Adhyātma Rāmāyaṇa · The Return of Hanumān
Tap a verse for its meaning
- 1श्रीमहादेव उवाच ।ततः सीतां हनूमानब्रवीद्वचः ।आज्ञापयतु मां देवि भवती ॥
- 2गच्छामि रामस्त्वां द्रष्टुमागमिष्यति ।इत्युक्त्वा त्रिःपरिक्रम्य जानकीं ॥
- 3प्रणम्य प्रस्थितो गन्तुमिदं वचनमब्रवीत् ।देवि गच्छामि भद्रं ते तूर्णं द्रक्ष्यसि ॥
- 4लक्ष्मणं च ससुग्रीवं वानरायुत ।ततः प्राह हनूमन्तं जानकी ॥
- 5त्वां दृष्ट्वा विस्मृतं दुःखमिदानीं त्वं गमिष्यसि ।इतः परं कथं वर्ते रामवार्ताश्रुतिं विना ॥
- 6मारुतिरुवाच ।यद्येवं देवि मे स्कन्धमारोह क्षणमात्रतःरामेण मन्यसे यदि जानकि ॥
- 7सीतोवाच ।रामः सागरमाशोष्य बद्ध्वा वा ।आगत्य वानरैः सार्धं हत्वा रावणमाहवे ॥
- 8मां नयेद्यदि रामस्य कीर्तिर्भवति शाश्वती ।अतो गच्छ कथं चापि सन्धारयाम्यहम् ॥
- 9इति प्रस्थापितो वीरः सीतया प्रणिपत्य ताम् ।जगाम पर्वतस्याग्रे गन्तुं पारं ॥
- 10तत्र गत्वा पादाभ्यां पीडयन् गिरिम् ।जगाम पर्वतश्च महीतलम् ॥
- 11गतो महीसमानत्वं त्रिंशद्योजनमुच्छ्रितः ।मारुतिर्गगनान्तःस्थो महाशब्दं चकार सः ॥
- 12तं श्रुत्वा वानराः सर्वे ज्ञात्वा मारुतिमागतम् । महताविष्टाः शब्दं चक्रु ॥
- 13शब्देनैव विजानीमः समागतः ।हनूमानेव पश्यध्वं वानरा ॥
- 14एवं ब्रुवत्सु वीरेषु वानरेषु स मारुतिः । गिरेर्मुर्ध्नि वानरानिदमब्रवीत् ॥
- 15सीता मया लङ्का धर्षिता च ।सम्भाषितो दशग्रीवस्ततोऽहं पुनरागतः ॥
- 16इदानीमेव गच्छामो ।इत्युक्ता वानराः सर्वे हर्षेणालिङ्ग्य मारुतिम् ॥
- 17केचिच्चुचुम्बुर्लाङ्गूलं ननृतुः केचिदुत्सुकाः ।हनूमता समेतास्ते जग्मुः प्रस्रवणं गिरिम् ॥
- 18गच्छन्तो ददृशुर्वीरा वनं ।मधुसंज्ञं तदा प्राहुरङ्गदं वानरर्षभाः ॥
- 19स्मो वयं वीर देह्यनुज्ञां महामते ।भक्षयामः फलान्यद्य पिबामोऽमृतवन्मधु ॥
- 20सन्तुष्टा राघवं द्रष्टुं गच्छामोऽद्यैव ॥
- 21अङ्गद उवाच ।हनूमान् कृतकार्योऽयं पिबतैत ।जक्षध्वं फलमूलानि त्वरितं हरिसत्तमाः ॥
- 22ततः प्रविश्य हरयः पातुमारेभिरे ।रक्षिणस्ताननादृत्य नोदितान् ॥
- 23पिबतस्ताडयामासुर्वानरान् वानरर्षभाः ।ततस्तान् पादैश्चूर्णयित्वा पपुर्मधु ॥
- 24ततो दधिमुखः क्रुद्धः सुग्रीवस्य स मातुलः ।जगाम रक्षिभिः सार्धं यत्र राजा ॥
- 25गत्वा तमब्रवीद्देव चिरकालाभिरक्षितम् ।नष्टं मधुवनं तेऽद्य कुमारेण ॥
- 26श्रुत्वा दधिमुखेनोक्तं सुग्रीवो ।दृष्ट्वागतो न सन्देहः सीतां ॥
- 27नो चेन्मधुवनं द्रष्टुं समर्थः को भवेन्मम ।तत्रापि कृतं कार्यं न संशयः ॥
- 28श्रुत्वा सुग्रीववचनं हृष्टो रामस्तमब्रवीत् ।किमुच्यते त्वया राजन् वचः ॥
- 29सुग्रीवस्त्वब्रवीद्वाक्यं देव दृष्टावनीसुता ।हनुमत्प्रमुखाः सर्वे प्रविष्टा ॥
- 30स्म सकलं ताडयन्ति स्म रक्षिणः ।अकृत्वा देवकार्यं ते द्रष्टुं मधुवनं मम ॥
- 31न समर्थास्ततो देवी दृष्टा सीतेति ।रक्षिणो वो भयं मास्तु गत्वा ब्रूत ममाज्ञया ॥
- 32वानरानङ्गदमुखानानयध्वं ममान्तिकम् ।श्रुत्वा सुग्रीववचनं गत्वा ते ॥
