Adhyātma Rāmāyaṇa · The March to the Southern Ocean
Tap a verse for its meaning
- 1श्रीमहादेव उवाच ।यथावद्भाषितं वाक्यं श्रुत्वा रामो हनूमतः ।उवाचानन्तरं वाक्यं महतावृतः ॥
- 2कार्यं कृतं देवैरपि ।मनसापि यदन्येन स्मर्तुं शक्यं न भूतले ॥
- 3शतयोजनविस्तीर्णं लङ्घयेत्कः ।लङ्कां च राक्षसैर्गुप्तां को वा धर्षयितुं क्षमः ॥
- 4भृत्यकार्यं हनुमता कृतं सर्वमशेषतः ।सुग्रीवस्येदृशो लोके न भूतो न भविष्यति ॥
- 5अहं च रघुवंशश्च लक्ष्मणश्च ।जानक्या दर्शनेनाद्य रक्षिताः स्मो हनूमता ॥
- 6सर्वथा सुकृतं कार्यं जानक्याः ।समुद्रं मनसा स्मृत्वा सीदतीव मनो मम ॥
- 7कथं नक्रझषाकीर्णं समुद्रं शतयोजनम् ।लङ्घयित्वा रिपुं हन्यां कथं द्रक्ष्यामि ॥
- 8श्रुत्वा तु रामवचनं सुग्रीवः प्राह । लङ्घयिष्यामो महानक्रझषाकुलम् ॥
- 9लङ्कां च विधमिष्यामो हनिष्यामोऽद्य रावणम् । त्यज रघुश्रेष्ठ चिन्ता ॥
- 10एतान् पश्य महासत्त्वान् शूरान् ।त्वत्प्रियार्थं समुद्युक्तान् प्रवेष्टुमपि ॥
- 11बुद्धिं कुरुष्व प्रथमं ततः ।दृष्ट्वा लङ्कां दशग्रीवो हत इत्येव मन्महे ॥
- 12नहि पश्याम्यहं कञ्चि राघव ।गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ॥
- 13सर्वथा नो जयो राम भविष्यति न संशयः । च पश्यामि तथा भूतानि सर्वशः ॥
- 14सुग्रीववचनं श्रुत्वा ।अङ्गीकृत्याब्रवीद्रामो हनूमन्तं पुरःस्थितम् ॥
- 15येन केन प्रकारेण लङ्घयामो ।लङ्कास्वरूपं मे ब्रूहि दुःसाध्यं देवदानवैः ॥
- 16ज्ञात्वा तस्य प्रतीकारं करिष्यामि कपीश्वर ।श्रुत्वा रामस्य वचनं हनूमान् ॥
- 17उवाच प्राञ्जलिर्देव यथा दृष्टं ब्रवीमि ते ।लङ्का दिव्या पुरी देव स्थिता ॥
- 18स्वर्णाट्टालकसंयुता । परिवृता पूर्णाभिर्निर्मलोदकैः ॥
- 19नानोपवनशोभाढ्या दिव्यवापीभिरावृता ।गृहैर्विचित्रशोभाढ्यै शुभैः ॥
- 20पश्चिमद्वारमासाद्य सहस्रशः । तिष्ठन्ति ॥
- 21तिष्ठन्त्यर्बुदसङ्ख्याकाः प्राच्यामपि तथैव च ।रक्षिणो राक्षसा वीरा द्वारं दक्षिणमाश्रिताः ॥
- 22ऽप्यसङ्ख्याता गजाश्वरथपत्तयः ।रक्षयन्ति सदा लङ्कां नानास्त्रकुशलाः प्रभो ॥
- 23सङ्क्रमैर्विविधैर्लङ्का शतघ्नीभिश्च संयुता ।एवं स्थितेऽपि देवेश शृणु मे तत्र चेष्टितम् ॥
- 24दशाननबलौघस्य चतुर्थांशो मया हतः ।दग्ध्वा लङ्कां पुरीं स्वर्णप्रासादो धर्षितो मया ॥
- 25शतघ्न्यः सङ्क्रमाश्चैव नाशिता मे ।देव त्वद्दर्शनादेव लङ्का भवेत् ॥
- 26प्रस्थानं कुरु देवेश गच्छामो लवणाम्बुधेः ।तीरं सह महावीरैर्वानरौघैः समन्ततः ॥
- 27श्रुत्वा हनूमतो वाक्यमुवाच ।सुग्रीव सैनिकान् सर्वान् प्रस्थानायाभिनोदय ॥
