धर्मं कं लप्स्यसे वद ।अभक्ष्यं वानरं मांसं हत्वा मां किं करिष्यसि ॥
- 59इत्येवं बहु भाषन्तं वालिनं राघवोऽब्रवीत् ।धर्मस्य लोकेऽस्मिंश्चरामि ॥
- 60अधर्मकारिणं हत्वा सद्धर्मं पालयाम्यहम् ।दुहिता भगिनी भ्रातुर्भार्या चैव तथा स्नुषा ॥
- 61समा यो रमते तासामेकामपि । स तु विज्ञेयः स वध्यो राजभिः सदा ॥
- 62त्वं तु भ्रातुः भार्यायां रमसे बलात् ।अतो मया हतोऽसि वनगोचर ॥
- 63त्वं जानीषे विचरन्ति यत् ।लोकं पुनानाः सञ्चारैरतस्तान्नातिभाषयेत् ॥
- 64तच्छ्रुत्वा भयसन्त्रस्तो ज्ञात्वा रामं ।वाली प्रणम्य रभसाद्रामं वचनमब्रवीत् ॥
- 65राम राम महाभाग जाने त्वां । मया किञ्चिदुक्तं तत्क्षन्तुमर्हसि ॥
- 66साक्षात्त्वच्छरघातेन विशेषेण तवाग्रतः । महायोगिदुर्लभं तव दर्शनम् ॥
- 67यन्नाम विवशो गृह्णन् म्रियमाणः ।याति साक्षात्स एवाद्य मुमूर्षोर्मे पुरः स्थितः ॥
- 68देव जानामि पुरुषं त्वां श्रियं जानकीं शुभाम् ।रावणस्य वधार्थाय जातं त्वां ॥
- 69मां राम यान्तं त्वत्पदमुत्तमम् ।मम तुल्यबले बाले त्वं दयां कुरु ॥
- 70विशल्यं कुरु मे राम हृदयं पाणिना स्पृशन् ।तथेति बाणमुद्धृत्य रामः पस्पर्श पाणिना ।त्यक्त्वा तद्वानरं देहममरेन्द्रोऽभवत्क्षणात् ॥
- 71वाली रघूत्तमशराभिहतो विमृष्टोरामेण सुखाकरेण ।सद्यो विमुच्य कपिदेहमनन्यलभ्यंप्राप्तं पदं परमहंसगणैर्दुरापम् ॥