- 33हनूमत्प्रमुखानूचुर्गच्छतेश्वरशासनात् ।द्रष्टुमिच्छति सुग्रीवः सरामो लक्ष्मणान्वितः ॥
- 34युष्मानतीव हृष्टास्ते त्वरयन्ति महाबलाः ।तथेत्यम्बरमासाद्य ययुस्ते ॥
- 35हनूमन्तं पुरस्कृत्य युवराजं तथाङ्गदम् ।रामसुग्रीवयोरग्रे निपेतुर्भुवि सत्वरम् ॥
- 36हनूमान् राघवं प्राह दृष्टा सीता ।साष्टाङ्गं प्रणिपत्याग्रे रामं पश्चाद्धरीश्वरम् ॥
- 37कुशलं प्राह जानकी त्वां शुचान्विता ।अशोकवनिकामध्ये शिंशपामूलमाश्रिता ॥
- 38राक्षसीभिः परिवृता निराहारा कृशा प्रभो ।हा राम रामरामेति शोचन्ती ॥
- 39मया दृष्टा शनैराश्वासिता शुभा ।वृक्षशाखान्तरे स्थित्वा ते कथाम् ॥
- 40जन्मारभ्य तवात्यर्थं दण्डकागमनं तथा ।दशाननेन हरणं जानक्या रहिते त्वयि ॥
- 41सुग्रीवेण यथा मैत्री कृत्वा वालिनिबर्हणम् ।मार्गणार्थं च वैदेह्या सुग्रीवेण विसर्जिताः ॥
- 42महाबला महासत्त्वा हरयो ।गताः सर्वत्र सर्वे वै तत्रैकोऽहमिहागतः ॥
- 43अहं सुग्रीवसचिवो दासोऽहं राघवस्य हि ।दृष्टा यज्जानकी भाग्या फलितोऽद्य मे ॥
- 44इत्युदीरितमाकर्ण्य सीता ।केन वा कर्णपीयुषं श्रावितं मे शुभाक्षरम् ॥
- 45यदि सत्यं तदायातु मद्दर्शनपथं तु सः ।ततोऽहं सूक्ष्मरूपेण ॥
- 46प्रणम्य प्राञ्जलिर्भूत्वा दूरादेव स्थितः प्रभो ।पृष्टोऽहं सीतया कस्त्वमित्यादि ॥
- 47मया सर्वं क्रमेणैव विज्ञापितमरिन्दम ।पश्चान्मयार्पितं देव्यै ॥
- 48तेन मामतिविश्वस्ता वचनं चेदमब्रवीत् ।यथा दृष्टास्मि हनुमन् दिवानिशम् ॥
- 49राक्षसीनां तर्जनैस्तत्सर्वं कथय राघवे ।मयोक्तं देवि रामोऽपि ॥
- 50परिशोचत्यहोरात्रं त्वद्वार्तां नाधिगम्य सः ।इदानीमेव गत्वाहं स्थितिं रामाय ते ब्रुवे ॥
- 51रामः सुग्रीवेण ।वानरानीकपैः सार्धमागमिष्यति तेऽन्तिकम् ॥
- 52रावणं सकुलं हत्वा नेष्यति त्वां स्वकं पुरम् ।अभिज्ञां देहि मे देवि यथा मां विश्वसेद्विभुः ॥
- 53इत्युक्ता सा शिरोरत्नं स्थितं प्रियम् ।दत्त्वा काकेन यद्वृत्तं चित्रकूटगिरौ पुरा ॥
- 54तदप्याहाश्रुपूर्णाक्षी कुशलं ब्रूहि राघवम् ।लक्ष्मणं ब्रूहि मे किञ्चिद्दुरुक्तं भाषितं पुरा ॥
- 55तत्क्षमस्वाज्ञभावेन भाषितं ।तारयेन्मां यथा रामस्तथा कुरु कृपान्वितः ॥
- 56इत्युक्त्वा सीता दुःखेन महतावृता ।मयाप्याश्वासिता राम वदता सर्वमेव ते ॥
- 57ततः प्रस्थापितो राम त्वत्समीपमिहागतः ।तदागमनवेलायामशोकवनिकां प्रियाम् ॥
- 58राक्षसांस्तत्र बहून् हत्वा क्षणादहम् ।रावणस्य सुतं हत्वा रावणेनाभिभाष्य च ॥
- 59लङ्कामशेषतो दग्ध्वा पुनरप्यागमं क्षणात् ।श्रुत्वा हनूमतो वाक्यं रामोऽत्यन्तप्रहृष्टधीः ॥
- 60हनूमंस्ते कृतं कार्यं देवैरपि ।उपकारं न पश्यामि तव ॥
- 61इदानीं ते प्रयच्छामि सर्वस्वं मम मारुते ।इत्यालिङ्ग्य समाकृष्य गाढं ॥
- 62सार्द्रनेत्रो रघुश्रेष्ठः परां प्रीतिमवाप सः ।हनूमन्तमुवाचेदं राघवो ॥
- 63परिरम्भो हि मे लोके दुर्लभः ।अतस्त्वं मम भक्तोऽसि प्रियोऽसि हरिपुङ्गव ॥
- 64यत्पादपद्मयुगलं तुलसीदलाद्यैःसम्पूज्य विष्णुपदवीमतुलां प्रयान्ति ।तेनैव किं पुनरसौ परिरब्धमूर्तीरामेण वायुतनयः कृतपुण्यपुञ्जः ॥