- 28विजयो मुहुर्तः परिवर्तते ।अस्मिन्मुहुर्ते गत्वाहं लङ्कां राक्षससङ्कुलाम् ॥
- 29सप्राकारां सुदुर्धर्षां नाशयामि सरावणाम् ।आनेष्यामि च सीतां मे दक्षिणाक्षि स्फुरत्यधः ॥
- 30प्रयातु सर्वा वानराणां तरस्विनाम् ।रक्षन्तु सेनामग्रे पृष्ठे च पार्श्वयोः ॥
- 31हनूमन्तमथारुह्य गच्छाम्यग्रेऽङ्गदं ततः । लक्ष्मणो यातु सुग्रीव त्वं मया सह ॥
- 32गजो गवाक्षो गवयो मैन्दो द्विविद एव च ।नलो नीलः सुषेणश्च जाम्बवांश्च तथापरे ॥
- 33सर्वे गच्छन्तु सर्वत्र सेनायाः ।इत्याज्ञाप्य हरीन् रामः सहलक्ष्मणः ॥
- 34सुग्रीवसहितो हर्षात्सेनामध्यगतो विभुः ।वारणेन्द्रनिभाः सर्वे वानराः ॥
- 35क्ष्वेलन्तः परिगर्जन्तो जग्मुस्ते दक्षिणां दिशम् ।भक्षयन्तो ययुः सर्वे फलानि च मधूनि च ॥
- 36ब्रुवन्तो राघवस्याग्रे हनिष्यामोऽद्य रावणम् ।एवं ते वानरश्रेष्ठा गच्छन्त्यतुलविक्रमाः ॥
- 37हरिभ्यामुह्यमानौ तौ शुशुभाते ।नक्षत्रैः सेवितौ यद्वम्बरे ॥
- 38आवृत्य पृथिवीं कृत्स्नां जगाम ।प्रस्फोटयन्तः पुच्छाग्रानुद्वहन्तश्च ॥
- 39शैलानारोहयन्तश्च जग्मु ।असङ्ख्याताश्च सर्वत्र वानराः ॥
- 40हृष्टास्ते जग्मुरत्यर्थं रामेण परिपालिताः ।गता चमूर्दिवारात्रं क्वचिन्नासज्जत क्षणम् ॥
- 41काननानि विचित्राणि पश्य ।ते सह्यं समतिक्रम्य मलयं च तथा गिरिम् ॥
- 42आययुश्चानुपूर्व्येण समुद्रं ।अवतीर्य हनूमन्तं रामः सुग्रीवसंयुतः ॥
- 43सलिलाभ्याशमासाद्य रामो वचनमब्रवीत् ।आगताः स्मो वयं सर्वे समुद्रं ॥
- 44इतो गन्तुमशक्यं नो वानराः ।अत्र सेनानिवेशोऽस्तु मन्त्रयामोऽस्य तारणे ॥
- 45श्रुत्वा रामस्य वचनं सुग्रीवः ।सेनां न्यवेशयत् क्षिप्रं रक्षितां ॥
- 46ते पश्यन्तो विषेदुस्तं सागरं भीमदर्शनम् ।महोन्नततरङ्गाढ्यं ॥
- 47अगाधं गगनाकारं सागरं वीक्ष्य दुःखिताः ।तरिष्यामः कथं घोरं सागरं ॥
- 48हन्तव्योऽस्माभिरद्यैव रावणो ।इति सर्वे रामपार्श्वे व्यवस्थिताः ॥
- 49रामः सीतामनुस्मृत्य दुःखेन महतावृतः ।विलप्य जानकीं सीतां बहुधा ॥
- 50अद्वितीयश्चिदात्मैकः सनातनः ।यस्तु जानाति रामस्य स्वरूपं तत्त्वतो जनः ॥
- 51तं न स्पृशति दुःखादि किमुतानन्दमव्ययम् ।दुःखहर्षभयक्रोधलोभमोहमदादयः ॥
- 52अज्ञानलिङ्गान्येतानि कुतः सन्ति ।देहाभिमानिनो दुःखं न देहस्य चिदात्मनः ॥
- 53द्वयाभावात्सुखमात्रं हि दृश्यते ।बुद्ध्याद्यभावात्संशुद्धे दुःखं तत्र न दृश्यते ।अतो दुःखादिकं सर्वं बुद्धेरेव न संशयः ॥
- 54रामः पुरुषः पुराणोनित्योदितो नित्यसुखो निरीहः ।तथापि मायागुणसङ्गतोऽसौसुखीव दुःखीव विभाव्यतेऽबुधैः ॥