Leave

Adhyātma Rāmāyaṇa · The Counsel and the Burning of Laṅkā

Tap a verse for its meaning

  1. 1
    श्रीमहादेव उवाच ।यान्तं कपीन्द्रं धृतपाशबन्धनंविलोकयन्तं नगरं ।अताडयन्मुष्टितलैः सुकोपनाःपौराः समन्तादनुयान्त ईक्षितुम् ॥
  2. 2
    ब्रह्मास्त्रमेनं क्षणमात्रसङ्गमंकृत्वा गतं ब्रह्मवरेण सत्वरम् ।ज्ञात्वा हनूमानपि फल्गुरज्जुभि-र्धृतो ययौ कार्यविशेषगौरवात् ॥
  3. 3
    च रावणस्य तंपुरो निधायाह बलारिजित्तदा ।बद्धो मया ब्रह्मवरेण समागतोऽनेन हता महासुराः ॥
  4. 4
    यद्युक्तमत्रार्य विचार्य मन्त्रिभि-र्विधीयतामेष न लौकिको हरिः ।ततो विलोक्याह स राक्षसेश्वरःप्रहस्तमग्रे स्थितमञ्जनाद्रिभम् ॥
  5. 5
    पृच्छैनमसौ किमागतःकिमत्र कार्यं कुत एव वानरः ।वनं किमर्थं सकलं हताः किमर्थं मम राक्षसा बलात् ॥
  6. 6
    ततः प्रहस्तो हनुमन्तमादरात्पप्रच्छ केन प्रहितोऽसि वानर ।भयं च ते मास्तु विमोक्ष्यसे मयासत्यं वदस्वाखिलराजसन्निधौ ॥
  7. 7
    ततोऽतिहर्षात्पवनात्मजो रिपुंनिरीक्ष्य लोकत्रयकण्टकासुरम् ।वक्तुं प्रचक्रे रघुनाथसत्कथांक्रमेण रामं मनसा स्मरन्मुहुः ॥
  8. 8
    शृणु स्फुटं देवगणाद्यमित्र हेरामस्य दूतोऽहमशेषहृत्स्थितेः ।यस्याखिलेशस्य हृताधुना त्वया स्वनाशाय शुनेव सद्धविः ॥
  9. 9
    स राघवोऽभ्येत्य मतङ्गपर्वतंसुग्रीवमैत्रीमनलस्य सन्निधौ ।कृत्वैकबाणेन निहत्य वालिनंसुग्रीवमेवाधिपतिं चकार तम् ॥
  10. 10
    स वानराणामधिपो महाबलीमहाबलै ।रामेण सार्धं सह लक्ष्मणेन भोःप्रवर्षणेऽमर्षयुतोऽवतिष्ठते ॥
  11. 11
    सञ्चोदितास्तेन महाहरीश्वराधरासुतां मार्गयितुं दिशो दश ।तत्राहमेकः कपिःसीतां विचिन्वन् शनकैः समागतः ॥
  12. 12
    दृष्टा मया सीता कपित्वाद्विपिनं विनाशितम् ।दृष्ट्वा ततोऽहं रभसा समागतान्मां धृतचापसायकान् ॥
  13. 13
    मया हतास्ते प्रियो हि देहोऽखिलदेहिनां प्रभो ।ब्रह्मास्त्रपाशेन निबध्य मां ततःसमागम ॥
  14. 14
    स्पृष्ट्वैव मां ब्रह्मवरप्रभावतःत्यक्त्वा गतं सर्वमवैमि रावण ।तथाप्यहं बद्ध इवागतो हितंप्रवक्तुकामः ॥
  15. 15
    विचार्य लोकस्य विवेकतो गतिंन राक्षसीं बुद्धिमुपैहि रावण ।दैवीं गतिं संसृतिमोक्षहैतुकींसमाश्रयात्यन्तहिताय देहिनः ॥
  16. 16
    त्वं ब्रह्मणो ह्युत्तमवंशसम्भवः ।पौलस्त्यपुत्रोऽसि कुबेरबान्धवः ।पि च पश्य राक्षसोनास्यात्मबुद्ध्या किमु राक्षसो नहि ॥
  17. 17
    शरीरबुद्धीन्द्रियदुःखसन्ततिःन ते न च त्वं तव ।अज्ञानहेतोश्च तथैव सन्ततेःअसत्त्वमस्याः ॥
  18. 18
    इदं तु सत्यं तव नास्ति विकारहेतुर्न च तेऽद्वयत्वतः ।यथा नभः सर्वगतं न लिप्यतेतथा भवान् देहगतोऽपि सूक्ष्मकः ।देहेन्द्रियप्राणशरीरसङ्गतःत्वात्मेति बुद्ध्वाखिलबन्धभाग्भवेत् ॥
  19. 19
    चिन्मात्रमेवाहमजोऽहमक्षरोह्यानन्दभावोऽहमिति प्रमुच्यते ।देहोऽप्यनात्मा पृथिवीविकारजोन प्राण आत्माऽनिल एष एव सः ॥
  20. 20
    मनोऽप्यहङ्कारविकार एव नोन चापि बुद्धिः प्रकृतेर्विकारजा ।आत्मा चिदानन्दमयोऽविकारवान्देहादिसङ्घाद्व्यतिरिक्त ॥
  21. 21
    निरञ्जनो मुक्त उपाधितः सदाज्ञात्वैवमात्मानमितो विमुच्यते ।अतोऽहमात्यन्तिकमोक्षसाधनंवक्ष्ये शृणुष्वावहितो महामते ॥
  22. 22
    विष्णोर्हि सुविशोधनं धियःततो भवेज्ज्ञानमतीव निर्मलम् ।विशुद्धतत्त्वानुभवो भवेत्ततःसम्यग्विदित्वा परमं पदं व्रजेत् ॥
  23. 23
    अतो भजस्वाद्य हरिं रमापतिंरामं पुराणं प्रकृतेः परं विभुम् ।विसृज्य मौर्ख्यं हृदि शत्रुभावनांभजस्व रामं ।सीतां पुरस्कृत्य सपुत्रबान्धवोरामं नमस्कृत्य विमुच्यसे भयात् ॥
  24. 24
    रामं परात्मानमभावयन् जनोभक्त्या हृदिस्थं सुखरूपमद्वयम् ।कथं परं तीरमवाप्नुयाज्जनोभवाम्बुधेर्दुःखतरङ्गमालिनः ॥
  25. 25
    नो चेत्त्वमज्ञानमयेन वह्निनाज्वलन्तमात्मानमरक्षितारिवत् ।नयस्यधोऽधः स्वकृतैश्च विमोक्षशङ्का न च ते भविष्यति ॥
  26. 26
    श्रुत्वामृतास्वादसमानभाषितंतद्वायुसूनोर्दशकन्धरोऽसुरः ।अमृष्यमाणोऽतिरुषा कपीश्वरंजगाद रक्तान्तविलोचनो ज्वलन् ॥
  27. 27
    कथं ममाग्रे विलपस्यभीतवत्प्लवङ्गमानामधमोऽसि ।क एष रामः कतमो वनेचरोनिहन्मि सुग्रीवयुतं ॥
  28. 28
    त्वां चाद्य हत्वा जनकात्मजां ततोनिहन्मि रामं सहलक्ष्मणं ततः ।सुग्रीवमग्रे बलिनं कपीश्वरंसवानरं हन्म्यचिरेण वानर ।श्रुत्वा दशग्रीववचः स मारुतिः दहन्निवासुरम् ॥
  29. 29
    न मे समा रावणकोटयोऽधमरामस्य दासोऽहमपारविक्रमः ।श्रुत्वातिकोपेन हनूमतो वचोदशाननो राक्षसमेवमब्रवीत् ॥
  30. 30
    पार्श्वे स्थितं मारय कपिंपश्यन्तु सर्वेऽसुरमित्रबान्धवाः ।निवारयामास ततो विभीषणोमहासुरं सायुधमुद्यतं वधे ।राजन् वधार्हो न भवेत्कथञ्चनप्रतापयुक्तैः परराजवानरः ॥
  31. 31
    हतेऽस्मिन् दूते वार्ता को वा निवेदयेत् त्वं यमुद्दिश्य वधाय समुपस्थितः ॥
  32. 32
    अतो वधसमं किञ्चिदन्यच्चिन्तय वानरे ।सचिह्नो गच्छतु हरिर्यं दृष्ट्वाऽऽयास्यति द्रुतम् ॥
  33. 33
    रामः सुग्रीवसहितस्ततो युद्धं भवेत्तव ।विभीषणवचः श्रुत्वा रावणोऽप्येतदब्रवीत् ॥
  34. 34
    वानराणां हि महामानो भवेत्किल ।अतो वस्त्रादिभिः पुच्छं वेष्टयित्वा प्रयत्नतः ॥
  35. 35
    योजयित्वैनं भ्रामयित्वा पुरेऽभितः ।विसर्जयत पश्यन्तु सर्वे ॥
  36. 36
    तथेति शणपट्टैश्च वस्त्रैरन्यैरनेकशः ।तैलाक्तैर्वेष्टयामासुर्लाङ्गूलं मारुतेर्दृढम् ॥
  37. 37
    किञ्चिदनलं दीपयित्वाथ राक्षसाः ।रज्जुभिः सुदृढं बद्ध्वा धृत्वा तं बलिनोऽसुराः ॥
  38. 38
    समन्ताद्भ्रामयामासुश्चोरोऽयमिति वादिनः ।तूर्यघोषैर्घोषयन्तस्ताडयन्तो मुहुर्मुहुः ॥
  39. 39
    हनूमतापि तत्सर्वं सोढं किञ्चिच्चिकीर्षुणा ।गत्वा तु पश्चिमद्वारसमीपं तत्र मारुतिः ॥
  40. 40
    सूक्ष्मो बभूव बन्धेभ्यो निःसृतः पुनरप्यसौ ।बभूव पर्वताकारस्तत उत्प्लुत्य गोपुरम् ॥
  41. 41
    तत्रैकं स्तम्भमादाय हत्वा तान् क्षणात् ।विचार्य कार्यशेषं स प्रासादाग्राद्गृहाद्गृहम् ॥
  42. 42
    उत्प्लुत्योप्लुत्य महता कपिः ।ददाह लङ्कामखिलां साट्टप्रासादतोरणाम् ॥
  43. 43
    हा तात पुत्र नाथेति समन्ततः ।व्याप्ताः प्रासादशिखरेऽप्यारूढा ॥
  44. 44
    दृश्यन्ते पतन्त्यः पावकेऽखिलाः ।विभीषणगृहं त्यक्त्वा सर्वं ॥
  45. 45
    तत उत्प्लुत्य हनूमान्मारुतात्मजः ।लाङ्गूलं मज्जयित्वान्तः स्वस्थचित्तो बभूव सः ॥
  46. 46
    वायोः प्रियसखित्वाच्च सीतया प्रार्थितोऽनलः ।न ददाह हरेः पुच्छं बभूवात्यन्तशीतलः ॥
  47. 47
    यतापत्रयानलमपीह तरन्ति सद्यः ।तस्यैव किं रघुवरस्य विशिष्टदूतःसन्तप्यते कथमसौ प्रकृतानलेन ॥